________________ 42 * वामध्वजकृता सङ्केत्तटीका तावदतो निरूपणीयम्, क्षणप्रत्ययस्तु भ्रान्तोऽपि नास्तीति विशेषः // 16 // स्यादेतत् / मा भूद् अध्यक्षमनुमानं वा क्षणिकत्वे, तथापि सन्देहोऽस्तु / एतावताऽपि सिद्धं समीहितं चार्वाकस्येति चेत् / उच्यते - स्थैर्यदृष्ट्योर्न सन्देहो न प्रामाण्ये विरोधतः / / एकतानिश्चयो येन क्षणे तेन स्थिरे मतः // 17 // न हि स्थिरे तद्दर्शने वा स्वरसवाही सन्देहः / प्रत्यभिज्ञानस्य दुरपह्नवत्वात् / नापि तत्प्रामाण्ये, स हि न तावत् सार्वत्रिको व्याघातात् / तथाहि / प्रामाण्यासिद्धौ सन्देहोऽपि न सिद्धयेत्, तत्सिद्धौ वा तदपि सिद्धयेत् / निश्चयस्य तदधीनत्वात् / कोटिद्वयस्य चादृष्टस्यानुपस्थाने कः सन्देहार्थः ? तद्दर्शने च कथं सर्वथा तदसिद्धिः ? एतेनाप्रामाणिकस्तद्वयवहार इति निरस्तम् / सर्वथा प्रामाण्यासिद्धौ तस्याप्यसिद्धेः / प्रकृते प्रामाण्यसन्देहो लूनपुनर्जातकेशादौ व्यभिचारदर्शनादिति चेत् / न एकत्वनिश्चयस्य त्वयाऽपीष्टत्वात् / अनिष्टौ वा न किञ्चित् सिद्धयेत् / सिद्धयतु यत्र विरुद्धधर्मविरह इति चेत्, तेनैव स्थिरत्वमपि निश्चीयते / स इह सन्दिह्यत इति चेत्, तुल्यमेतत् क्वचिन्निश्चयोऽपि कथञ्चिदिति चेत्, समः समाधिः // 17 // नन्वेतत् कारणत्वं यदि स्वभावो भावस्य नीलादिवत् तदा सर्वसाधारणं स्यात् / न हि नीलं किञ्चित् प्रत्यनीलम् / अथौपाधिकं, तदा उपाधेरपि स्वाभाविकत्वे तथात्वप्रसङ्गः / औपाधिकत्वे त्वनवस्था / अथासाधारणत्वमप्यस्य स्वभाव एव, तत उत्पत्तेरारभ्य कुर्यात्, स्थिरस्यैकस्वभावत्वादिति चेत् / उच्यते - हेतुशक्तिमनादृत्य नीलाद्यपि न वस्तु सत् / तद्युक्तं तत्र तच्छक्तमिति साधारणं न किम् // 18 // 37. ननु घटोऽयमिति अनुभवस्तावदस्ति, स च घटप्रतिधर्मिणमयमिति वर्तमानं धर्ममवगाहमानोऽनुभूयते, वर्तमानत्वनिश्चय एव क्षणिकत्वनिश्चयः, तथा चासङ्गतमुक्तमध्यक्षमित्यादीत्याशयवानाह - नन्विति / तदेतद् विकल्प्य निराकरोति - यदीति / पुनरप्याशङ्का(क्य) निराकरोति - वर्तमानेति / पुनराशक्य निराकरोति - क्रमेणेति / ताद्रूप्येणेत्यादि यदुक्तं तदाक्षिपति - प्रत्यभिज्ञानमिति / विरुद्धधर्मविरहविषयप्रत्यभिज्ञानस्य विशेषकत्वादित्यभिप्रायेण परिहरति - अस्तीति / निरूपणमुक्तमेवेति मन्तव्यमनिरूपितविशेषप्रत्यभिज्ञानवत् क्षणप्रत्ययोऽपि भविष्यतीत्यत आह - क्षणप्रत्ययस्त्विति / तदनेन प्रत्यभिज्ञानेन प्रत्यभिज्ञाप्रत्यक्षं स्थैर्यसाधकमिति स्वपक्षे एमाणमुक्तमिति मन्तव्यम् / [39B] एवं बौद्धे पराजिते पुनश्चार्वाक: स्वप्रौढिमालम्ब्य क्षणिकत्वं(त्व)संदेहेन स्वप[क्ष]सिद्धि समीहमानः पराभिप्रायमबुध्यमानश्च शङ्कते - स्यादेतदिति / एतद् विकल्प्य पराभिमानमुन्मूलयति - उच्यत इति / तथाहि संदेहो भवन् स्थैर्ये वा तद्दर्शने वा प्रामाण्ये वा, तृतीयेऽपि प्रामाण्यमात्रे वा प्रत्यभिज्ञानप्रामाण्ये वा / तत्र न प्रथमद्वितीयावित्याह - स्थैर्यदृष्ट्योर्नेति / अत्र यद्यपि वादिविप्रतिपत्त्या आहार्यः संदेहोऽस्त्येव तथापि न स्व(स्वा)रसिकः स्थैर्यतद्दर्शनयोरेवोपलम्भादित्यभिप्रायः / न तृतीयः संदेहस्यैवानुपपत्तेरित्याह - न प्रामाण्य इति / चतुर्थे तूत्तरम् - एकतेति / येन विरुद्धधर्मसंसर्गविरहेण क्षणे तेन विरुद्धधर्मसंसर्गविरहेण स्थिरे एकतानिश्चयो मत इत्यर्थः / न हीत्यादि समाधिरित्यन्तं विवरणं