SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ 34 * वामध्वजकृता सङ्केत्तटीका [प्रवृत्ति]रित्याशयवानाशङ्कते - निरधिकारत्वादिति / संसारसंभवोऽधिकारः प्रकृतिप्रकृत्वे(प्रवृत्तेः), तदसंभवस्त्वनधिकारः तस्मान्न प्रवर्तते / यद्येवमधिकारस्तदा किं प्रकृत्यादिकल्पनया ?; एवंभूताधिकारवशाद् बुद्धितत्त्वमेव ज्ञानाद्याश्रयभूतं प्रकृत्यादिपदवाच्यमस्त्वित्याशयवान् परिहरति - तीति / मरणेऽपि भाविसंसारसंभवः / प्रसुप्तस्वभावता(वेति) / नन्वेवं - "दशमन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः / भौतिकास्तु शतं पूर्णं सहस्रं त्वाभिमानिकाः / / बौद्धा दशसहस्रं तु तिष्ठन्ति विगतज्वराः / " इत्यागमः कथं संगमनीय इत्याह - सैव हीति / तत्र व्यापारयोगादादिकारणत्वाभिमानत्वे चेतनाधारत्वयोगात् तेन तेन शब्देन प्रकृत्यहङ्कारमनःशब्देन व्यपदिश्यते अभिधीयते इत्यर्थः / एकस्यामेव व्यापारयोगेनानेकशब्दाभिलप्यत्वमित्यत्र दृष्टान्तमाह [32A] - शरीरवायुवदिति / यथैक एव शारीरो वायुरू;धोगत्यादियोगात् प्राणापानादिव्यपदेशभाग् भवति तथा बुद्धिरप्यनेकव्यापारयोगात् प्रकृत्यादिशब्दवाच्येत्यर्थः / अतोऽपि हेतुरसिद्धोऽचेतनकार्यत्वादिति / न केवलं पूर्वोक्तप्रकारेणासिद्धो अतोऽपीत्यपिशब्दार्थः / पूर्वं हि [अ]काय(य)त्वेन वा अचेतनकार्यत्वमसिद्धमित्युक्तमत्र तु बुद्धरेव प्रकृत्यादिपदवाच्यतया प्रकृतिकार्यत्वमसिद्धमिति मन्तव्यम् / नन्वेवमपि कस्यायमपवर्गः कथं च कस्य संसार इति हृदि निधायापवर्गसंसारौ यस्य यथा च तदुभयं दर्शयति - अधिकारनिवृत्त्येति / बुद्धेरिति / स्वात्मीयराद्धान्तावलम्बनेनोक्तमस्मन्मते त्वात्मनो ज्ञानाद्याश्रयस्यैव लौकिके आत्मपदवाच्यत्वे न संज्ञाविसंवादोऽप्येकार्थतासिद्धे[रि]ति / अधिकारनिवृत्ति स्फुटीकर्तुमधिकारप्रतियोगिनमाह - वासनेति / कर्मणा यागादिना जनिता धर्माधर्मरूपा वासना तद्योगः सम्बन्धो ज्ञानाद्याधारे, स च संसारहेतुः, तन्निवृत्तिश्चोपभोगेनानुत्पत्तिश्च साधनानुपादानेन सा चापवर्गहेतुरिति मन्तव्यम् / ननु आत्मनो ज्ञानाद्याश्रयत्वे ज्ञानादेश्च विकाररूपत्वात् तदभिन्नस्य विकारित्वे कौटस्थ्यविरोधि[ते]त्यत आह - धर्मधर्मिणोरिति / तयोर्भेदे धर्मस्योत्पादविनाशाभ्यां न धर्मिण उत्पादविनाशाविति कौटस्थ्यमेवेत्यर्थः / ननु भेदो [धर्म]धर्मिणो न प्रामाणिकोऽभेदस्तु प्रमाणवानतो न दोषपरिहार इत्यत आह - भेदश्चेति / प्रत्यक्षसिद्ध इत्यबाधितप्रत्यक्षसिद्ध इत्यर्थः / तथाहि उदयव्ययधर्मवत्तया [32B] अनुभूयमानाभ्यो बुद्धिभ्यो अनुदयव्ययधर्मकाम(कमा)त्मत्वमनुभूयमानमशक्यापह्नवम् / कथमन्यथा 'अहं जानामि, अहमज्ञासिषम्, अहं ज्ञास्यामि' इति वर्तमानातीतानागतज्ञानानुगमैकमहमास्पदमनुभूयत इति / अभेदोऽप्य[तो] भेद एवेति मतमाशङ्क्य निराकरोति - न चेति / अभेदोऽपीत्यतः परमभेद एवेत्यपि द्रष्टव्यम् / अत्र परः प्रष्टव्यः 'किं सामानाधिकरण्यप्रतीतिरेवाभेदप्रतीतिरथ भेदे सामानाधिकरण्यव्यावृत्त्याऽभेदानुमानम् ?' आद्ये विपरीतकल्पनेयमायुष्मतामित्याह - भेद एवेति / उक्तप्रकारसामानाधिकरण्य[प्रतीति:] भेदमेवोल्लिखतीत्यर्थः / द्वितीये केवलव्यतिरेक्यनुमानमर्थापत्तिस्तथा चान्यथोपपन्नेत्याह - भेदेऽपि इति / न चातिप्रसङ्गः, स्वभावनियतत्वात् कार्यकारणवद् विषयविषयिवद् वा अभिधानाभिधेयवद् वेति शङ्कानिरासे सति उपसंहरति - सर्वमिति / सर्वमिति / ननु सर्वमेतन्नित्यविभुरूपात्मसद्भाव उपपद्यते, एतदेव न सहामह इति पुनरपि चार्वाकमुत्थापयति / ननु यदि भूतचैतन्यगा(मा)स्थीयते तदापि स्यान्न [त]था, एतदस्तीत्यतो न चैतन्यं भूतेष्विति हृदि [कृत्वा विशेषयति - कायेति / न भूतमात्रे चैतन्यमातिष्ठामहे किन्तु तद्विशेषे काय इत्यत्र प्रमाणमाह - अन्वयेति / यद्यस्मिन् सति भवत्यसति न भवति तत् तस्य यथा घटरूपम् / शरीरे सति भवत्यसति न भवति चेतना, अतः शरीरस्येति [33A] जानीमः /
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy