SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ 37 * न्यायकुसुमाञ्जलिः स्तबकः 1 न हि करणाकरणयोस्तज्जातीयस्य सतः सहकारिलाभालाभौ तन्त्रमित्यभ्युपगमे क्षणिकत्वसिद्धिः / तथैकव्यक्तावप्यविरोधात्, तद्वा तादृग्वेति न कश्चिद् विशेष इति न्यायात् / ततस्तावनादृत्य वैजात्यमप्रामाणिकमेवाभ्युपेयम् / एवं च कारणवत् कार्येऽपि किञ्चिद् वैजात्यं स्याद् यस्य कारणापेक्षा न तु दृष्टजातीयस्येति शङ्कया न तदुत्पत्तिसिद्धिः / दृष्टजातीयमाकस्मिकं स्यादिति चेत्, न / तत्रापि किञ्चिदन्यदेव प्रयोजकं भविष्यतीत्यविरोधात् / न कार्यस्य विशेषस्तत्प्रयुक्ततयोपलभ्यते, नापि कार्यसामान्यस्यान्यत् प्रयोजकं दृश्यत इति चेत् / तत् किं कारणस्य विशेषः स्वगतस्तत्प्रयोजकतयोपलब्धः ? कारणसामान्यस्य वान्यत् प्रयोज्यान्तरं दृश्यते ? यतो विवक्षितसिद्धिः स्यात् / शङ्का तूभयत्रापि सुलभेति / कार्यजन्माजन्मभ्यामुन्नीयत इति चेत् / न / सहकारिलाभालाभाभ्यामेवोपपत्तेः / उन्नीयतां वा, कार्येषु शङ्किष्यते, निषेधकाभावात् / न हि धूमस्य विशेष दहनप्रयोज्यं प्रतिषेद्धं स्वभावानुपलब्धिः प्रभवति, कार्यैकनिश्चेयस्य तदनुपलब्धेरेवानिश्चयोपपत्तेः / कार्यस्य चातीन्द्रियस्यापि सम्भवात् / अत एवानुपलब्ध्यन्तरमपि निरवकाशमिति / ___34. किमिह किमपि न वक्तव्यम् / तथा च न शिष्यमतिविवर्धनम् / अतः शिष्येऽत्र बोध्यया (शिष्याणां प्रबोधाय) संक्षेपव(पेण) सिद्धान्तसारमाह - अपि चेति / असमन्व(र्थ)जातीयस्यान्यस्वभावेन [35A] प्रकृतकार्यसिद्धिः / तद्वा तादृग्वेति न कश्चिद् विशेषस्ततोऽन्यदसमर्थमुपेतव्यम्, तथानुपलब्धिबाधितमशक्यमुपगन्तुमित्याह - न वैजात्यमिति / कुर्वद्रूपत्वं विना न तत् क्षणिकत्वं स्यात् / अभ्युपेयत एव वैजात्यं क्षणिकवादिना / ततस्तमेवानिष्टतया किमित्युच्यत इत्यत आह - न तस्मिन्निति / तस्मिन् वैजात्ये प्रमाणबाधितेऽभ्युपगम्यमाने कारणवत् कार्यमपि तथाभूत[म्] / वैजात्योपगमेऽनुमानमात्रं न भवेत् / मा भूदनुमानमिति हृदि निधायोक्तम् - विना तेनेति / तेनानुमानेन विना तत्सिद्धिः क्षणिकत्वसिद्धिः / ननु नानुमानात् क्षणिकत्वसिद्धिः किन्तु प्रत्यक्षादेव भविष्यतीत्याह - न च नीलनिश्चय(ये) क्षणिकत्वनिश्चयोऽपीत्यर्थः / अतिसंक्षिप्तमतिविशदं सिद्धान्तसारं गृहीतम् / विवृण्वन् प्रथमपदं विश[द] यति - न हीति / कार्यजन्माजन्मनोस्तज्जातीयस्य पूर्वजात्यविशिष्टजातीयस्य सहकारि[लाभा]लाभाविति यथाक्रमम् / तन्त्रं प्रधानमुपयोगीति यावत् / साजात्येऽपि क्षणिकत्वमस्तु को दोष इत्यत आह - तथैकेति / यदि पूर्वव्यक्तित उत्तरव्यक्तिरविशिष्टा सहकारिमध्यनिविष्टा कार्यजननी स्वीक्रियेत तर्हि पूर्वैव व्यक्तिरनुवर्तमाना या सहकारिवैधुर्यात् सर्वं कार्यं नाकार्षीदधुना तु सहकारिप्राप्तौ करोतीत्यभ्युपगम्यतां विरोधाभावादित्यत आह - व्यक्तावप्यविरोधादिति। पूर्वस्यामेवेत्यर्थः / तादृग्वेति। तज्जातीयं वै[35B]जात्यशून्यमन्यदित्यर्थः / [का]र[णं] विनाऽत्रं(त्र) तु तत् क्वचिदुपयुज्यत इत्यभिप्रायः / ननु भवत्वेवं तथापि किमिति हृदि निधाय द्वितीयप(पा)दं योजयितुं सनल[म्] आह - तत इति / तस्मात् कारणात् तौ सहकारिलाभालाभौ प्रमाणसिद्धावुभयाभिमतावनादृत्य, अनादरत्वाद् उपेक्षेति यावत् सुबोधमितरत् / एवमिति वारिताभिमानस्तदुत्पत्तिसमर्थनार्थमाशङ्कते - दृष्टजातीयमिति / धूमजातीयं वह्नि विना यदि भवति तदा कारणं विना भवतः कार्यस्याकस्मिकत्वं भवेत्, तथा च कादाचित्कत्वविहतिरित्यभिप्रायः / तदेतत् परिहरति - नेति / कारणं विना भवतः कार्यस्यैव दोषो न तु वह्निं विना भवतः, तं विना भवतां घटादीनामनाकस्मिकत्वदर्शनादित्यर्थः / अस्मदभिमतं परः स्वयमेवाभिदधात्वित्याशयेन स्वमतसमानरूपं परमतमाशङ्कते - न कार्यस्येति / धूमस्य विशेषः कारणप्रयुक्ततया वह्निप्रयुक्ततया तत्साध्यबाधेति यावत् / कार्यसामान्यस्य धूमजातीयस्यान्यत्प्रयोजकमुत्पादकमित्यर्थः / यदि च
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy