________________ 36 * वामध्वजकृता सङ्केत्तटीका सिद्धमशक्यापह्नवमिति / अस्तु [34A] तर्हि व्यापकनिवृत्तेविपर्ययो यद्यदा यन्न करोति न तत् तदा तत्र समर्थम्, यथा शिलाशकलमङ्करे, न करोति च वर्तमानक्रियाकरणसमयेऽतीतानागतलक्षणामर्थक्रियामिति व्यापकानुपलब्धिः / भिन्नस्तु समर्थक्षणादसमर्थः क्षण इति / न च वाच्यं शक्तस्यापि सहकारिलाभालाभाभ्यां करणाकरणयोरुपपत्तेः, संदिग्धव्यतिरेकिणौ प्रसङ्गविपर्ययहेतु(तू), सत्त्वस्योपकारकानुपकारकसहकार्यपेक्षानुपपत्तेः / उपकारकापेक्षायामनवस्थानादनुपकारकापेक्षायामतिप्रसङ्गादिति निरन्तरग(त्व)मित्याशयवतोक्तम् - अस्तु तीति / यथाह ज्ञानश्री: - यत् सत् तत् क्षणिकं यथा जलधरः सन्तश्च भावा इमे सत्ता शक्तिरिहार्थकर्मणि मितेः सिद्धेषु सिद्धा च(न) सा / नाप्येकैव विधान्यदापि परकृन्नैव क्रिया वा भवेद् द्वेधापि क्षणभङ्गसङ्गतिरतः साध्ये च विश्राम्यति // [क्षणभङ्गाध्यायः] एवं च सप्रमाणके क्षणभङ्गदशिते यः कश्चिदाशङ्कते - ननु यदि क्षणभङ्गपक्षे भावादर्थान्तरस्यातिशय: स्यात् तदा भावस्याकारकत्वप्रसङ्गः, अनतिरिक्तस्य तूत्पादेऽसा(स)मर्थाद् बीजात् समर्थस्य वैलक्षण्येन निश्चय: स्यादिति / तं प्रत्याह - न चेति / समर्थस्वभावादिति शेषः / किमिति [भ]वद्भि[:] न पूर्वबीजवैलक्षण्येनानुभूयते उत्तरबीजमित्यत आह - किन्त्विति / भिन्नस्वरूपमपि सादृश्यवशात् न तथात्वेनानुभूयते प्रदीपादिवदित्यर्थः / अत एव न प्रत्यभिज्ञानबाधाऽपि / द्रागेवेत्यापातत इत्यर्थः / न विकल्प्यते न निश्चीयते / तत् किमनिश्चय एवातिशयो निश्चीयमानो वा? [अथ निश्चीयमानः] कथं निश्चय इत्यत आह - कार्येति / उक्तप्रकारेण [34B] सहकार्यपेक्षानुपपत्तेः पूर्वापरकालयोः कार्यदर्शनादर्शनाभ्यामतिशयोऽवसीयत इति / प्रमाणमनुमानमुक्तमिति द्रष्टव्यम् / न चातिशयितबीजजनककारणानुपलब्धेरतिशयितबीजाभाव इति वाच्यम् / दृश्यादृश्यसमुदायस्यानुपलम्भेऽप्यभावानिर्णयात् / तथा चोक्तं परैः - पाणिस्पर्शवतः क्षणस्य न भिदा भिन्नान्यकार(य)क्षणाद् भेदो वेति मतद्वयेने(न) ति(वि)कल(लो) यस्यास्त्यसौ जित्वरः / तत्रैकस्य बलं निमित्तविगमानो(मात्त)त्कार्यमन्यस्य वै सामग्री तु न सर्वथा क्षणसहाकार्य(या)नुगत्य(त्या)तते / अन्त्यातिशयवदिति सामग्रीवदित्यर्थः / यथा कार्यैकसमधिगम्या सामग्री नाऽनुपलम्भेन शक्या निराकर्तुम् तथाऽतिशयोऽपि कार्यैकसमधिगम्यो नानुपलम्भेन शक्योऽपाकर्तुमित्यर्थः / परं च भोगप्रतिसन्धाननियम उपपद्यत इत्यत आह - तथा चेति / कार्यातिरिक्तोपकारमकुर्वाणस्य सहकुर्वत: सहकारिणोऽपेक्षोभयसिद्धेति / तथाभूतसहकारिसं[नि] ध्यसन्निधिभ्यांमप(भ्याम)क्षणिकस्यैव क्रमयोगपद्याभ्यां सर्वक्रियाकरणाकरणयोरुपपत्तेापकानुपलब्धेरसिद्धर्व्यतिरेकव्याप्त्यसिद्धौ प्रसङ्गतद्विपर्य[य]योश्च सहकार्यपेक्षासमर्थनेन संदिग्धव्यतिरेकित्वादन्वयमनोरथस्याप्यसिद्धेः सत्त्वमप्रतीतव्याप्तिकतया न क्षणिकत्वधियमाधातुमुत्सहत इत्याद्यन्यत्र विस्तरेणोक्तमित्यभिप्राये(य)वान् ज्ञना(ज्ञान)कामा[ना] स्वा(श्वा)स्योत्तरयति - क्षणिकत्वेति / 34. अपि च - न वैजात्यं विना तत् स्यान्न तस्मिन्ननुमा भवेत् / विना तेन न तत्सिद्धिर्नाध्यक्षं निश्चयं विना // 16 //