________________ 44. वामध्वजकृता सङ्केत्तटीका व्यतिरेकोऽपि भविष्यत्यात्मादेरित्यत आह - न चेति / नित्यत्वेन कालतो विभुत्वेन च देशतो व्यतिरेको नास्तीत्यर्थः। ननु यद्यपि केवलस्य न व्यतिरेकस्तथाप्युपहितस्यासौ भविष्यतीत्याशय परिहरति - सोपाधेरसाविति / असाविति व्यतिरेक इत्यर्थः / अनधिकारादित्ययोग्यत्वादित्यर्थः / अनधिकारमेव विकल्प्य बोधयति - जनितो हीति / द्वितीयेऽपि व्यापको[ऽव्यापको] वेति मन्तव्यम् / प्रथमे दोषमाह - पूर्ववदिति / उपाधिजननं प्रति व्यतिरेकविरहस्तुल्य इत्यर्थः / द्वितीयस्य प्रथमे दोषमाह - पूर्ववदेवेति / नित्योपाधिर्यदि व्यापकत्वं तदा पूर्ववद् व्यतिरेकविरह इत्यर्थः / अव्यापकपक्षे दोषमाह - तथापि चेति / शङ्कते - तद्वत इति / एतदपि [40B] विकल्प्य निराकरोति - नेति / नान्वयव्यतिरेको कारणत्वं ताववे(तावेव) वा तन्निश्चयो येन नाकाशादेः कारणत्वं, किं तहि ? अन्यदेव कारणत्वम् / तत्रास्ति प्रकृत इत्यभिप्रायेण सिद्धान्तमुपक्रमते - अत्रोच्यत इत्यादि / 'हि'शब्देन नियतत्वं दर्शयति / मीयते निश्चीयते / येन केनचिदिति न त्वन्वयव्यतिरेकाभ्यामेवेति तात्पर्यम् / कारणत्वं व्युत्पाद्य प्रकृतेऽपि तदस्तीत्यत आह - व्यापकस्यापीति / हेतुत्वमिति समन्वयः / कथं तन्निश्चेयमित्युपायान्तरमाह - धर्मिधीरिति / 39. भवेदेवं यद्यन्वयव्यतिरेकावेव कारणत्वम् / किन्तु कार्यान्नियतः पूर्वभावः / स च क्वचिदन्वयव्यतिरेकाभ्यामवसीयते, क्वचिद धर्मिग्राहकात प्रमाणात / अन्यथा कार्यात कारणानमानं क्वापि न स्यात् / तेन तस्यानुविधानानुपलम्भात् / उपलम्भे वा कार्यलिङ्गानवकाशात्, प्रत्यक्षत एव तत्सिद्धेः / तज्जातीयानुविधानदर्शनात् सिद्धिरन्यत्रापि न वार्यते / तथापि वस्तुगत्यानुविहितान्वयव्यतिरेकमेव कार्यात् कारणं सिद्धयेत्, अन्यत्र तथा दर्शनादिति चेत्, न / बाधेन सङ्कोचात् / विपक्षे बाधकाभावेन चाव्याप्तेः / दर्शनमात्रेण चोत्कर्षसमत्वात् / अस्य चेश्वरे विस्तरो वक्ष्यते / सर्वव्यापकानां सर्वान् प्रत्यन्वयमात्राविशेषे कारणत्वप्रसङ्गो बाधकमिति चेत् / न / अन्वयव्यतिरेकवज्जातीयतया विपक्षे बाधकेन च विशेषेऽनतिप्रसङ्गात् / तथा हि कार्यं समवायिकारणवद् दृष्टमित्यदृष्टाश्रयमपि तज्जातीयकारणकम्, आश्रयाभावे किं प्रत्यासन्नमसमवायिकारणं स्यात्, तदभावे निमित्तमपि किमुपकुर्यात्.? तथा चानुत्पत्तिः सततोत्पत्तिर्वा सर्वत्रोत्पत्तिर्वा स्यात् / एवमपि निमित्तस्य सामर्थ्यादेव नियतदेशोत्पादे स एव देशोऽवश्यापेक्षणीयः स्यात् / तथा च सामान्यतो देशसिद्धावितरपृथिव्यादिबाधे तदतिरिक्तसिद्धि को वारयेत् / एवमसमवायिनिमित्ते चोहनीये // 19 // इत्येषा सहकारिशक्तिरसमा माया दुरुन्नीतितो मूलत्वात् प्रकृतिः प्रबोधभयतोऽविद्येति यस्योदिता / देवोऽसौ विरतप्रपञ्चरचनाकल्लोलकोलाहलः साक्षात् साक्षितया मनस्यभिरति बध्नातु शान्तो मम // 20 // इति न्यायकुसुमाञ्जलौ प्रथमः स्तबकः // 39. आत्मादिग्राहकात् प्रमाणात्, अन्यथा तेषामेवाप्रतीतौ बुद्ध्यादिभिः कार्यैः समवायिकारणतयाऽऽत्मादयो गम्यन्ते, न त्वन्यथेति विवृणोति - भवेदेवमिति / नियतपूर्वभावश्च सहकारिसाकल्यप्रयुक्तकार्यवत्त्वं सहकारिवैकल्यप्रयुक्तकार्याभाववत्त्वं वा / एतच्च सकलकारणसाधारणम् / न हि सहकारिसाकल्यवैकल्याभ्यां कार्य[साकल्य]वैकल्ये वेति क्वचिद् दृष्टमिष्टं वेति / उपायानियत[त्व]माह- स चेति / एवमनभ्युपगमे