________________ 28 * वामध्वजकृता सङ्केतटीका निमित्ततो विधानाद् विजयफलश्रुतेश्च / अविशुद्धि चापेक्ष्याधर्मः / पराजयलक्षणानपेक्षितफलोपदर्शनेन फलतो निषेधात् / ___अथ शक्तिनिषेधे किं प्रमाणम् / न किञ्चित् / तत् किमस्त्येव ? बाढम् / न हि नो दर्शने शक्तिपदार्थ एव नास्ति / कोऽसौ तर्हि ? कारणत्वम् / किं तत् ? पूर्वकालनियतजातीयत्वम्, सहकारिवैकल्यप्रयुक्तकार्याभाववत्त्वं वेति / ततोऽधिकनिषेधे का वार्ता ? न काचित् / तत् किं विधिरेव ? सोऽपि नास्ति प्रमाणाभावात् / संदेहस्तर्हि ? कथमेवं भविष्यति, अनुपलब्धचरत्वात् / विवादस्तर्हि ? कुत्र ? अनुग्राहकत्वसाम्यात् सहकारिष्वपि शक्तिपदप्रयोगात् / सहकारिभेदे तत्रापि दहनादेरनुग्राहकोऽस्त्येव, यः प्रतिबन्धकैरपनीयत इति यदि, तदा न विवदामहे / अस्मदभिप्रेतस्य चाभावादेरनुग्राहकत्वमङ्गीकृत्य निःसाधना मीमांसका अपि न विप्रतिपत्तुमर्हन्ति / ततोऽभावादिरनुग्राहक इत्येके, नेत्यपरे, इति विवादकाष्ठायां व्युत्पादितं चैतस्यानुग्राहकत्वम् / किमपरमवशिष्यते यत्र प्रमाणमभिधानीयमित्यलमतिविस्तरेण / तथापि चेतन एवायं संस्क्रियते, न भूतानीति कुतो निर्णय इति चेत्, उच्यते / भोक्तृणां नित्यविभूनां सर्वदेहप्राप्तावविशिष्टायां विशिष्टैरपि भूतैर्नियामकाभावात् प्रतिनियतभोगासिद्धेः / न हि तच्छरीरं तन्मनस्तानीन्द्रियाणि विशिष्टान्यपि तस्यैवेति नियमः / नियामकाभावात् / तथा च साधारणविग्रहवत्त्वप्रसङ्गः / न च भूतधर्म एव कश्चिच्चेतनं प्रत्यसाधारणः / विपर्ययदर्शनात् / द्वित्वादिवदिति चेत्, न, तस्यापि शरीरादितुल्यतया पक्षत्वात् / नियतचेतनगुणोपग्रहेणैव तस्यापि नियमः, न तु तज्जन्यतामात्रेण, स्वयमविशेषात् / तथापि तज्जन्यतयैव नियमोपपत्तौ विपक्षे बाधकं किमिति चेत्, कार्यकारणभावभङ्गप्रसङ्गः। शरीरादीनां चेतनधर्मोपग्रहेणैव तद्धर्मजननोपलब्धेः / तद् यथा, इच्छोपग्रहेण प्रयत्नो ज्ञानोपग्रहेणेच्छादयः, तदुपग्रहेण सुखादय इत्यादि / प्रकृतेऽपि चेतनगता एव बुद्ध्यादयो नियामकाः स्युरिति चेत्, न / शरीरादेः प्राक् तेषामसत्त्वात् / तथा च निरतिशयाश्चेतनाः साधारणानि भूतानीति न भुक्तिनियम उपपद्यते // 13 // एतेन साङ्ख्यमतमपास्तम् / 28. पूर्वप्समाधि(धि) स्मारयित्वा श्लोकं व्याचष्टे - यद्यपीति / ननु च लोकपालार्थनो(लार्चना)धिवासतादिकर्मणां सहभावाभावा[त्] सहकारित्वं नोपपद्यत इत्यत आह - तथेति / कर्मणामविद्यमानत्वेऽपि तद्विषयं ज्ञानं विद्यमानं सहकारि इत्यर्थः / पुरुष आत्मेत्यर्थः / पराभिप्रायोन्मूलनाय प्रकारान्तरमाश्रित्य समाधत्ते - अथवेति / तेन तुलारोहणविधिनेत्यर्थः / ननु किमत्र प्रमाणं तेन धर्मो जन्यते / न हीदृशं विधिवाक्यमस्ति यद्विशुद्धस्य तुलारोहणे धर्मो भवतीत्यत आह - निमित्तत इति / यद्यपि साक्षाद् विधिवाक्यं नास्ति तथापि [मिथ्याभि]शस्ततानिमित्तकस्तुलारोहणविधिः प्रत(ती)यते / विशुद्धे च विजयफलश्रुतिरस्तीत्यतोऽवसीयते / परीक्ष(क्ष्य)स्याभिसंधिशुद्धिमपेक्ष्य तया सामग्र्या धर्मो जन्यते / ज(य)त्र तु मि(नि)त्यविधिर्नैमित्तिकविधिर्वा तत्र प्राभाकरविप्रतिपत्त्या मा भूत् व्याप्तिय(2)था 'यावज्जीवमग्निहोत्रं जुहुयात्' 'न कलशं भक्षयेत्' इत्यादौ / नैमित्तिकेषु पुनरवश्यमपूर्वमिति / परविप्रतिपत्त्या व्याप्तेरिहापि वदन्नो तरणकामस्तुलामारोहणती(रोहेदि)ति