SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ 29 * न्यायकुसुमाञ्जलिः स्तबकः 1 नैमित्तिकविधित्वात् पु(फ)लविधित्वा[द]दृष्टमनुमिमीमह इत्यर्थः / शेषं सुबोधम् / वादजल्पकथामाश्रित्य [27A] शक्तिवाद इति मन्वानः शक्तिनिषेधकप्रमाणं पृच्छति - अथेति / अत्र चाभावस्याकारणत्वनिराकृतिरेव तत्कारणत्वसिद्धिरिति मन्वान आह - व्युत्पादितं चैतदिति / वितण्डाकथामात्रनियमेन वाऽयं वादः प्रयोज्यः यद्बलेन भूतधर्मस्याभ्युपगमनीयतथा(या) प्रत्यवस्थितश्चार्वाकस्तबलविध्व(ध्वं)सेन निर्णयो मा भूत् त्वा(तवा)प्यात्मगत(त)धर्मसंसाधकबाधकप्रमाणमवश्यं स(सं)शयानः शङ्कते - तथापीति। तत्र प्रत्यात्मनियतभोगान्यथानुपपत्त्या प्रत्यात्मगतधर्मसिद्धिरिति वक्तुं प्रथमं तावत् तदस्वीकारे वा(बा)धमस्तीत्याशयवान् परिहरति - उच्यत इति / विशिष्टैरपीत्यभ्युपगमेन द्रष्टव्यं पुनराश[]क्य नीलादिसाधारण्यदर्शनेन परिहरति - न चेति / भूतधर्मस्यापि कस्यचिदसाधारण्यं दृष्टं तद्वददृष्टस्यापि भूतधर्मस्यासाधारण्यं भविष्यतीत्याशयेन शङ्कते - द्वित्वेति / यथा शरीरादयो नियतचेतनधर्मजनितत्वेनेनिम(त्वेनेति) चेतनोपारिणा(चेतनोपग्रहणा)स्तथा द्वित्वादिकं न त्वन्यथेति मनोरथेन परिहरति - नेति / न तस्यापीति / पुनः शङ्कते - तथापीति / बाधकमाह - कार्येति / कार्यकारणभावमेव प्रकटयति - शरीरेति / ननु यथा शरीरादीनां चेतनगुणबुद्ध्यादिसहितानां नियतभोगसंपादकत्वं दृष्टोपेतानामिति दर्शितं तथा प्रकृतेऽपि बुद्धयादिरेवास्तु, कृतमपूर्वेणेत्याशयेन शङ्कते - प्रकृतेऽपीति / न, शरीराद्युत्पत्तेः [प्राक्] बुद्ध्यादि न संभवत्यतस्तदतिरिक्तगुणसिद्धावात्मगत्य(ता)पूर्वासिद्धिरित्याशयेन परिहरति / अस्य प्रयोगः - देवदत्तादेः गुणोत्पादिताः शरीरादयो भोगाय कार्यत्वे सति तद्भोगसाधनत्वात् स्रगादिवत् [27B] इति / पूर्वमुक्तो द्रष्टव्यः / शरीरोत्पत्तेः प्राग् बुद्ध्याद्यसंभवेन तैः सिद्धासाधनमिति तात्पर्य[म् / ] चेतनगतधर्मवशेन भोगनिय[म]समर्थनेनाचेतनधर्मनियामकत्वमयुक्तमित्यतिदेशेन निषेधति / 29. एवं हि तत्, अकारणमकार्यः कूटस्थचैतन्यस्वरूपः पुरुषः / आदिकारणं प्रकृतिरचेतना परिणामिनी, ततो महदादिसर्गः / न हि चितिरेव विषयबन्धनस्वभावा, अनिर्मोक्षप्रसङ्गात् / नापि प्रकृतिरेव तदीयस्वभावा, तस्या अपि नित्यत्वेनानिर्मोक्षप्रसङ्गात् / नापि घटादिरेवाहत्य तदीयाः, दृष्टादृष्टत्वानुपपत्तेः / नापीन्द्रियमात्रप्रणालिकया, व्यासङ्गायोगात् / नापीन्द्रियमनोद्वारा, स्वप्नदशायां वराहव्याघ्राद्यभिमानिनो नरस्यापि नरत्वेनात्मोपधानायोगात् / नाप्यहङ्कारपर्यन्तव्यापारेण, सुषुप्त्यवस्थायां तद्व्यापारविरमेऽपि श्वासप्रयत्नसन्तानावस्थानात् / तद् यदेतास्ववस्थासु संव्यापारमेकमनुवर्तते, यदाश्रया चानुभववासना, तदन्तःकरणमुपारूढोऽर्थः पुरुषस्योपधानीभवति / भेदाग्रहाच्च निष्क्रियेऽपि तस्मिन् पुरुषे कर्तृत्वाभिमानस्तस्मिन्नचेतनेऽपि चेतनाभिमानः / तत्रैव कर्मवासना / पुरुषस्तु सर्वथा पुष्करपलाशवन्निर्लेपः / 29. नन्वे[व]मेतन्मतमिति कथमवगतमित्यतस्तन्मतं सम्यक् बोद्धव्यमिति शिष्यानुकम्पया तन्मतमुपन्यस्यति - एवं हि तदिति / बुद्ध्यादीनां चेतनाश्रयत्वं न तावत् संयोगेन, असम्भवात्; नापि समवायेन अनयोः समवाय इति वदात्मनि बुद्धिरित्यपि न, तमन्तरेण सिद्धेः; नाध्यक्षमनुमानं वा तत्सत्त्वे प्रमाणमस्ति, तस्मात् तादात्म्यस्वीकारे तत्कार्यतया तस्यापि परिणामिस्वभावत्वेनानिर्मोक्षप्रसक्तेरित्याशयवानाह - अकारणमिति / अत एवाकार्योऽपि तयोस्तादात्म्याभ्युपगमादित्यभिप्रायः / ननु बुद्ध्याद्यकारणत्वे तस्य तत्स्वभावे न प्रमाणमस्तीत्यत आह - कूटस्थचैतन्येन रूप्यते निरूप्यते / बुद्धिग[त]चैतन्याभिमानान्यथानुपपत्त्या [तत्] स्वभावचे(श्चे)तन: कल्प्यत इत्याशयः / ननु तस्याकारणत्वेन कथं सर्ग इति हृदि निधाय स्वपक्षे कारणतद्धर्मतत्कर्मान् प्रतिपादयति - आदीति / ननु किमर्थं महदादिसर्गोऽभ्युपगन्तव्या(यः) नित्यचैतन्यमेव विषयप्रकाशस्वरूपमस्त्विति अत आह
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy