SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ 27 * न्यायकुसुमाञ्जलिः स्तबकः 1 तु पूर्वपूर्वपूजितप्रत्यभिज्ञानविषयस्य प्रतिष्ठितप्रत्यभिज्ञानविषयस्य च तथात्वमवसेयम् / एतेनाभिमन्त्रितपयःपल्लवादयो व्याख्याताः // 12 // घटादिषु का वार्ता ? कुशलैवेति चेत्, न / न हि सामग्री दृष्टं विघटयति, नाप्यदृष्टम्, ज्ञापकत्वात्, नाप्यदृष्टमुत्पादयति, धर्मजनने सर्वदा विजयप्रसङ्गात् / विपर्यये सर्वदा भङ्गप्रसङ्गात् / अत्रोच्यते - जयेतरनिमित्तस्य वृत्तिलाभाय केवलम् / परीक्ष्यसमवेतस्य परीक्षाविधयो मताः // 13 // 27. पूर्वोत्तरार्थाभ्यां पूर्वोत्तरशङ्कामपनयति - निमित्तेति / देवता(ताः) सन्निधानेनाराधनीयता[25B]मासादय[न्ति]......वशात् / मतान्तराभिप्रायेणोक्तम् - प्रत्यभिज्ञानत इति / पूर्वार्धं व्याख्याय उत्तरार्धं व्याख्यातुमारभ्यते - [प्रतिमा] दयस्त्विति / ननु [देवतानां] त(ता)सां किं देहसन्निधिरात्मसन्निधिर्वा ? नाद्यः लोकान्तरवर्तित्वेन देवतानां देहसन्निधानस्याशक्यत्वात्, परमदेवतायास्तदसंभवाच्च / न द्वितीयः, आत्मसन्निधिः सर्वदा सर्वत्र सत्वेन (सत्त्वेन) प्रतिष्ठा[विधि]ना असाध्यत्वात् / देवतानां ज्ञाननिमा(1)णमेव सन्निधिरिति / चेतननित्यज्ञानवदे(द्दे)वतापक्षे ज्ञानसन्निधिः सर्वत्र सत्त्वेन तदसाध्यता / अनित्यज्ञानदेवतापक्षे अव्यवहितगोचरज्ञानस्यात्मधात्वादिचेतनसन्निधानं देवतानाम अनित्यज्ञानवती संगा(ज्ञा) चेत्यर्थः / नित्यज्ञानवतश्च तत्तदवच्छेदकसंपत्तिवशेन तदवच्छिन्नज्ञानं सन्निधानमिति मन्तव्यम् / अभिमन्त्रितपयःपल्लवादेविषाद्यपनयान्यथानुपपत्त्याऽतीन्द्रियसंस्कारसिद्धिरस्त्विति कश्चित्, तत्राह - एतेनेति / अत्रापि गरुडाद्यभिमानिदेवतासन्निधिवशेन विषविगमोपपत्तेरित्यभिप्रायः / एतेनैतदपि निरस्तं यदुक्तं महाव्रतेन - मृदमपि विषं कश्चिद् मन्त्रः करोति नियोजितः / __ सृजति तदासौ काञ्चिच्छक्तिं मृदोऽतिविमोहनीम् / / अत्रापि विषोल्बणनागसन्निधिवशेन मृदाद्यपि विषायते इति एतावति सुखे कुतस्तत्सर्वथाऽतीन्द्रियः धर्मस्वीकारः / तदेवमुक्तप्रकारेण निवारिताभिमान: पुन: काशकुशावलम्बनमातिष्ठमानो विषयान्तरप्रदर्शनेन कदाचिच्छक्तिर्भविष्यतीति मन्वानः शङ्कते - घटादिष्विति / पूर्वोक्ताभिप्रायेण परिहरति - कुशलेति / परिहारं परिहरति - नेति / उपपादयति - न हीति / नाप्यदृष्टं विघटयतीत्यनुषङ्गेन समन्वयः / सुगममन्यत् / तस्माद् यथाभूतार्थपरिच्छेदिका शक्तिस्तुलादिष्वाधीयते विधिना, तेन यस्य विशुद्धत्वं तस्य तेन रूपेण परिच्छेदः क्रियतेऽविशुद्धस्य चाविशुद्धत्वेनेति पूर्वपक्षणै(क्षिणः) अभिमानः / अत्र च पूर्वोक्तप्रकारसंभवेऽपि प्रकारान्तरमाश्रित्य समाधिमुपक्रमते - [26B] जयेति / जयभङ्गनिमित्तस्य परीक्षणीयपुरुषसमवेतस्यादृष्टस्य वृत्तिरभिव्यक्तिः कार्य[ज]ननाभिमुख्यम्, तल्लाभाय केवलमित्येवकारार्थः / 28. यद्यपि धर्माद्यभिमानिदेवतासन्निधिरत्रापि क्रियते, ताश्च कर्मविभवानुरूपं लिङ्गमभिव्यञ्जयन्तीत्यस्माकं सिद्धान्तः, तथापि परविप्रतिपत्तेरन्यथोच्यते / तेनापि हि विधिना तदेव जयस्य पराजयस्य वा निमित्तमभिव्यक्तं कार्यमुन्मीलयति / कर्मणश्चाभिव्यक्तिः सहकारिलाभ एव / तच्च सहकारि सोऽहमनेन विधिना तुलामधिरूढो योऽहं पापकारी निष्पापो वेति प्रत्यभिज्ञानम् / यदाहुः - "तांस्तु देवा: प्रपश्यन्ति स्वश्चैवान्तरपूरुषः' इति / अथवा प्रतिज्ञानुरूपां विशुद्धिमपेक्ष्य तेन धर्मो जन्यते
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy