________________ 39 * न्यायकुसुमाञ्जलिः स्तबकः 1 भावादिति मन्यमानं प्रति बाधकमाह - अन्यूनेति / कल्पने न किञ्चित् साधकमस्ति, शयंसवेन (संशयत्वेन) बाधकम्, पर्यायशब्दोच्छेदप्रसङ्ग इति भावः / यथा वृक्षत्व-शिशपत्वयोर्व्यावृत्त्यभेदोद् (र्व्यावर्त्यभेदाद्) [व्यावृत्तीनाम् अपोहानां] विरोधे भेदव्यवस्था लोके वृक्षत्वस्यावृक्षमात्रं व्याव] शिंशपात्वस्य तु वृक्षविशेषोऽपि पनसादि व्यावो न तथा बुद्धित्वज्ञानत्वादीनामस्ति व्यावर्त्यभेदोऽबुद्धिमात्राऽज्ञानमात्रादीनां सर्वत्र व्यावृत्तानामभेदादिति प्रमाणसिद्धं सर्वलोकसिद्धं च न शक्यमपह्रोतुमित्याशयवान् प्रकृति(त) भेदे प्रमाणाभावमेव व्युत्पादयति - व्यावत्र्येति / ननु सुवर्णत्वकलश[त्व]योरेकव्यक्तिसमावेशस्तावदनुभवसिद्धः / सुवर्णकलश इति प्रतीते: सर्वजन[37A] सिद्धत्वात् / न च तत्र परापरभावसंभवः / सुवर्णत्वकलशत्वयोः पूर्वापरत्वेना(त्वे मा)र्दघटसौवर्णत्रयो(र्णघटयो)र्घटत्वसुवर्णत्वानुपपत्तेः / तस्मात् परापरभावेनैवैकव्यक्तिसमाविष्टं सामान्यद्वयमिति न वैशेषिकसमवायसिद्धिः / नानवबोधात् / तयोर्घटत्वानभ्युपगमेनैव सर्वस्य सुस्थत्वात् / घटव्यवहारस्तत्संस्थानसमावेशाद् भाक्तः / एवमन्यत्रापि बोध्यमिति / तस्माद्यु(दु)क्तं नियम इति / तदनु प्रकृतेऽपि शालित्वाङ्कुरत्वयोः कुर्वद्रूपत्वयोः परापरभावनियमे अशाल(ले)रङ्कराजनकत्वप्रसङ्गः शालिमात्रनियतत्वात् तस्य, वैजात्यशालित्वयोस्तथात्वे कुशूलस्थस्य शालेरशालित्वप्रसङ्गो वैजात्यविरहात् / न च वाच्यं यथा [उत्]क[र्ष] त्वापरसामान्यतीव्रादि(व्रत्वाद्) अपरतीव्रत्वमन्यदेवानन्यगतिकत्वात् तथा शालित्वापरवैजात्या(द)परवैजात्यमन्यदेवेति / तत्र तीव्रत्वादेः सामान्यविशेषस्य प्रमाणसिद्धतया तथाऽभिधातुं शक्यत्वादत्राप्रामाणिकत्वेन तथा व्यवस्थापयितुमशक्यत्वादिति निरुपद्रवमेतत् / अत एव प्रथमतोऽप्रामाणिकत्वमुक्तमिति रहस्यम् / ननु मा भूदन्यूनानतिरिक्तव्यक्तिवृत्ति सामान्यद्वयमुक्तयुक्तेविरुद्धयोस्तु समावेशो भविष्यतीत्याशङ्ग्य बाधकमाह - परस्परेति / गोत्वाभिव्यञ्जकव्यक्त्युत्पादकसामग्र्योर्विरोधादसमावेशः शङ्कते - सामग्रीति / सामग्र्योरेव विरोध इति / प्रमाणमस्तीत्याशयवान् परिहरति - कुत एतदिति / परः सामग्रीविरोधे प्रमाणमाह - परस्परपरिहारेणेति स्थिते सामग्र्योरिति शेषः / प्रयुक्तमेतद् यद्यत्रापि प्रमाणं भवेत् तन्नास्तीत्याह - नेदमिति / अस्मदाद्यध्यक्षमित्यर्थः / न हि सामग्री परस्परपरि[37B]हारेणैव वर्तत इति असर्वज्ञविज्ञप्तिगोचरं साक्षादित्युभ[य]सिद्धमित्यर्थः / सामग्री तावत् परस्परपरिहारेणैव वर्तत इति नाध्यक्षमित्युक्तमिदानीं तु तथाविधजात्यभिव्यञ्जकव्यक्तिसमावेशवशेन सामग्रीसमावेश एव कदाचित् कल्प्यत इत्याशयवानाह - एकदेशेति / 'तु'शब्दः पुनरर्थे इति / पुनः संभाव्यते यावदित्यर्थः / नाध्यक्षप्रसादप्राप्तः सामग्रीविरोधः किन्तु परस्परपरिहतस्वभावकार्यसंदर्शनबलोन्नीत इति मन्यमानः शङ्कते - कार्ययोरिति / न तावत् कदाचित् क्वचित् परस्परपरिहारसंदर्शनेन सर्वत्रासमावेशव्यवस्थितिः / कम्पशिशपयोः कदाचित् क्वचित् असमाविष्टयोरपि क्वचित् परस्परपरिहारसंदर्शनेन [न] सर्वत्रासमावेशव्यवस्थितिः / कम्पशिशपयोः कदाचित् क्वचिदसमाविष्टयोरपि क्वचित् कदाचिदसमावेशप्रसङ्गादित्याह - तीति / दर्शनादर्शनविशेषपुरुषसंस्कारस्य [समावेशा]समावेशनिबन्धनत्वान्नैवमित्याह - दृश्यत इति / परस्परपरिहारस्थितयोरपि क्वचित् समावेशदर्शनेनान्यत्र तथाभूतयोरपि समावेशशङ्कादुष्परिहार(रे)त्याशयवानाह- गोत्वेति / अस्तु तथाभूतयोः समावेशः किं नो बाध्यत इति मन्यमानं प्रत्याह - तथा चेति / कार्यानुमानेन वहुत(बाधित)मिति प्रागुक्तमधुना त्वे(त्वने)नापि गतमित्यर्थः / कुत इत्यत आह - क्वचिदपीति / अयमाशय: - अनुपलब्धिरसद्व्यवहारयोग्यतां प्रतिबन्धबलेन गमयतीति बौद्धैरभ्युपगम्यते / प्रतिबन्धश्चानुपलब्धेः सद्व्यवहारविरोधित्वेन / यदि च विरुद्धयोरपि समावेशः स्यात् तदाऽनुपलभ्यमानस्यापि सद्व्यवहारयोग्यत्वसमावेशसंभावनायाम[38A]नुपलब्धेरसद्व्यवहारयोग्यत्वाया(ग्यतया) प्रतिबन्धसिद्धौ नानुपलब्धिरपि लिङ्गं स्यादिति बौद्धभाषयैवोदाहरणं प्रकृते यथा - इह