________________ 40 * वामध्वजकृता सङ्केत्तटीका गोत्वमश्वत्वादिति / विरुद्धस्वभावोपलब्धिरनुपलब्धेर्गोत्वविरुद्धाश्वत्वोपलब्धिर्गोत्वानुपलब्धि(ब्धे)रित्यर्थः / इयं च गोत्वाश्वत्वयोर्विरोधे सति प्रमाणम्, न त्वन्यथा; तयोश्च क्वचिदसमावेशेऽप्यन्यत्र समावेशशङ्कायां विरोधस्य पराह[त]त्वादिति / एवं विपक्षे बाधकप्रमाणानुपलब्धिप्रपञ्चान्यतमवेदनीयः स्वभावहेतुस्तदभावे न भवेदित्याह - तत इति / ____36. नन्वस्ति तत् / तथाहि / वृक्षजनकपत्रकाण्डाद्यन्तर्भूता शिंशपासामग्री, सा वृक्षमतिपत्य भवन्ती स्वकारणमेवातिपतेत् / एवं शाखादिमन्मात्रानुबन्धी वृक्षव्यवहारः तद्विशेषानुबन्धी च शिशपाव्यवहारः, स कथं तमतिपत्याऽऽत्मानमासादयेदिति चेत् / एवं तर्हि शिंशपासामग्र्यन्तर्भूता चलनसामग्री, ततस्तामतिपत्य चलनादिरूपता भवन्ती स्वकारणमेवातिपतेत् / तथा शाखादिमद्विशेषानुबन्धी शिंशपाव्यवहारस्तद्विशेषानुबन्धी च चलनव्यवहारः / स कथं तमतिपत्यात्मानमासादयेदिति / तुल्यम् / नोदनाद्यागन्तुकनिबन्धनं चलत्वम्, न तु तद्विशेषमात्राधीनमिति चेत् / यदि नोदनादयः स्वभावभूतास्ततस्तद्विशेषा एव, अथास्वभावभूतास्ततः सहकारिण एव, ततस्तानासाद्य निर्विशेषैव शिंशपा चलनस्वभावानारभते इति, तथा च कुतः क्षणिकत्वसिद्धिः ? स्वभावभूता एवागन्तुकसहकार्यनुप्रवेशाद् भवन्तीति चेत् / एवं तर्हि वृक्षसामग्यामागन्तुकसहकार्यनुप्रवेशादेव शिंशपाऽपि जायते इति न कश्चिद्विशेषः / एवमेतत्, किन्तु शिंशपाजनकास्तरुसामग्रीमुपादायैव, चलनजनकास्तु न तामेव किन्तु मूर्तमात्रम्, तथा दर्शनादिति चेत् / मैवम् / कम्पजनकाः शिंशपाजनकविशेषा अपि सन्तस्तानतिपतन्ति, न तु वृक्षजनकविशेषाः शिंशपाजनकास्तानिति नियामकाभावात् / शिशपाजनकास्तद्विशेषा एव कम्पकारिणस्तु न तथा, किन्त्वागन्तवः सहकारिण इति चेत् / एवं तर्हि तानासाद्य सदृशरूपा अपि केचित् कम्पकारिणोऽनासादितसहकारिणस्तु न तथा, तथा च तद्वा तादृग्वेति न कश्चिद् विशेषः स्यात् / तस्माद् विरुद्धयोरसमावेश एव, समाविष्टयोश्च परापरभाव एव / अनेवम्भूतानां द्रव्यगुणकर्मादिभावेन उपाधित्वमात्रम् / तेषां तु विरुद्धानां न समावेशो व्यक्तिभेदात् / जातीनां च भिन्नाश्रयत्वात् / तथा च कुतः क्षणिकत्वम् ? वैजात्याभ्युपगमे च कुतोऽनुमानवार्ता ? मा भूदनुमानमिति चेत्, न / तेन हि विना न तत् सिद्धयेत् / न हि क्षणिकत्वे प्रत्यक्षमस्ति / तथा निश्चयाभावात्, गृहीतनिश्चित एवार्थे तस्य प्रामाण्यात्, अन्यथाऽतिप्रसङ्गात् / / ___36. ननु मा भूदनुपलब्धिर्बाधिका तर्कस्तु भविष्यति भवत्पक्ष इत्याशयवान् शङ्कते - न वे(नन्वि)ति / तद्बाधकमन्यादृशमित्यर्थः / एतदेव दर्शयति - तथा हीति / शिशपया वृक्षे साध्ये वृक्षं विनाऽपि भविष्यतीति शङ्कापनोदकबाधकमुक्त्वा वृक्षव्यवहारे साध्ये वृक्षव्यवहाराभावेऽपि शिशपाव्यवहारो भविष्यतीति शङ्काप्रोत्सारकं बाधकमाह - एवमिति / तदेवं बाधकं यथा - दृष्टं कम्प-शिंशपयोरपि समाननि(मि)त्याशयवानाह - एवं तीति / न शिंशपासामग्र्यन्तर्भूता चलनादिसामग्री येन तद्विरहे न स्यात् / किं तर्हि ? तद्व्यतिरिक्तैवेत्याशयवान् परिहारमाह - नोदनेति / एवं ब्रुवाणः परः प्रत्यवतिष्ठते - नोदनादयो हि कम्पशिशपाविशेषास्तद्विशेषजनका वा सदृशरूपेषूपादानकारणेषु सत्सु संभूयकार्यकारिणो वा ? न तावत् प्रथमद्वितीयावित्याह - यदीति / तथा च तथाभूतानामेव [शिशपाव्यभिचारे] शिशपापि वृक्षं व्यभिचरेदिति भावः / तृतीयमाशङ्यनिराचष्टे - अथान्यस्वभावेति / भावस्य सत्त्वैकस्वभावत्वेऽपि कार्यकारणयोः सहकारि[लाभा]लाभप्रयुक्तत्वात् सामर्थ्या