________________ 38 * वामध्वजकृता सङ्केत्तटीका कार्यस्य विशेषकारणप्रयुक्ततया कार्यसामान्यस्यान्य[त्कारणान्तर] प्रयोजकतयाऽनुपलब्धे(ब्धि)बाधितत्वान्नाभ्युपगम्यते तर्हि कारणस्यापि विशेषकार्यप्रयोजकतया कारणसामान्यस्यान्यत्कार्यान्तरप्रयोज्यतयाऽनुपलब्धिबाधितत्वान्नाभ्युपगन्तव्यम् इति स्वाभिप्रायमुद्घाटयति - तत्किमिति। अथ न निश्चयेनि(नो)च्यते त[त्] किन्तु शङ्का क्रियते, सा चाशक्यपरिहारेति [36A] यदि तदा कार्य(या) पेक्षे(क्षा)पि सा तथै(थै)वेत्याह - शङ्का त्विति / न शक्यते नाप्यध्यक्षतो निश्चीयते, किं तर्हि ? अनुमीयते तत्, तदा न शङ्का सा अस्यामित्याशयवाननुमानं प्रमाणयति - कार्येति / यदि य: प्रागजनकः स एवोत्तरत्रानुवर्तते [तदा] कथं ततः कार्यजन्म उत्तरकाले, कार्यजनकस्य वा पूर्वमेवि(व) भावे कथं पूर्वमजननम् / तस्मात् पूर्वोत्तरकालयोरजननजननाभ्यामवसीयते पूर्वोत्तरकालाया(लयोः) भाववैलक्षण्यमित्यर्थः / कारणसंभवेऽप्यजननं कदाचित्, कदाचित् तु जननं सहकारिविरहाविरहाभ्यामेवाननकलानकलाभ्यामपायसिद्धाभ्यामपपन्न[म] / न तदतिरिक्तकर्वद्रपत्वजातिवेशोऽयमुपस्थापयतीत्याशयवान् बौद्धमतमुन्मूलयति - नेति / एतेन कार्यबलमन्यथासिद्धं सन् न सौगतमतमनुधावतीत्युक्तं भवति / प्रौढिवादेन त्वाह - उन्नीयतामिति / निषेधकाभावादिति साधकाभाववद् बाध[क]स्याप्यभावादित्यभिप्रायः / न तु बाधकाभावः सिद्धः, अनुपलब्धेरेव बाधिकायाः सत्त्वादिति मन्यमानं प्रत्याह - न हीति / अयोग(ग्य)मेव तदतो नानुपलब्धिर्बाधिकेत्यर्थः / यदि योग्यं तदा कारण इव [प्र]माणान्तरतोऽपि निश्चेयमिति हृदि निधाय प्रमाणान्तरस्याप्ययोग्यत्वं संभावयति - कार्यैकेति / तदनुपलब्ध्य(ब्ध्यै)वेत्यर्थः / कार्यानुपलब्ध्या हि कारणसत्ता न निश्चीयते, न त्वसत्तानिश्चयो व्यभिचारादित्यभिप्रायः / ननु कार्यानुपलब्धेः कथमित्यत आह - कार्यस्य चेति / न हि कार्यमैन्द्रियकमेवेति नियम इति भावः / ननु स्वभावानुपलब्धिकार्यानुपलब्ध्योर्निषेधिकयोर[36B] भावेऽप्यनुपलब्ध्यन्तरमेव निषेधकं संभविष्यतीत्यत आह - अत एवेति / ___35. एवं विधिरूपयोावृत्तिरूपयो जात्योविरोधे सति न समावेशः, समाविष्टयोश्च परापरभावनियमः, अन्यूनानतिरिक्तवृत्तिजातिद्वयकल्पनायां प्रमाणाभावात् / व्यावर्त्यभेदाभावेन विरोधानवकाशे भेदानुपपत्तेः / परस्परपरिहारवत्योश्च समावेशे गोत्वाश्वत्वयोरपि तथाभावप्रसङ्गात् / सामग्रीविरोधानैवमिति चेत्, कुत एतत् ? परस्परपरिहारेण सर्वदा व्यवस्थितेरिति चेत्, नेदमप्यध्यक्षम् / एकदेशसमावेशेन तु सामग्रीसमावेशोऽप्युन्नीयते / यावत् तत्कार्ययोः परस्परपरिहतिस्वभावत्वादिति गोत्वाश्वत्वयोरपि न दृश्यते इति का प्रत्याशा ? तथा च गतमनुपलब्धिलिङ्गेनापि / क्वचिदपि 35. यदा [निरा] कृते स्वभावकार्यानुपलब्ध्योरुक्तप्रकारेणा(ण) निषेधसामर्थ्य(W) तद(दा)ऽनुपलब्ध्यन्तरस्यापि व्यापकविरुद्धोपलब्ध्यादेस्तादात्म्यात् तदुत्पत्तिनियममुपादाय प्रवृत्तस्य कैव [क] था निषेधसामर्थ्य इत्यर्थः / एवं तावत् प्रमाणाभावेन वैजात्यं नास्तीत्युक्तं संभावनाप्यनिष्टोपदर्शनशरप्रहारविदारितमर्मतया संजातनिर्वाणेत्यप्युक्तम्, अधुना त्वभ्युप[गमे] [बाधिका] युक्ति[:] परापरभावानुपपत्तिरप्यवान्तरजातिप्रशान्तिमातनोतीत्याशयवानाह-एवमिति / वक्ष्यमाणाभिप्रायेणेत्यर्थः / विधिरूपयोरिति स्वमतबलेन / व्यावृत्तीत्यादि बौद्धमतेनोक्तमतो न विरोधः / न समावेशः एकस्यां व्यक्तौ / समाविष्टयोरित्यत्राप्येकस्यामिति मतं(मन्त)व्यमिति नियमः / प्रमाणसिद्धत्वादित्यभिप्रायः / न त्वेकत्र सामान्यद्वयं परिवर्तमानमन्यथाऽपि भविष्यति बाधका