SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ 26 * वामध्वजकृता सङ्केत्तटीका किञ्च, क्षीरमिश्रत्रिफलावसिक्तापराजितालताभेदस्य कथं तद्विशेषानादधाने वनदेवताहासप्रकाशकमनीयकुसुमार्जनं ललितं चालिनीलमलिनकान्तिमत्कुसुमनिर्माणम् ? तदिदमसार(रं) मलिनाविशेषाभिधानमानिना जल्पितम् - न तावत् कुसुमारुणिमानं प्रति शक्तिरुपादानकारणमवयविन एवोपादानरूपत्वात् / [25A] नाप्यसमवायिकारण(णं) कार्याश्रयस्य रूपादेः कारणगुणपूर्वकतानियमात् / अन्यथा परमाण्वादावपि रूपाद्यसिद्धिप्रसङ्गात् / निमित्तं तु स्यात् / अत्र च कि(किं) कारणं(ण)विशेषार्जिता शक्तिरूप(रुप)वयं(मे)ता(ते) मुत(उत) तज्जनितरूपादिर्वेति संशये कृप्त(दृष्ट)त्वाद् रूपादिरिति युज्यते / यदि च लाक्षारसावसेकजन्मविशेषस्तत्रासमवायिकारणं स्यात् स्यादप्यस्य महाव्रतप्रलापस्यावकाशः / तस्माद् यथा प्रत्यब्दं नीलधवलादिनानाविधप्रसूनोपचयो निर्गच्छदन्तवर्तिभाग एव विटपिनां तथात्रापीति / किन्तु चिरान्तरितान्वयव्यतिरेकिद्रव्यविशेषावसेककारणतानिहाय द्वारमात्रमुपवर्णनीयम् न तु शक्तिरिति हृदि निधाय सिद्धान्तसारमाह - तथा चेति / आदिपदेन क्षीरमिश्रत्रिफलाजलसेको मन्तव्यः / अबीजादीनां परमाण्वन्तविभागेऽवान्तरजातेरभावाच्छाल्यादिजातीयकार्यानुपपत्त्या शक्तिकल्पनमित्यपि नादृष्टद्वारेणैवोपपत्तेरित्याह - अत एवेति / आद्यातिशयो बीजस्योच्छूनत्वमन्त्यातिशय उच्छूनतरतमत्वादीति / ननु सकलकार्योपसंहारात्मकत्वात् प्रलयस्य कल्पादौ पात(क)ज्ज(ज)स्यापि विशेषस्याभावात् कथं विचित्रकार्योत्पत्तिरिति शङ्कामपनेतुमाह - कल्पादाविति / कार्यसामर्थो(ो)न्नीतस्वभावस्य पाकजविशेषस्यादृष्टसंस्कारादिवत् प्रलयेऽप्यविनाश इति भावः / नन्वेवमविशेषे कथं कल्पादौ बीजादिसमवधानं कृषीवलादीनामभावादित्यत आह - तदानीमिति / तदानीन्तनव्यवहारविशेषमविशेषमाशङ्कानिष्टप्रदर्शनेन व्य[व] स्थापयति - न चेति / अव्यवस्थाभयाच्च भोगानियमप्रसङ्गमाह - न चेति / ननु तथापि हारीतमांसं हरिद्राजलावसिक्तं हरिद्रानलप्लुष्टमुपयोगात् सद्यो व्यापादयतीत्युभयसिद्धम् / तत्र यदि हरिद्राजलावसेकादिभिर्न कश्चिदतिशयो जन्यते कथं तर्हि पूर्वरूपाविशेषाद् व्यापादयेत् / न च वाच्यं दृष्टेनैव पाकजभेदेनोपपत्तावदृष्टकल्पनाया अनुपपत्तिरिति तस्य लाक्षानलसंसाधितस्य व्यापादनेनानैकान्तादिति महाव्रतः / तत्राह- निमित्तभेदाश्चेति / न वयं पाकजभेदमात्रं ब्रूमः किन्तु निमित्तभेदेनासादितमिति मन्वानो निमित्तभेदमाह - तद् यथेति / ननु यत्र पाकजाविशेषस्तत्र मा भूदतिशयः यत्र तु नासौ तत्रातिशयस्वीकारः स्यादिति मन्यमानः शङ्कते - यत्र तीति / पाकजवन्त्य(वत्य)वान्तरविशेषपुरस्कारेण शङ्का - कथं वेति / अत्रापि पुरुषसंस्कारगुणविशेषो भविष्यतित्य(तीत्या)शङ्क्यानिम(मि)त्त(त्ता)नामदृष्टविशेषवशात् तद्विषयप्रतिष्ठादिना तद्विषयज्ञानोत्पाद(नं) पुरुष[26A]वाचकोच्चारणेने(नै)व वाच्यपुरुषस्य स्वविषयविज्ञानवत् / 27. अनोच्यते - निमित्तभेदसंसर्गाद् उद्भवानुद्भवादयः / देवताः सन्निधानेन प्रत्यभिज्ञानतोऽपि वा // 12 // उपनायकादृष्टविशेषसहाया हि परमाणवो द्रव्यविशेषमारभन्ते / तेषां विशेषादुद्भवविशेषाः प्रादुर्भवन्ति / यथा स्वभावद्रवा अप्यापो निमित्तभेदप्रतिबद्धद्रवत्वाः कठिनं करकाद्यमारभन्त इत्यादि स्वयमूहनीयम् / प्रतिमाऽऽयस्तु तेन तेन विधिना सन्निधापितरुद्रोपेन्द्रमहेन्द्राद्यभिमानिदेवताभेदास्तत्र तत्राऽऽराधनीयतामासादयन्ति, आशीविषदष्टमूर्छितं राजशरीरमिव विषापनयनविधिनाऽऽपादितचैतन्यम् / सन्निधानं च तत्र तेषामहङ्कारममकारौ, चित्रादाविव स्वसादृश्यदर्शिनो राज्ञ इति नो दर्शनम् / अन्येषां
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy