Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 51 * न्यायकुसुमाञ्जलि स्तबकः 2 दोषाभाव इत्यर्थः / किमतो यद्येवमित्यत आह - अतो नेदमिति / यदि प्रामाण्यनिश्चायकमनुमानं क्रियते - वेदाः प्रमाणम्, अपेतवक्तृदोषत्वात् तथाविधलौकिकवाक्यवदिति - तदा वेदाः न प्रमाणम् अपेतवक्तृगुणत्वात् तथाविधलौकिकवाक्यविदिति युज्यते / न चैवं किन्त्वप्रामाण्यशङ्का निराक्रियते / तत्र च न सत्प्रतिपक्षावकाश भिप्रायः। यद्यप्रामाण्यशङानिराकरणाय प्रयोगस्तदा सत्प्रतिपक्षत्वं शानिवारणवत शाका(कोरणेऽपि न्यायस्य [स]मानत्वादित्याशयेन परिहरति - नेति / अथ चाभ्युपगमवादो वस्तुशङ्कानिवारणमपि न निश्चयमन्तरेण, निश्चयैकफलादाशप्रणत्वात् तत्त्वनिश्चयफलस्यापीति सर्वजनसिद्धमपि स्वपक्षजातितया नावबुद्ध्यत इति / किमत्र ब्रूमः ? बोध(दोष)सहितगुणनिवृत्तेरेवाप्रामाण्यशङ्कापादकत्वं न तु गुण[नि]वृत्तिमात्रस्येति यदि तदा गुणसहितदोषनिवृत्तेरेवाप्रामाण्यशङ्कापसारकत्वं न तु दोषविनिवृत्तिमात्रस्येति शङ्कोत्तराभ्यामादर्शयति - तस्या इति / एतेन विपक्षे बाधकमुक्तम् / समस्तशङ्कापसारणेन निरात(श)ङ्कमेवे[46B]ति दर्शितम् / एवं प्रमा परतो ज्ञायते / अनुभवत्वे सति कार्यत्वात्, कार्यत्वे सत्यनुभवत्वाद् वेत्यपि दु(दृ)ष्टव्यापारम् / प्रमा परतो ज्ञायते [स्वत]स्त्वे उपपद्यमानबाधकत्वादप्रमावत् / न चेदमसिद्ध[म्] / अप्रमाया अपि प्रमात्वं प्रसङ्गरूपबाधकस्य विपरा(री)तत्वादिति / एतेनाभूत्वा भावित्वात् इत्यादि यथाश्रुतमनैकान्तिकमेवेति न साधनम् / अनुभवविशेषणप्रक्षेपेण तु तदपि मनोहरमिति रहस्यम् / एवं प्रमाया वक्तृगुणाधीनत्वं लाभत्वसमर्थनेन वक्तृसिद्धावितरवक्तृसंभवेनेश्वररूपवक्तृसंसिद्धिरिति दर्शितम् / 44. एवं प्रामाण्यं परतो ज्ञायते अनभ्यासदशायां सांशयिकत्वात् अप्रामाण्यवत् / यदि तु स्वतो ज्ञायेत, कदाचिदपि प्रामाण्यसंशयो न स्यात्, ज्ञानत्वसंशयवत् / निश्चिते तदनवकाशात् / न हि साधकबाधकप्रमाणाभावमवधूय समानधर्मादिदर्शनादेवासौ, तथा सति तदनुच्छेदप्रसङ्गात् / अथ प्रमाणवदप्रमाणेऽपि तत्प्रत्ययदर्शनाद् विशेषादर्शनाद् भवति शङ्केत्यभिप्रायः, तत् किं प्रमाणज्ञानोपलम्भेऽपि न तत्प्रामाण्यमुपलब्धं प्रमाणज्ञानमेव वा नोपलब्धम् ? आद्ये कथं स्वतः प्रामाण्यग्रहः, प्रत्ययप्रतीतावपि तदप्रतीतेः, द्वितीये कथं तत्र शङ्का, धर्मिण एवानुपलब्धेरिति / यदपि झटिति प्रचुरतरसमर्थप्रवृत्त्यन्यथानुपपत्त्या स्वतः प्रामाण्यमुच्यते, तदपि नास्ति / अन्यथैवोपपत्तेः / झटिति प्रवृत्तिर्हि झटिति तत्कारणोपनिपातमन्तरेणानुपपद्यमाना तमाक्षिपेत्, प्रचुरप्रवृत्तिरपि स्वकारणप्राचुर्यम्, इच्छा च प्रवृत्तेः कारणम्, तत्कारणमपीष्टाभ्युपायताज्ञानम्, तदपि तज्जातीयत्वलिङ्गानुभवप्रभवम्, सोऽपीन्द्रियसन्निकर्षादिजन्मा, न तु प्रामाण्यग्रहस्य क्वचिदप्युपयोगः / उपयोगे वा स्वत एवेति कुत एतत् ? ततः समर्थप्रवृत्तिप्राचुर्यमपि प्रामाण्यप्राचुर्यात् तद्ग्रहणप्राचुर्याद् वा / स्वतस्त्वं तु तस्य क्वोपयुज्यते / न हि पिपासूनां झटिति प्रचुरा समर्था च प्रवृत्तिरम्भसीति पिपासोपशमनशक्तिस्तस्य प्रत्यक्षा स्यात् / 44. संप्रति प्रमामात्रज्ञप्तेरपि परतस्त्वसमर्थनेनाभिमतप्रमाया अपि तथात्वसिद्धावाप्तपुरुष ईश्वरः सिद्ध्यतीत्याशयेन विप्रतिपन्नं प्रति ज्ञप्तेरपि परतस्त्वं प्रमाणत: साधयति - एवमिति / प्रमा परतो ज्ञायते / ज्ञानज्ञापककारके वक्त्रतिरिक्तकारकाद् ज्ञायते / हेतुरनभ्यासदशायां सांशयिकत्वादिति / ज्ञानग्रहणकालेऽप्रमाणं प्रमाणं वेति संशयाक्रान्तत्वादिति / अन्यथा[ऽप्रमा] प्रमात्वयोरन्यतरग्रहे सांशयि[क] त्वं दृष्टान्तदाान्तिकयोरसिद्धं स्यादिति तत्परिहारार्थमनभ्यासदशायामिति / अनभ्यासदशायामित्यनेन ज्ञानग्रहणकालमुपदर्शयति / अत्रापि 1. अस्पष्टम् /
Loading... Page Navigation 1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210