________________ 30 * वामध्वजकृता सङ्केतटीका - न हीति / अयमर्थः - चितेहि विषयावच्छिन्नत्वं नित्यं हेतुसापेक्षं वा ? हेतुसापेक्षत्वे हेत्वन्तरमिन्द्रियादिकमङ्गीकर्तव्यम् / निरपेक्षत्वे वाऽमोक्षः पुंसः सर्वदा सोपाधित्वात् / ननु घटादिप्रतीतिरूपतया परिणतिस्वभावा प्रकृतिरेव विषयबन्धनस्वभावाऽस्त्वित्यत आह - नापीति / [28A] अत्रापि [प्र] कृतेः साक्षाविषयप्रकाशस्वभावत्वे तस्याः सदातनत्वे पुनरप्यनिर्मोक्षः पुंसां प्रकृतेरुपरमाभाव(वे)न निरुपाधित्वानुपपत्तेरित्यभिप्राय: / ननु मा भूच्चितेविषयबन्धनत्वस्वभावः, विषयस्यैव तु कलशादेश्चैतन्यसम्बन्धित्वं स्वभावो भविष्यतीत्यत आह - नापीति / आहत्य साक्षात् तदीयश्च तदीयः / असमर्थः - साक्षाद् वा विषयस्य चैतन्यसम्बन्धित्वं परम्परया वा / परम्परया चेद् वस्त्वन्तरमङ्गीकर्तव्यम् / साक्षात्पक्षे तु घटस्य यावत्सत्त्वमवभासप्रसङ्ग इति / न चैतदभ्युपगम्यते / कदाचिददृष्टत्वेन स्वीकारात् / अस्तु तर्हि इन्द्रियमात्रद्वारा किं मनोऽहङ्कारादिकल्पनया / तदकल्पने बाधकाभावादि[ति] हृदि निधाय कल्पने बाधकमाह - नापीति / व्यासङ्गान्यथानुपपत्त्या मनोऽप्यस्त्वहङ्कारादिकल्पनं तु न युक्तमित्यत आह - नापीति / यदीन्द्रियमनोभ्यामेव विषया: सन्निधीयन्ते तदा शयानो [नरः] यथा वराहोऽहमिममर्थं प्रत्येमीत्यभिमन्यते तथा नरोऽहमेतम) प्रत्येमीति नरत्वेनाप्यर्थो(प्यात्मो)पधानं भवेत् / अस्ति हि तत्र सन्निहितं नरत्वमस्ति चेन्द्रियसमानासो(चेन्द्रियमनसो)रपि व्यापारोऽन्यथाऽऽलोचनविकल्पयोरेवानुत्पादप्रसङ्गात् / तस्मादिन्द्रियमनोऽतिरिक्तोऽनियतविषयाभिमानव्यापारी स्वीकर्तव्यः / स एवाहङ्कार इत्युज्यते / अस्तु तर्हि अहङ्कारपर्यन्तसिद्धिर्बुद्धिसिद्धौ तु किमायासमित्यत आह - नाप्यहङ्कारेति / पूर्वेषां व्यापाराभावेऽपि श्वासादिसद्भावात् [28B] परिकल्प्यते बुद्धिर्यद्व्यापारात् श्वासादिरित्यभिप्रायः / उपसंहृत्योक्तमर्थं स्फुटयति - तद् यदेतास्विति / जाग्रत्स्वप्नसुषुप्तिषु / अनुभववासना अनुभवरूपा वासनेत्यर्थः / उपारूढो ज्ञानद्वारा सम्बद्धोऽर्थो घटादिः पुरुषस्यात्मनः उपधानी[भवति] / उपधायको व्यवधायकः स्वरूपतिरोधायक इति यावत् यद्वशात् पुरुषः संसरतीति व्यवहारः / ननु यदि पुरुषो न कर्ता कथं तर्हि पुरुष: करोति कर्म फलं चोपभुङ्क्ते स्वकृतकर्मण इत्याह - भेदाग्रहाच्चेति / बुद्धिसन्निधावकर्तरि च पुरुषे सति पुरुषकर्तृत्वादिप्रत्ययो बुद्धावुपजायमानो भ्रान्त इत्यर्थः / निष्क्रियेऽकर्तरीत्यर्थः / यथोक्तं विन्ध्यवासिना - पुरुषोऽविकृतात्मैव स्वनि समचेतनम् / मन: करोति सान्निध्यादुपाधिः स्फटिकं यथा // विविक्ते दुकपरिणतौ बुद्धौ भोगोऽस्य कल्प्यते / (पाठान्तर - कथ्यते) प्रतिबिम्बोदय: स्वच्छे यथा चन्द्रमसोऽम्भसि / / यथोपाधि: स्फटिकमतद्रूपं स्वनिर्भासं स्वाकारं करोत्येवमयं पुरुषोऽविकृतस्वरूपोऽचेतनं मनः स्वनिर्भासं चेतनमिव करोति सान्निध्यात् / बुद्धिकर्तृसन्निधावात्मन्यतथाभूतेऽपि बुद्धौ पुरुषकर्तृत्वाभिमानः, यथा जपाकुसुमादिसन्निधौ स्फटिकरक्तत्वाभिमानो न तु वास्तवं रक्तत्वं कर्तृत्वं वा स्फटिकात्मनोरिति प्रथमश्लोकार्थः / विविक्ते दृग्विषयाकारपरिणतेन्द्रियाकारा परिणतिः यस्याः सा तथोक्तायां तस्यां बुद्धौ सत्यामस्यात्मनो भोग: कथ्यते / किस्वरूपः प्रतिबिम्बोदयः ? न वास्तवः, यथा चन्द्रमस: [29A] प्रतिबिम्बोदयोऽकलुषात्मके अम्भसीत्युदाहरणम् / यथाहि चन्द्रमसी(स:) प्रतिविवंनमंभस्यैविवंनमभास्यैविव(प्रतिबिम्बमम्भस्येव बिम्बं नभस्येव, वि)शिष्टपरिणामोपरक्ताया बुद्धरात्मनीति / वास्तवे हि भोगे पुरुषस्य पूर्वस्वरूपनिवृत्तौ स्वरूपान्तरापत्तिविकारः स्यात् / तथा चाचेतनत्वाद्यनेकदूषणमिति द्वितीयश्लोकार्थः / ईश्वरकृष्णेनाप्युक्तम् -