________________ 25 * न्यायकुसुमाञ्जलिः स्तबकः 1 पाकजा एव परमाणवो तथाभूतैरेव आद्यातिशयोऽन्त्यातिशयोऽङ्करादिर्वेति किमत्र शक्तिकल्पनया ? कल्पादावप्येवमेव / इदानीं बीजादिसन्निविष्टानामस्मदादिभिरुपसम्पादनं तदानीं तु विभक्तानामदृष्टादेव केवलाद् मिथः संसर्ग इति विशेषः / न च वाच्यमिदानीमपि तथैव किं न स्यात् ? यतः कृष्यादिकर्मोच्छेदे तत्साध्यानां भोगानामुच्छेदप्रसङ्गात् / अव्यवस्थाभयाच्च अदृष्टानि कर्माणि दृष्टकर्मव्यवस्थयैव भोगसाधनानीत्युन्नीयते / तस्मात् पाकजविशेषैः संस्थानविशेषैश्च विशिष्टाः परमाणवः कार्यविशेषमारभन्ते / ते च तेजोऽनिलतोयसंसर्गविशेषः, ते च क्रियया, सा च नोदनाभिघातगुरुत्ववेगद्रवत्वादृष्टवदात्मसंयोगेभ्यो यथायथमिति न किञ्चिदनुपपन्नम् / निमित्तभेदाश्च पाके भवन्ति / तद् यथा हारीतमांसं हरिद्राजलावसिक्तं हरिद्राग्निप्लुष्टमुपयोगात् सद्यो व्यापादयति, दशरात्रोषितं कांस्ये घृतं चापि विषायते, ताम्रपात्रे पर्युषितं क्षीरमपि तिक्तायते इत्यादि // 11 // यत्र तर्हि तोये तेजसि वायौ वा पाकजो विशेषस्तत्र कथमुद्भवानुद्भवद्रवत्वकठिनत्वादयो विशेषाः ? कथं वा पार्थिवे प्रतिमादौ प्रतिष्ठाऽऽदिना संस्कृतेऽपि विशेषाभावात् पूजनादिना धर्मः, व्यतिक्रमे त्वधर्मोऽप्रतिष्ठिते तु न किञ्चित् ? न च तत्र यजमानधर्मेणान्यस्य साहायकमाचरणीयम् / अन्यधर्मस्यान्यं प्रत्यनुपयोगात्, उपयोगे वा साधारण्यप्रसङ्गात् / 26. अभिमतमर्थमुक्त्वाऽप्यनैकान्तिकत्वं स्फुटयति - नन्विति / पुढेष्टीति / "वैश्वानरं द्वादशकपालं [चरुं] निर्वपेत् पुढे जाते' [तै० सं० 2.2.5.3] इति पुत्रजनननिमित्तको यागः, यस्यायमर्थवादः "यस्मिन् जाते एतामिष्टिं निर्वपति पूत एव स तेजस्वी अन्नादः [24B] इन्द्रियाधी(धि)[पः] पशुमान् भवति" [तै०सं० 2.2.5.3] इति पितृयज्ञपितृश्राद्धादि / नन्वेवं तर्हि यागदृष्टान्तेन कृष्यादावप्यपूर्वनिर्माणमस्तु कृतमन्यथात्वेनेति शङ्कते - कृषीति। प्रोक्षणादिवद् विशिष्टादृष्टनिर्माणकारणत्वेनैवानागतकार्यपर्याप्ते किं न स्यातामित्यर्थः / नात्रादृष्टकल्पनं दृष्टेनैव प्रकारेण संभवात् / संभ[वे]ऽप्यदृष्टकल्पनं भोजनादिविधावप्यदृष्टकल्पनमनिवार्यमित्याशयवान् परिहरति - नेति / ननु च लाक्षारसावसिक्तबीजपूरबीजतरुकुसुमारुणिमा अनुपपद्यमान(ना) शक्तिमाक्षिपति / न चैष लाक्षारसावसेकोपार्जितबीजाधिष्ठानपाकजाव(जवि)शेषादुदेतुमर्हति / फलकाण्डादावपि प्रसङ्गात् / किञ्च, अयमपि विशेषो न तावत् प्रचुरतरमरुणिमानमाधातुं क्षमः, यथाह महाव्रतः - कुसुमे बीजपूरादेर्यल्लाक्षाद्युपसेचने / शक्तिराधीयते तेन कारिता किं न पश्यसि / / न भिनत्ति कयापि मात्रया फलबीजाङ्करकान्] उपलब्धवान् / यदयं निहितो रसस्त्वया तदनुपपन्नमिवावभासते / / अपि च - किं वा सिञ्चसि बीजपूरकुसुमे लाक्षारसं तत्क्षणादेवासौ गलितो[ऽय]मिच्छति कथं पुष्पेषु दूरान्तरः / किं वाऽन्यत् क्रियतेऽपि चास्य किमसौ संभाव्यते विस्तरः प्रत्यब्दं भवति द्रुमोऽयमरुणछत्रं वसन्तश्रियः / /