SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ 43 * न्यायकुसुमाञ्जलिः स्तबकः 1 सुबोध[म्] / एवं व्युत्पादिते कारणतत्त्वे पुनर्दूषणदृष्टिरसंस्पृष्टतत्त्वः प्रकारान्तरेण कारणं निराचष्टे - नन्विति / स्वाभाविकत्वे नीलादिवत् सर्वसाधारणता प्रसज्यते / औपाधिकत्वे तूपाधि(धे)रपि [स्वाभाविका]स्वाभाविकत्वाभ्यां सर्वसाधारण्यानवस्थयोरन्यतरप्रसङ्गः / यथा कारणत्वं स्वाभाविकं तथा कञ्चित् प्रति सर्वमित्यपि स्वभाव इति शङ्कते - अथेति / एवंस्वभावत्वे सर्वदा कुर्यात् स्वभावस्येतरानपेक्षत्वादिति मनोरथेन परिहरति तत इति / यद्येपेतस्य(यद्यपि तस्य) कारणत्वं स्वाभाविकमसाधारणं च तथापि सहकारिविरहाविरहाभ्यां कारणकथम(कारणत्वम)कारणत्वं च प्रमाणमशक्यापह्नवमिति / नोत्पत्तेरारभ्यैव कार्योत्पादकत्वमित्यभिप्रायेण परिहरति - उच्यत इति। ___38. सर्वसाधारणनीलादिवैधर्येण काल्पनिकत्वं कार्यकारणभावस्य व्युत्पादयता नीलादि पारमार्थिकमेवाभ्युपगन्तव्यम् / अन्यथा तद्वैधhण हेतुफलभावस्यापारमार्थिकत्वानुपपत्तेः / न च कार्यकारणभावस्यापारमार्थिकत्वे नीलादि पारमार्थिकं भवितुमर्हति, नित्यत्वप्रसङ्गात् / तस्मादस्य पारमार्थिकत्वेऽपरमपि तथा, न वोभयमपीति / कथमेकमनेकं परस्परविरुद्धं कार्यं कुर्यात्, तत्स्वभावत्वादिति यदि, तदोत्पतेरारभ्य कुर्यादविशेषादित्यपि न युक्तम् / तत्तत्सहकारिसाचिव्ये तत्तत् कार्यं करोतीति स्वभावव्यवस्थापनात् / इदं च साधारणमेव, सर्वैरेव तथोपलम्भात् / न हि नीलादेरप्यन्यत् साधारण्यमिति // 18 // स्यादेतत् / अस्तु स्थिरम्, तथापि नित्यविभोर्न कारणत्वमुपपद्यते / तथा ह्यन्वयव्यतिरेकाभ्यां कारणत्वमवधार्यते, नान्वयमात्रेण / अतिप्रसङ्गात् / न च नित्यविभूनां व्यतिरेकसम्भवः / न च सोपाधेरसावस्त्येवेति साम्प्रतम्, तथाभूतस्योपाधिसम्बन्धेऽप्यनधिकारात् / जनितो हि तेन स तस्य स्यात्, नित्यो वा ? न प्रथमः, पूर्ववत् / नापि द्वितीयः पूर्ववदेव / तथापि चोपाधेरेव व्यतिरेको न तस्य, अविशेषात् / तद्वत इति चेत् / न / स चोपाधिश्चेत्यतोऽन्यस्यातद्वत्पदार्थस्याभावात्, भावे वा, स एव कारणं स्यात् / अत्रोच्यते - पूर्वभावो हि हेतुत्वं मीयते येन केनचित् / व्यापकस्यापि नित्यस्य धर्मिधीरन्यथा न हि // 19 // 38. हेतुरु(रू)पशक्तिमनङ्गीकृत्य [न] नीलादि परमार्थसत् / तदपि हि कस्यचित् कार्यं कस्यचित् कारणमित्येवं प्रतीयते न [40A] त्वन्यथेति सर्वज्ञ(ज्ञा)नसिद्धं तत्त्वेन तथात्वेनाबाधितम् / सिद्धः कार्यकारणभावः / साधितं चेद् वैदर्ग्यदृष्टान्तानिश्चयात् कथमस्य पक्षः सिद्ध्येत / न च नीलादि मि(नि)त्यं तन्त(ल्ल)क्षणविरहादिति पूर्वार्धविवेचनम् / उत्तरार्धविवेचनं तु तत्सहकारियुक्तं कारणं तत्र कार्ये समुत्पादयितव्ये शक्तं निर्वर्तकम् / सवैरेव तथा प्रतीयत इति साधारणमेव / नीलादेरपि साधारण्यमिदमेव यत् सर्वैरिन्द्रियसन्निकर्षादिमद्भिर्नीलादित्वेन प्रतीयमानत्वम्, न त्वन्यत् / न हि तदपि सर्वस्य हेतुरिति तवापि सम्मतमिति / तस्मादस्येति नीलादेरित्यर्थः / अपरमपि कार्यकारणरूपत्वमपि / तथा पारमार्थिकमित्यर्थः / न वोभयमपीति / पारमार्थिकमित्यर्थः / न त्वेतावतापि कारणत्वावधारणोपायान्वयव्यतिरेकयोरात्मादावसंभवेता(संभवाद् आ)त्मादेर्न कारणत्वनिश्चयः, तदनिश्चये च कथं तथाव्यवहारस्तत्रेत्याशयवानाशङ्कते - स्यादेतदिति / न त्वन्वय
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy