________________ 41 * न्याय कुसुमाञ्जलिः स्तबकः 1 सामर्थ्यविरुद्धधर्मसंसर्गात् सिद्धौ सत्त्वस्यागृहीतव्याप्तिगृहीतव्याप्तिकत्वान्न ततः क्षणिकत्वं सेत्स्यतीत्याशयेनोपसंहरति - तथा चेति / परमनेकविधयुक्तिमर्मभेदिशरप्रहारविनाशितक्षणिकत्वास्थितौ पुनरुज्जीवनप्रत्याशया यथाकथञ्चनाशङ्कते - स्वभावभूता इति / योऽयं स उपसर्पणकारणवशान्नोदनादिलक्षणो[38B]ऽतिशयो नासौ तादृशाना(नां) पूर्वमाशी(सी)द् येन स्थिरपक्षसमानतया प्रागपि प्रसह्य का(क)रणमापद्येताकरणे वा सहकारिविरहप्रयोजक(के) वेति शङ्कार्थः / यथा शिंशपास्वभावभूता आगन्तुकसहकार्यनुप्रवेशान्नोदनादयो जायमानाः शिंशपापरिहारेणान्यत्रापि जायते तथा वृक्षस्वभावभूता शिशपाप्यागन्तुकसहकारिवशेन संजायमानाऽन्यत्रापि संजायतेति गूढाभिसन्धिYढजिबिकयाऽनुकूलवदाह- एवं तहीति / अभिसन्धिमविद्वान् आह - एवमेतदिति / विशेषमनोरथेनाह - किन्त्विति / न तामेवेति शिंशपासामग्रीमेवेत्यर्थः / अभिसन्धिमुद्घाटयति - कम्पजनका इति / शिंशपाजनकानां कारणानां विशेषाः कम्पजनकाः / तानिति शिंशपाजनकानिति / ननु वृक्षजनकविशेषा इति / वृक्षजनकानां कारणानां विशेषा ये शिशपाजनकास्ते, तानिति वृक्षजनकविशेषानिति / अतिपतन्तीत्यनुवर्तनीयम् / एवं निवारिताभिमानस्तत्त्वबुभुत्सया प्रामाणिकरूपोपादानेन प्रत्यवतिष्ठते - शिंशपेति / तद्विशेषा एवेति वृक्षजनकविशेषा एवेत्यर्थः / प्रामाणिकमार्गप्रवृत्तस्य प्रामाणिकमेवोत्तरं देयमित्याशयवानाह - एवं तीति / एतावत्प्रबन्धेन करणाकरणयोः सहकारिलाभालाभौ तत्र(न्त्र)मिति यत् प्रतिज्ञातं तत् समाहितं वेदितव्यम् / वैजात्यनिराकरणबीजं प्रकारान्तरेणोपक्रान्तमपि समर्थितमित्युपसंहरति - तस्मादिति / ननु नीलमुत्पलं गच्छतीत्यादौ नीलत्वादेरेकव्यक्तिसमावेशदर्शनेन विरुद्धत्वा[द्] न च परापरभावसम्भवः / नीलत्वस्य परत्वे रक्ते उत्पलत्वं न स्यादुत्पलत्वस्य चापरत्वे तत्परिहारेण उत्पले नीलत्वं न स्यात् तत् कथमेवा[यं] नियम इत्यत आह - अनेवमिति / येषां न विरोधे(धो) न च परापरभावस्त अनेवम्भूतास्तेषां द्रव्यमुत्पलो गुणो नीलः कर्म गच्छतीति स्वरूपेणोपाधित्वमात्रं न सामान्यरूपतयेत्यर्थः / नीलगुणयोगान्नीलमुत्पलं न तु नीलत्वयोगात्, एवं द्रव्यसम्बन्धान्नीलं द्रव्यं न तु द्रव्यत्वसम्बन्धात्, एवं गतियोगाद् गच्छतीति न तु गतित्वयोगादित्यर्थः / तहि नीलत्वादिजातेः कथमत्र व्यवस्थेत्यत आह - तेषां त्विति / [39A] तेषां सामान्यानां विरुद्धानां गोत्वाश्वत्वादिवन्न समावेशः एकत्र / कुतः ? व्यक्तिभेदात् / व्यञ्जकभेदादाश्रयभेदादित्यर्थः / एतदेव विशदयति - जातीनां चेति / द्रव्यगुणकर्मव्यक्तिगतत्वेन नीलत्वादिजातीनां नैकाधिकरणत्वमस्तीत्यर्थः / प्रमाणाभावेन परापरभावानुपपत्त्या च वैजात्यासत्त्वे सत्याह - तथा चेति / अप्रमाणकवैजात्यस्वीकारमाशङ्क्य व्युत्पादितानुमानभङ्गमाह - वैजात्येति / अनुमानाभावे न क्षणिकत्वसिद्धिरिति व्याख्या[यां] तृतीयपादस्य शङ्कोत्तराभ्यामाह - मा भूदिति / चतुर्थपादं व्याख्यातुमुपक्रमते - न हीति / नीलमेतदिति वत् क्षणिकमेतदिति निश्चयाभावादित्यर्थः / मा भून्निश्चयस्तथाप्यध्यक्षं भविष्यति / तत एव प्रकृतसिद्धेरित्यत आह - गृहीतेति / तस्येति निर्विकल्पकस्य प्रामाण्याभ्युपगमादित्यर्थः / तथानभ्युपगमे बाधकमाह - अन्यथेति / 37. ननु वर्तमानः क्षणोऽध्यक्षगोचरः / न चासौ पूर्वापरवर्तमानक्षणात्मा / ततो वर्तमानत्वनिश्चय एव भेदनिश्चय इति चेत् / किमत्र तदभिमतमायुष्मतः ? यदि धर्येव नीलादिर्न किञ्चिदनुपपन्नम् / तस्य स्थैर्यास्थैर्यसाधारण्यात् / अथ धर्मः / तद्भेदनिश्चयेऽपि धर्मिणः किमायातम् ? तस्य ततोऽन्यत्वात् / वर्तमानावर्तमानत्वमेकस्य विरुद्धमिति चेत् / यदि सदसत्त्वं तत्, तन्न / अनभ्युपगमात् / ताद्रूप्येणैव प्रत्यभिज्ञानात् / सदसत्सम्बन्धश्चेत्, किमसङ्गतम् ? ज्ञानवत् तदुपपत्तेः / क्रमेणानेकसम्बन्ध एकस्यानुपपन्न इति चेत् / न / उपसर्पणप्रत्ययक्रमेणैव तस्याप्युपपत्तेः / प्रत्यभिज्ञानमप्रमाणमिति चेत् / अस्ति