SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ 33 * न्यायकुसुमाञ्जलिः स्तबकः 1 ऽपीत्याह - रागेति / सूक्ष्मरूपरागादिसंभवेऽपि प्रकृते(ते:) घटादौ न रागादिमत्त्वमिति यदि तदा सूक्ष्मरूपचैतन्यसंभवेऽपि [31A] न घटादिषु चैतन्यं भविष्यतीत्याशयवानाह - सौक्ष्यं चेति / प्रकृतौ तावत् परमार्थतो न चैतन्यं नापि रागादिमत्त्वं तथापि तद्विकारे महत्तत्त्वे यथा रागादिसंभवस्तथा चैतन्यमपि स्याद्विरोधाभावादित्याशयवानुपसंहरति - तस्मादिति / यज्जातीयं तज्जातीयाद्, यज्जातीयं पटजातीयं तज्जातीयात्, तथा भूतमात्रं पटजातीयमात्रमनुमीयते लोके / न पुनर्यावद्धर्मकं तन्तुधर्मकं तावद्धर्मकं कार्यं पटाख्यं व्यभिचारात् / लौकिकपरीक्षकाणां पटकारणेषु तन्तुषु तन्तुत्वं न तु कार्ये पटेऽपि तन्तुत्वमिति प्रतिपत्तिरिति भवति व्यभिचार इत्यर्थः / 32. यदि च बुद्धिनित्या, अनिर्मोक्षप्रसङ्गः, पुंसः सर्वदा सोपाधित्वे स्वरूपेणानवस्थानात् / अथ विलीयते, ततो नानादेविलय इत्यादिमत्त्वे तदनुत्पत्तिदशायां को नियन्ता ? प्रकृतेः साधारण्यात् तथा चासंसारः / पूर्वपूर्वबुद्धिवासनानुवृत्तेः साधारण्येऽप्यसाधारणीति चेत् / बुद्धिनिवृत्तावपि तद्धर्मवासनाऽनुवृत्तिरित्यपदर्शनम् / सूक्ष्मत्वान्न दोष इति चेत् / मुक्तावपि पुनः प्रवृत्तिप्रसङ्गः / निरधिकारत्वानैवमिति चेत् / तर्हि साधिकारा प्रसुप्तस्वभावा बुद्धिरेव प्रकृतिरस्तु, कृतमन्तरा प्रकृत्यहङ्कारमनःशब्दानामर्थान्तरकल्पनया / सैव हि तत्तद्वयवहारगोचरा तेन तेन शब्देन व्यपदिश्यते शारीरवायुवदित्यागमोऽपि सङ्गच्छते इत्यतोऽपि हेतुरसिद्धः / अधिकारनिवृत्त्या बुद्धेरप्रवृत्तिरपवर्गः, वासनायोगश्चाधिकारः, ततः संसारः / धर्मधर्मिणोरत्यन्तभेदे च कौटस्थ्याविरोधः / भेदश्च विरुद्धधर्माध्यासलक्षणो घटपटादिवत् प्रत्यक्षसिद्धः / न च सामानाधिकरण्यादभेदोऽपि, तद्धि समानशब्दवाच्यत्वम्, एकज्ञानगोचरत्वम्, एकाधिकरणत्वम्, आधाराधेयभावः, विशेष्यत्वम्, सम्बन्धमानं वा, भेद एव भेदेऽपि चोपपद्यमानं नाभेदं स्पृशतीति / तस्मात् सर्वमवदातम् // 14 // स्यादेतत् / नित्यविभुभोक्तृसद्भावे सर्वमेतदेवं स्यात्, स एव कुतः, भूतानामेव चेतनत्वात् / कायाकारपरिणतानि भूतानि तथा, अन्वयव्यतिरेकाभ्यां तथोपलब्धेः, कर्मज्ञानवासने तु सर्वत्र प्रतिभूतनियते अनुवर्तिष्येते, यतो भोगप्रतिसन्धाननियम इति चेत् / उच्यते - नान्यदृष्टं स्मरत्यन्यो नैकं भूतमपक्रमात् / वासनासङ्क्रमो नास्ति न च गत्यन्तरं स्थिरे // 15 // 32. अन्यथेत्यादिपदान्तरं व्याचिख्यासुर्यधुपबन्धेनाह - यदि चेति / प(च)रमपदं व्याचिख्यासुराशङ्कते - अथेति / ननु विलीयतां नाम बुद्धिरस्तु च प्रकृतेः साधारण्यं, तथापि विलीनमपूर्वबुद्धिवासनानुवर्तमाना (तथापि विलीनायां बुद्धावपि पूर्वबुद्धिवासनानुवर्तमाना) नियन्त्री भविष्यतीत्याशयवानाशङ्कते - पूर्वेति / यदि वासना बुद्धिरेव तदा निवृत्तिः, कथमनुवृत्तिः ? ग्ध्वक्वा(पृथक्त्वे)ऽनुवृत्तिः, कथं तर्हि निवृत्तिः ?, निवृत्त्यनुवृत्त्योः परस्परविरुद्धत्वात् / अथ बुद्धिधर्मो वासनेति मतं तदा धर्मस्य धर्म्यतिरिक्तस्यानभ्युपगमेऽपसिद्धान्तात् स एव दोष इत्याशयवान् परिहरति - बुद्धिनिवृत्तावपीति / अपदर्शनमपकृष्टदर्शनं मतमप्रमाणिकत्वाद् [31B] रूपानुवृत्तिरिति स्वदर्शनं समाधित्सुराशङ्कते - सूक्ष्मत्वादिति / न कथञ्चिदपि अनुवृत्तिरभ्युपगत(गन्त)व्या, अभ्युपगमे वा मुक्तावपि सूक्ष्मतयाऽनुवृत्तौ पुनः संसारापत्तिरित्याशयवानाह - मुक्ताविति / ननु यावत्संसारं विलीनाया अपि बुद्धेर्वासनानुवृत्तिलक्षणोऽधिकारोऽभ्युपेयते, मुक्तौ वासनापि नास्तीति न पुनः प्रकृते(तेः)
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy