SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ 35 * न्यायकुसुमाञ्जलिः स्तबकः 1 तथा च प्रतीति: 'शरीरं चेतनावत्, गौरोऽहं जानामि, कृशोऽहं दुःखी, स्थूलोऽहं सुखी' इत्यादि शरीरसामानाधिकरण्यप्रतीतिरेव शरीराधारां चेतनामुपदर्शयतीत्यर्थः / ननु यद्यनुभवितृ कर्तृ च शरीरं तर्हि तस्मिन् नष्टे कथमन्यस्यानुसंधातृत्व(त्वे) भोक्तृत्वे चातिप्रसङ्गो दुर्वार इत्यत आह - कर्मज्ञानेति / कर्मज्ञानाभ्यामुपजनिते वासनेऽदृष्टसंस्कारौ / तस्मान्नातिप्रसङ्ग इत्यर्थः / भोगप्रतिनियमो यत्कायसन्ताने [कर्म तत्कायसन्ताने] भोगः सुखदुःखसाक्षात्कारो नान्यत्रेत्येवमाकारः / प्रतिसन्धानप्रतिनियमोऽपि यत्कायसन्ताने संस्कारस्तत्कायसन्ताने स्मृतिर्नान्यत्रेत्येवमाकारः / यत् शरीरान्वयव्यतिरेकानुविधायि तत् शरीरकारणकमिति नियमो न तु शरीराश्रितमेव शरीरहेतुकं घटपटादिभिर्व्यभिचारात् / शरीरस्थूलगौरादिसामानाधिकरण्यं तु बाधकवशेन भ्रान्तमित्याशयवान् समाधत्ते - उच्यत इति / नान्येत्यादि सुदृढप्रमाणावधृतमुभयसिद्धं चेत्यभिप्रायः / न चैकं भूतमपक्रमाद् विनश्वरत्वात् / न च वासनासङ्क्रमो अन्यवासना[ना]मन्यत्रासङ्क्रमनियमात्, सङ्क्रमे वाऽतिप्रसङ्गादित्यर्थः / न चोपादानधर्म उपादेये सङ्क्रामति / पूर्वशरीरस्योत्तरशरीरं प्रति अनुपादानत्वात् तथा च न भोगादिनियम इति रहस्यम् / 33. न हि भूतानां समुदायपर्यवसितं चैतन्यम् / प्रतिदिनं तस्यान्यत्वे पूर्वपूर्वदिवसानुभूतस्यास्मरणप्रसङ्गात् / नापि प्रत्येकपर्यवसितं करचरणाद्यवयवापाये तदनुभूतस्य स्मरणायोगात् / नापि मृगमदवासनेव वस्त्रादिषु संसर्गादन्यवासनाऽन्यत्र संक्रामति, मात्रानुभूतस्य गर्भस्थेन भ्रूणेन स्मरणप्रसङ्गात् / न चोपादानोपादेयभावनियमो गतिः / स्थिरपक्षे परमाणूनां तदभावात् / खण्डावयविनं प्रति च विच्छिन्नानामनुपादानत्वात् / पूर्वसिद्धस्य चावयविनो विनाशात् // 15 // अस्तु तर्हि क्षणभङ्गः / न चातिशयोऽप्यतिरिच्यते किन्तु सादृश्यतिरस्कृतत्वाद् द्रागेव न विकल्प्यते, कार्यदर्शनादध्यवसीयते अन्त्यातिशयवत् / तथा च भूतान्येव तथा तथोत्पद्यन्ते यथा यथा प्रतिसन्धाननियमादयोऽप्युपपद्यन्ते / क्षणिकत्वसिद्धावेवमेतत्, तदेव त्वन्यत्र विस्तरेण प्रतिषिद्धम् / 33. एतदेव विवृणोति - न हीति / एतद्बाधकवशेन शरीर(रे) चैतन्यासंभवेऽचेतनत्वभूतत्वमूर्तत्वभूतस्वरूपादिमत्त्वे यो मृतदेहघटादिदृष्टान्तो पेवेभ्युसिद्धं (नैवोभयसिद्धः) वेदितव्यम्(व्यः) / ननु यदि स्थिरपक्षे न संभवत्युपादानोपादेयभावः] पूर्वोत्तरयोः शरीरयोस्तर्हि [33B] क्षणिकपक्षे संभविष्यत्यन्यथा स्थिर इत्यसङ्गतमित्यभिप्रायवानाह - अस्तु तीति / ननु क्षणिकत्वे न तावदध्यक्षं प्रमाणं येन क्षणिकत्वात् का[रणं कार्यं] कूरात(कुर्यात्) / नीलमेतदितिवत् क्षणिकमेतदिति निश्चयविरहात् / नीलादिनिश्चयस्य च क्षणिकसाधारणत्वादन्यथा विर[हा]ऽविनिवृत्तिः, ज्ञानचा(धा)तुमारा(भावा)त् क्षणिकत्वसिद्धिः / तस्य प्रत्यक्षेण क्वचिदसिद्धौ व्याप्त्यसिद्धेः, असिद्धव्याप्तिकस्य लिङ्गत्वानुपपत्तेः / न च मानान्तरमभ्युपगम्यते परैर्यतः क्षणिकत्वं निश्चीयेत / न च प्रामाणिकं शंधा(शङ्का)मुपगन्तुम् / न च तेन प्रमाणव्यवहारः शक्योपादानस्तत्कथमुक्तम् 'अस्तु तर्हि क्षणभङ्गः' इति / उच्यते - विपक्षे क्रमयोगपद्यव्यावृत्तिरूपेण व्यापकानुपलम्भेनाधिगन्तव्य[:] व्यतिरेकव्याप्तिकस्य प्रसङ्गतद्विपर्ययाभ्यां गृहीतान्वयव्याप्तेः सत्त्वस्य सत्त्वात् / प्रयोगस्तु - यत् सत् तत् क्षणिकम्, यथा घटः, संश्चामी [भावाः] / सत्त्वशब्देनार्थक्रियाकारित्वमभिमतं बौद्धस्य / तथोभयवादिसिद्धप्रमाणप्रमितेषु सिद्धम्। प्रसङ्गस्तु यद्ययं वर्तमानकालभाविकार्यकरणकालेऽतीतानागतकालभाविनीमप्यर्थक्रियां प्रति शक्तः स एवानुवर्तमानोऽनुवर्तिष्यमाणश्च ततः सदैव कुर्यात् सामग्रीवदिति / अथ तस्मिन् काले अजनकत्वम्, तस्य प्रत्यक्ष
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy