________________ 31 * न्यायकुसुमाञ्जलिः स्तबकः 1 तस्मात् तत्संयोगादचेतनं चेतनावदिव लिङ्गम् / गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीनः // [सां.का. 20] यथाऽचेतनं बुद्धितत्त्वं चेतनसन्निधौ चेतनावत् तथाऽकर्तृरूपमात्मस्वरूप कर्तृसन्निधौ कर्तृरूपमाभाति न तु वास्तवमिति परमार्थः / ननु तथापि यदि बुद्धिरचेतना कथं तयं कर्ता चेतन इति प्रतीतिरित्यत आह - तस्मिनिति / अत्रापि भेदाग्रहादिनिमित्तम् / यथा भवतामेव शरीरे भेदाग्रहादचेतनेऽपि चेतनाभिमान इत्यर्थः / ननु यदि चेतनो न कर्ता भोक्ता वा क्व तहि कर्मापूर्वयोः संभव इत्यत आह - तत्रैवेति / बुद्धितत्त्वे कर्मयमादिवासना, तज्जनितमपूर्वम् / पुरुषस्तहि कीदृश इत्यत आह - पुरुषस्त्विति / न कर्मफलाभ्यां लिप्यत इत्यर्थः / 30. आलोचनं व्यापार इन्द्रियाणां, विकल्पस्तु मनसः, अभिमानोऽहङ्कारस्य, कृत्यध्यवसायो बुद्धेः / सा हि बुद्धिरंशत्रयवती / पुरुषोपरागः, विषयोपरागः, व्यापारावेशश्चेत्यंशाः / भवति हि मयेदं कर्तव्यमिति / तत्र मयेति चेतनोपरागो दर्पणस्येव मुखोपरागो भेदाग्रहादतात्त्विकः / इदमिति विषयोपराग इन्द्रियप्रणालिकया परिणतिभेदो दर्पणस्येव निःश्वासाभिहतस्य मलिनिमा पारमार्थिकः / एतदुभयायत्तो व्यापारावेशोऽपि / तत्रैवंरूपव्यापारलक्षणाया बुद्धेविषयोपरागलक्षणं ज्ञानम् / तेन सह यः पुरुषोपरागस्यातात्त्विकस्य सम्बन्धो दर्पणप्रतिबिम्बितस्य मुखस्येव मलिनिमा, सोपलब्धिरिति / तदेवमष्टावपि धर्मादयो भावा बुद्धेरेव, तत्सामानाधिकरण्येनाध्यवसीयमानत्वात् / न च बुद्धिरेव स्वभावतश्चेतनेति युक्तम्, परिणामित्वात् / पुरुषस्य कूटस्थनित्यत्वादिति / तदेतदपि प्रागेव निरस्तम् / तथाहि - . कर्तृधर्मा नियन्तारश्चेतिता च स एव नः / अन्यथाऽनपवर्गः स्यादसंसारोऽथवा ध्रुवम् // 14 // 30. इन्द्रियमनोऽहङ्कारबुद्धिनामसाधारणं व्यापारमाह - आलोचनमित्यादि / ननु बुद्धेः कृत्यध्यवसायो व्यापार इति नोपपद्यते / कृतिविषयस्य घटादेर्बुद्धेर्जडत्वेन प्रतिभासासंभवात् / न चाप्रतिभा[स]त्वे कर्तव्ये करोमीत्यस्य(स्या) अवसाय उपपद्यते / न च कर्तव्येन सम्बन्धान्तरमस्ति बुद्धरित्यत आह - सा हीति / अस्यार्थः - यस्माच्चेतनोपरागबलेन जडाया अपि बुद्धेरिन्द्रियप्रणालिकया [29B] व्यापारविषयस्य सम्बन्धेन प्रतिभानाद् व्यापारोत्पत्तिरित्यर्थः / अंशत्रयमाह - पुरुषेति / दर्पणमुखयोरिव बुद्धिचेतनयोर्भेदाग्रहादेकत्वाभिमानः पुरुषोपरागः / नीलपदार्थेन्द्रियसन्निकर्षात् तत्स्वभावस्य बुद्धितत्त्वस्य नीलाकारपरिणतिभेदोत्पादः पारमार्थिको विषयोपरागः / विषयोपरागपुरुषोपरागाभ्यां कर्तव्यविषयस्य प्रतिभासात् तदधीनः करोमीत्यध्यवसायो व्यापारावेश इति / तृतीयं दर्शयितुमिति तमु(दु)दाहरणमाह - भवति हीति / सुगममितरत् / बुद्धिज्ञानयोर्भेदमाह - तत्रैवमिति। विषयोपरागलक्ष[णाया बुद्धेः] विषयोपरागस्वरूपं [ज्ञानम्] / [विषय]उपरागस्तु विषयेन्द्रियसन्निकर्षे सति बुद्धेविषयाकारः परिणतिविशेषो 'अयं घटः' इत्यादिः / ज्ञानभेदमुक्त्वा उपलब्धिभेदमाह - तेनेति। तेन ज्ञानेन सह यः पुरुषोपरागस्य सम्बन्धः 'चेतनोऽहमिमं पश्यामि' इति एवमाकारः सा उपलब्धिरित्यर्थः / एतेन बुद्ध्यादिशब्दानां कणभक्षाक्षचरणादिप्रसिद्धपर्यायत्वमपास्तं वेदितव्यम् / यथा बुद्धिधर्मो ज्ञानं तथेच्छाद्वेषप्रयत्नसुखदुःखधर्माधर्माः सर्व एव बुद्धावेव न त्वन्यत्रेत्याह - तदेवमिति / संस्कारस्य