Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 64
________________ 49 * न्यायकुसुमाञ्जलि स्तबकः 2 वैयात्येन प्रत्यवतिष्ठते - अस्त्विति / वैयात्यमृजु मार्गेण निवारयति - भवेदिति / 42. स्यादेत् / शब्दे तावद् विप्रलिप्सादयो भावा एव दोषाः / ततस्तदभावे स्वत एव शाब्दी प्रमेति चेत्, न / अनुमानादौ लिङ्गविपर्यासादीनां भावानामपि दोषत्वे तदभावमात्रेण प्रमाऽनुत्पत्तेः / अन्यत्र यथा तथाऽस्तु, शब्दे तु विप्रलिप्साद्यभावे वक्तृगुणापेक्षा नास्तीति चेत्, न / गुणाभावे तदप्रामाण्यस्य वक्तृदोषापेक्षा नास्तीति विपर्ययस्यापि सुवचत्वात् / अप्रामाण्यं प्रति दोषाणामन्वयव्यतिरेको स्त इति चेत्, न / प्रामाण्यं प्रत्यपि गुणानां तयोः सत्त्वात् / पौरुषेयविषये इयमस्तु व्यवस्था, अपौरुषेये तु दोषनिवृत्त्यैव प्रामाण्यमिति चेत्, न / गुणनिवृत्त्याऽप्रामाण्यस्यापि सम्भवात् / तस्या अप्रामाण्यं प्रति सामर्थ्य नोपलब्धमिति चेत् / दोषनिवृत्तेः प्रामाण्यं प्रति क्व सामर्थ्यमुपलब्धम् ? लोकवचसीति चेत् / तुल्यम् / तदप्रामाण्ये दोषा एव कारणम्, गुणनिवृत्तिस्त्ववर्जनीयसिद्धसन्निधिरिति चेत् / प्रामाण्यं प्रति गुणेष्वपि तुल्यमेतत् / गुणानां दोषोत्सारणप्रयुक्तः सन्निधिरिति चेत्, दोषाणामपि गुणोत्सारणप्रयुक्त इत्यस्तु / निःस्वभावत्वमेवमपौरुषेयस्य वेदस्य स्यादिति चेत्, आत्मानमुपालभस्व / तस्माद् यथा द्वेषरागाभावाविनाभावेऽपि रागद्वेषयोरनुविधाननियमात् प्रवृत्तिनिवृत्तिप्रयत्नयो रागद्वेषकारणकत्वम्, न तु निवृत्तिप्रयत्नो द्वेषहेतुकः, प्रवृत्तिप्रयत्नस्तु सत्यपि रागानुविधाने द्वेषाभावहेतुक इति विभागो युज्यते, विशेषाभावात्, तथा प्रकृतेऽपि / 42. नन्वन्यत्र प्रमाणादस्त्वयं नियमः प्रकृतप्रमाणे तु शब्दाख्ये नियम एव विप्रतिपत्त्यादीनां दोषाणां भावरूपत्वादित्याशय(वा)न् शङ्कते - स्यादेतदिति / यदि गुणव्यतिरिक्तकारणसद्भावे दोषाभावमात्रेण प्रमा ते तदा अनुमाऽपि यथार्थलिंगज्ञानरूपगुणाभावे आत्मसन्निकर्षादेः दोषरूपलिङ्गविपर्यासाभावे प्रमोत्पद्येताविशेषादिति परिहरति - न, अनुमानेति / यद्यप्यन्यत्र गुणाभावेन ल(च) न प्रमोत्पद्यते तथापि शब्दे दोषाभावे वक्तृगुणापेक्षा न भविष्यतीति मन्वानः पुनः शङ्कते - अन्य[त्रे]ति / ननु वक्तृगुणापेक्षा नास्तीति कुतः ? किं गुणानां प्रमा प्रत्यन्वयव्यतिरेकरका)भावात् अन्वयव्यतिरेकभावेऽप्युपकाराभावात् [वा]? नाद्यः, असिद्धत्वात् / नापि द्वितीयः, नियमस्यैव सर्वत्रोपकारार्थत्वात् / अनुपकारेणानपेक्षायामुपकारेऽप्युपकारान्तरापेक्षायामनवस्थातः / एवं तभ्यु(एवमभ्युपगमेऽप्रामाण्यमपि परतो न स्यादित्याशयवान् समाधत्ते - न, गुणाभाव इति / तथा चाप्रामाण्यमपि दोषमतिरिक्तमपेक्षत इति / स्वत एव [न] भवेदिति तात्पर्या[र्थः]। अप्रामाण्यं परतस्तत्रास्तु दोषाणामपेक्षे(क्षणादि)ति शङ्कते - अप्रामाण्यं प्रतीति / [दोषाणां] नोपकारार्थत्वात्, अनुपकारेणानपेक्ष(क्षा)यामुपकारेऽप्युपकारान्तरापेक्षयाऽनवस्थितेः / एवमनभ्युपगमेऽप्रामाण्यमनया [45A] परिहरति - न गुणनिवृत्त्येति / प्रमाणसिद्धगुणत्वनिवृत्तेरप्रामाण्य(ण्यं) प्रति शङ्कान्तराभ्यामादर्शयति - तस्येति / अत्र गुणाभावस्य प्रमा प्रत्यवर्जनीयतया सनि(न्नि)धीनां हेतुतयेति शङ्कते - तदप्रामाण्य इति / तुल्यत्वेन परिहरति - नेति / तयोरित्यन्वयव्यतिरेकयोरित्यर्थः / स्वदर्शन श्रद्धया पुनः शङ्कते - पौरुषेयेति / प्रमाणसिद्धं न प्रामाण्ये उपयुज्यते इति यदि तदा दोषसन्निधिरपि तथा नाप्रामाण्ये उपयुज्यत इति शङ्कोत्तराभ्यामादर्शयति - गुणानामिति / ननु यदि प्रामाण्यकारणं गुणा अप्रामाण्यकारणं च दोषास्तदा वेदे दोषाति(दोषाभावात) प्रामाण्येऽपि [गुणाभावादप्रामाण्यसम्भवः], तर्हि गुणा एव कारणं दोषाभावस्तु वर्जनीय इत्याशयवान् परिहरति - प्रामाण्यमिति / गुणसन्निधिरन्यत्रोपक्षीणो(णा) [तत्] पूर्वकत्वाभावात् नाप्रामाण्यं गुणपूर्वकत्वाभावाच्च न

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210