________________ 45 * न्यायकुसुमाञ्जलिः स्तबकः 1 बाधकमाह - अन्यथेति / अन्यत्रापीति / बुद्ध्यादौ कारणतयाऽऽत्मादिरपि सिध्यतीत्यर्थः / अत्रापि समवायिकारणजातीयानुविधानस्य तुल्यत्वात् / बाधकेनेति / बाधकेन सङ्कोचादनुविहितान्वयव्यतिरेकमेव कारणमिति व्याप्तेरिति शेषः / अन्ययव्यतिरेकविकलस्यापि कारणत्वे न किञ्चिद् बाधकमिति न व्याप्तिरित्याह - विपक्ष इति / अनुविहितान्वयव्यतिरेकमेव कारणमिति विशेषव्याप्तेरभाव इत्यर्थः / यत् तूक्तमन्यत्र तथादर्शनादिति तत्राह - दर्शनमात्रेण चेति / यथा 'शब्दोऽनित्यः कृतकत्वाद् घटवत्' इत्युक्ते यदि घटसाधर्म्यात् कृतकत्वादनित्यस्तत एव तर्हि [41A] रूपवानपि स्यादिति रूपवत्त्वमुत्कर्षयत उत्कर्षसम उत्तरं जातिरित्यर्थः / ननु 'बाधकाभावेन चाव्य( व्या )प्तेः' इत्ययुक्तमुक्तं बाधकस्य सत्त्वादित्याशङ्कते - सर्वेति / अन्वयमात्रेण कारणत्वे सर्वकार्य प्रति कारणत्वप्रसङ्गोऽन्वयमात्रस्याविशिष्टत्वादिति / नान्वयमात्रेण कारणत्वमात्मादेर्येनोक्तदोषः / किन्त्वन्वयव्यतिरेकवज्जातीयत्वेनान्यस्य समवायित्वबाधितस्याकारणत्वे ज्ञानादिकार्यानुत्पत्तिप्रसंगवशेन च विशेष(षे) त्काति(ऽनति)प्रसंग इत्यत आह - नान्वयेति / रूपादिकार्यं प्रति घटाद्यन्वयव्यतिरेकवद् दृष्टम्, तज्जातीयश्चात्मा ज्ञानसुखादिकं प्रति समवायिकारणजातीय इति यावत् / अथवा अन्वयव्यतिरेकवति [कारणे] सहकारिवैधुर्या[वैधुर्या] भ्यां [कार्यकरणा] करणे दृष्टे / तद्वत्त्वं वाऽन्वयव्यतिरेकवज्जातीयत्वमभिमतम्, न वै तदन्यत्र नातिप्रसङ्ग इति / अन्वयव्यतिरेकवज्जातीयत्वं बाधकं वेत्युभयं विवृणोति - तथाहीति / ननु निमित्तवशादेव कार्यनिष्पत्तिर्भविष्यति कृतं समवायिनेत्याशक्य परिहरति - एवमपीति / नियतो देशो दिश्यतेऽस्मिन्निति व्युत्पत्त्या आधार एवेति / नन्वेतावता समवायिकारणं सिध्यतु आत्मा तु कुतस्त्य इत्यत आह - तथा च सामान्यत इति / 'इच्छादयः पृथिव्याद्याश्रिता न भवन्ति, मानसप्रत्यक्षत्वात्, ये तु तदाश्रिता न ते मानसप्रत्यक्षा, यथा रूपादयः' इत्यनेन पृथिव्याद्याश्रितत्वं बाधितम्, सामान्यतोदृष्टानुमानपूर्वककेवलव्यतिरेकानुमानादष्टद्रव्यातिरिक्तं द्रव्यं सिद्धम्, न कोऽपि बाधयेदित्यर्थः / तथा च प्रयोगः - इच्छादयोऽष्टद्रव्यातिरिक्तद्रव्याश्रिताः, अष्टद्रव्यावृत्तित्वे सति कार्यत्वाद् गुणत्वाद् वा, न यदेवं न तदेवं यथा रूपमिति / एवमसमवायिनीति [41B] / ऊहनीयं बाधकमित्यर्थः / यथा समवायिकारणत्वे तन्नित्यत्वे च सततोत्पादप्रसङ्गः / तथाऽसमवायिकारणत्वे इन्द्रियार्थसन्निकर्षं विनापि आत्ममनःसन्निकर्षाद् ज्ञानोत्पत्तिप्रसङ्गः / निमित्तमात्रादुत्पत्तौ आत्ममनःसन्निकर्षं विनापीन्द्रियार्थसन्निकर्षादुत्पत्तिप्रसङ्ग इति / एव[म]समवायि निमित्तं चेति पाठे तद्बाधक[व]शादसमवायिकारण(ण) निमित्तकारणं चोहनीयमित्यर्थः / यद्यपि दृष्टमपि कारणं समर्थितमनेकप्रकारं तथापि स्वर्गापवर्गहेतुभूतमिति प्रधानतया अदृष्टम् / परिच्छेदार्थमुपसंहरन् ‘परमात्मा मे मनसि स्थिरो भवतु' इति प्रार्थयमान आह - इत्येषेति / असमा विचित्रा मायेति माध्यमिकैः / प्रकृतिरिति साङ्ख्यैः / अविद्येति वेदान्तिभिरुक्ता / शेषं सुबोधमिति // श्रीवामेश्वरध्वजविरचिते कुसुमाञ्जलिनिवन्धे प्रथमः परिच्छेदः समाप्तः /