Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 45 * न्यायकुसुमाञ्जलिः स्तबकः 1 बाधकमाह - अन्यथेति / अन्यत्रापीति / बुद्ध्यादौ कारणतयाऽऽत्मादिरपि सिध्यतीत्यर्थः / अत्रापि समवायिकारणजातीयानुविधानस्य तुल्यत्वात् / बाधकेनेति / बाधकेन सङ्कोचादनुविहितान्वयव्यतिरेकमेव कारणमिति व्याप्तेरिति शेषः / अन्ययव्यतिरेकविकलस्यापि कारणत्वे न किञ्चिद् बाधकमिति न व्याप्तिरित्याह - विपक्ष इति / अनुविहितान्वयव्यतिरेकमेव कारणमिति विशेषव्याप्तेरभाव इत्यर्थः / यत् तूक्तमन्यत्र तथादर्शनादिति तत्राह - दर्शनमात्रेण चेति / यथा 'शब्दोऽनित्यः कृतकत्वाद् घटवत्' इत्युक्ते यदि घटसाधर्म्यात् कृतकत्वादनित्यस्तत एव तर्हि [41A] रूपवानपि स्यादिति रूपवत्त्वमुत्कर्षयत उत्कर्षसम उत्तरं जातिरित्यर्थः / ननु 'बाधकाभावेन चाव्य( व्या )प्तेः' इत्ययुक्तमुक्तं बाधकस्य सत्त्वादित्याशङ्कते - सर्वेति / अन्वयमात्रेण कारणत्वे सर्वकार्य प्रति कारणत्वप्रसङ्गोऽन्वयमात्रस्याविशिष्टत्वादिति / नान्वयमात्रेण कारणत्वमात्मादेर्येनोक्तदोषः / किन्त्वन्वयव्यतिरेकवज्जातीयत्वेनान्यस्य समवायित्वबाधितस्याकारणत्वे ज्ञानादिकार्यानुत्पत्तिप्रसंगवशेन च विशेष(षे) त्काति(ऽनति)प्रसंग इत्यत आह - नान्वयेति / रूपादिकार्यं प्रति घटाद्यन्वयव्यतिरेकवद् दृष्टम्, तज्जातीयश्चात्मा ज्ञानसुखादिकं प्रति समवायिकारणजातीय इति यावत् / अथवा अन्वयव्यतिरेकवति [कारणे] सहकारिवैधुर्या[वैधुर्या] भ्यां [कार्यकरणा] करणे दृष्टे / तद्वत्त्वं वाऽन्वयव्यतिरेकवज्जातीयत्वमभिमतम्, न वै तदन्यत्र नातिप्रसङ्ग इति / अन्वयव्यतिरेकवज्जातीयत्वं बाधकं वेत्युभयं विवृणोति - तथाहीति / ननु निमित्तवशादेव कार्यनिष्पत्तिर्भविष्यति कृतं समवायिनेत्याशक्य परिहरति - एवमपीति / नियतो देशो दिश्यतेऽस्मिन्निति व्युत्पत्त्या आधार एवेति / नन्वेतावता समवायिकारणं सिध्यतु आत्मा तु कुतस्त्य इत्यत आह - तथा च सामान्यत इति / 'इच्छादयः पृथिव्याद्याश्रिता न भवन्ति, मानसप्रत्यक्षत्वात्, ये तु तदाश्रिता न ते मानसप्रत्यक्षा, यथा रूपादयः' इत्यनेन पृथिव्याद्याश्रितत्वं बाधितम्, सामान्यतोदृष्टानुमानपूर्वककेवलव्यतिरेकानुमानादष्टद्रव्यातिरिक्तं द्रव्यं सिद्धम्, न कोऽपि बाधयेदित्यर्थः / तथा च प्रयोगः - इच्छादयोऽष्टद्रव्यातिरिक्तद्रव्याश्रिताः, अष्टद्रव्यावृत्तित्वे सति कार्यत्वाद् गुणत्वाद् वा, न यदेवं न तदेवं यथा रूपमिति / एवमसमवायिनीति [41B] / ऊहनीयं बाधकमित्यर्थः / यथा समवायिकारणत्वे तन्नित्यत्वे च सततोत्पादप्रसङ्गः / तथाऽसमवायिकारणत्वे इन्द्रियार्थसन्निकर्षं विनापि आत्ममनःसन्निकर्षाद् ज्ञानोत्पत्तिप्रसङ्गः / निमित्तमात्रादुत्पत्तौ आत्ममनःसन्निकर्षं विनापीन्द्रियार्थसन्निकर्षादुत्पत्तिप्रसङ्ग इति / एव[म]समवायि निमित्तं चेति पाठे तद्बाधक[व]शादसमवायिकारण(ण) निमित्तकारणं चोहनीयमित्यर्थः / यद्यपि दृष्टमपि कारणं समर्थितमनेकप्रकारं तथापि स्वर्गापवर्गहेतुभूतमिति प्रधानतया अदृष्टम् / परिच्छेदार्थमुपसंहरन् ‘परमात्मा मे मनसि स्थिरो भवतु' इति प्रार्थयमान आह - इत्येषेति / असमा विचित्रा मायेति माध्यमिकैः / प्रकृतिरिति साङ्ख्यैः / अविद्येति वेदान्तिभिरुक्ता / शेषं सुबोधमिति // श्रीवामेश्वरध्वजविरचिते कुसुमाञ्जलिनिवन्धे प्रथमः परिच्छेदः समाप्तः /
Loading... Page Navigation 1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210