SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ 32 * वामध्वजकृता सङ्केत्तटीका साङ्ख्यैरनभ्युपगमाद् ज्ञानस्यैव स्मृतिहेतोर[न]भिव्यक्तितयाऽनुवृत्तेरित्यभिप्रायः / प्रमाणमाह - तस्मात् सामानाधिकरण्येनाध्यवसीयमानत्वादिति / यो यत्सामानाधिकरण्येनाध्यवसीयते स तस्यैव यथा 'श्लोक(शुक्ल:) घटः' इति सामानाधिकरण्येन [30A] प्रतीयमानः शुक्लो गुण: घटस्यैवेति / तथा च बुद्धिसामानाधिकरण्येन प्रतीयन्ते सुखादय 'अहं सुखी दुःखी जाने यते इच्छामि द्वेष्मि' इत्यादि / ज्ञानाद्याधारत्वेन बुद्धेरेव चैतन्यमाशङ्क्य निराकरोति - न चेति / पुरुषस्वरूपमुक्तमुपसंहरति - पुरुषस्य चेति / तदेतत् प्रागेव परिहृतमित्याह - तदेतदिति / शिष्यहिततया परिहारं स्पष्टयति - कर्तृधर्मा इति / 31. कृतिसामानाधिकरण्यव्यवस्थितास्तावद्धर्मादयो नियामका इति व्यवस्थितम् / चेतनोऽपि कर्तव कृतिचैतन्ययोः सामानाधिकरण्येनानुभवात् / न चायं भ्रमः, बाधकाभावात् / परिणामित्वाद् घटादिवदिति बाधकमिति चेत्, न, कर्तृत्वेऽपि समानत्वात् / तथा च कृतिरपि भाविकी महतो न स्यात् / दृष्टत्वादयमदोष इति चेत्, तुल्यम् / अचेतनाकार्यत्वं बाधकम्, कार्यकारणयोस्तादात्म्यादिति चेत्, न, असिद्धेः / न हि कर्तुः कार्यत्वे प्रमाणमस्ति / प्रत्युत "वीतरागजन्मादर्शनात्" [न्यायसूत्र, 3.1.25 ] इति न्यायादनादितैव सिद्ध्यति / यद् यच्च कार्ये रूपं दृश्यते तस्य तस्य कारणात्मकत्वे रागादयोऽपि प्रकृतौ स्वीकर्तव्याः स्युः, तथा च सैव बुद्धिर्न प्रकृतिः, भावाष्टकसम्पन्नत्वात् / स्थूलतामपहाय सूक्ष्मतया ते तत्र सन्तीति चेत्, चैतन्यमपि तथा भविष्यति / तथाप्यसिद्धो हेतुः, तथा सति घटादीनामपि चैतन्यप्रसङ्गः तादात्म्यादिति चेत् / रागादिमत्त्वप्रसङ्गोऽपि दुर्वारः / सौक्ष्म्यं च समानमिति / तस्माद् यज्जातीयात् कारणाद् यज्जातीयं कार्यं दृश्यते, तथाभूतात् तथाभूतमात्रमनुमातव्यम्, न तु यावद्धर्मकं कारणं तावद्धर्मकं कार्यं व्यभिचारादिति किमनेनाप्रस्तुतेन ? / 31. श्लोकं व्याचष्टे - कृतीति / कदाचित् कर्तृधर्माणां नियामकत्वे इष्टमेवेति परोऽनुमन्यते / तन्निवृत्त्यर्थं द्वितीयं पदं व्याचष्टे - चेतनोऽपीति / अत्र चतुश्चै(कर्तुश्चे)तन्ये प्रमाणं प्रत्यक्षानुभवमाह - कृतिचैतन्ययोरिति / अत्र च प्रत्यक्षं भ्रान्तमित्याशङ्क्य परिहरति - न चाऽयमिति / विनाऽपि बाधकं भ्रान्तत्वप्रसङ्गे भ्रान्ताभ्रान्तव्यवस्थानुपपत्तेरित्याशयः / कर्तुश्चैतन्ये बाधकमाशङ्कते - परिणामित्वादिति / ‘कर्ता अचेतनः परिणामित्वाद् घटवत्' इत्यनुमानबाधितत्वाद् भ्रान्तं चैतन्यमित्यर्थः / परिणामित्वं बाधितमिति गूढाभिप्रायः परिहरति - न कर्तृत्वेऽपीति / ज्ञानेच्छाप्रयत्नधारव(क)त्वमपि तर्हि परिणामित्वादेव न स्यादित्यर्थः / एवमस्तु किं नो बाध्यते इति / भ्रान्तं प्रतिपादयति - तथा चेति / कृतिः प्रयत्न इत्यनर्थान्तरम् / भाविकीत्यनौपाधिकीत्यर्थः / न च साप्यौपाधिकीति [30B] वाच्यमपसिद्धान्तापत्तेरेव / तथा चेदमापन्नं महत्तत्त्वम(म्),परिणामित्वाद् घटवदेवेति / स्वीयाभिप्रायमुद्घाटयितुं परस्य मतमाह - दृष्टत्वादिति / कृतेस्तदीयतया दृष्टत्वाद् बाधितत्वेनादोषः, अनुमानमत्र न प्रवर्तत इत्यर्थः / अभिप्रायमुद्घाटयति - तुल्यमिति / अचैतन्येऽप्यनुमानप्रवृत्तिर्बाधितत्वस्य समानत्वादित्यर्थः / बाधकान्तरमाशङ्कते - अचेतनेति / अचेतनायाः प्रकृतेराद्यं कार्यं महदचेतनम् / न च कारणस्याचैतन्येऽपि कार्यचैतन्यं भविष्यतीति मन्यमानेनोक्तं - तादात्म्यादिति / तथा च यदचेतनकार्यं तदचेतनं यथा घट इति मन्तव्यं परिहरति - नासिद्धेरिति / सुबोधमन्यत् / तथाप्यसिद्धो हेतुः 'अचेतनकार्यत्वात्' इत्यर्थः / सूक्ष्मचैतन्यसंभवेन चेतनकार्यत्वादिति / ननु यदि प्रकृतेश्चैतन्यमुपेयते तदिदमनिष्टमापद्यत इत्याशयवानाह - तथा सतीति / प्रकृतेश्चैतन्ये सतीत्यर्थः / तदिदमनिष्टम् - रागादिमत्त्वे
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy