Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 36 * वामध्वजकृता सङ्केत्तटीका सिद्धमशक्यापह्नवमिति / अस्तु [34A] तर्हि व्यापकनिवृत्तेविपर्ययो यद्यदा यन्न करोति न तत् तदा तत्र समर्थम्, यथा शिलाशकलमङ्करे, न करोति च वर्तमानक्रियाकरणसमयेऽतीतानागतलक्षणामर्थक्रियामिति व्यापकानुपलब्धिः / भिन्नस्तु समर्थक्षणादसमर्थः क्षण इति / न च वाच्यं शक्तस्यापि सहकारिलाभालाभाभ्यां करणाकरणयोरुपपत्तेः, संदिग्धव्यतिरेकिणौ प्रसङ्गविपर्ययहेतु(तू), सत्त्वस्योपकारकानुपकारकसहकार्यपेक्षानुपपत्तेः / उपकारकापेक्षायामनवस्थानादनुपकारकापेक्षायामतिप्रसङ्गादिति निरन्तरग(त्व)मित्याशयवतोक्तम् - अस्तु तीति / यथाह ज्ञानश्री: - यत् सत् तत् क्षणिकं यथा जलधरः सन्तश्च भावा इमे सत्ता शक्तिरिहार्थकर्मणि मितेः सिद्धेषु सिद्धा च(न) सा / नाप्येकैव विधान्यदापि परकृन्नैव क्रिया वा भवेद् द्वेधापि क्षणभङ्गसङ्गतिरतः साध्ये च विश्राम्यति // [क्षणभङ्गाध्यायः] एवं च सप्रमाणके क्षणभङ्गदशिते यः कश्चिदाशङ्कते - ननु यदि क्षणभङ्गपक्षे भावादर्थान्तरस्यातिशय: स्यात् तदा भावस्याकारकत्वप्रसङ्गः, अनतिरिक्तस्य तूत्पादेऽसा(स)मर्थाद् बीजात् समर्थस्य वैलक्षण्येन निश्चय: स्यादिति / तं प्रत्याह - न चेति / समर्थस्वभावादिति शेषः / किमिति [भ]वद्भि[:] न पूर्वबीजवैलक्षण्येनानुभूयते उत्तरबीजमित्यत आह - किन्त्विति / भिन्नस्वरूपमपि सादृश्यवशात् न तथात्वेनानुभूयते प्रदीपादिवदित्यर्थः / अत एव न प्रत्यभिज्ञानबाधाऽपि / द्रागेवेत्यापातत इत्यर्थः / न विकल्प्यते न निश्चीयते / तत् किमनिश्चय एवातिशयो निश्चीयमानो वा? [अथ निश्चीयमानः] कथं निश्चय इत्यत आह - कार्येति / उक्तप्रकारेण [34B] सहकार्यपेक्षानुपपत्तेः पूर्वापरकालयोः कार्यदर्शनादर्शनाभ्यामतिशयोऽवसीयत इति / प्रमाणमनुमानमुक्तमिति द्रष्टव्यम् / न चातिशयितबीजजनककारणानुपलब्धेरतिशयितबीजाभाव इति वाच्यम् / दृश्यादृश्यसमुदायस्यानुपलम्भेऽप्यभावानिर्णयात् / तथा चोक्तं परैः - पाणिस्पर्शवतः क्षणस्य न भिदा भिन्नान्यकार(य)क्षणाद् भेदो वेति मतद्वयेने(न) ति(वि)कल(लो) यस्यास्त्यसौ जित्वरः / तत्रैकस्य बलं निमित्तविगमानो(मात्त)त्कार्यमन्यस्य वै सामग्री तु न सर्वथा क्षणसहाकार्य(या)नुगत्य(त्या)तते / अन्त्यातिशयवदिति सामग्रीवदित्यर्थः / यथा कार्यैकसमधिगम्या सामग्री नाऽनुपलम्भेन शक्या निराकर्तुम् तथाऽतिशयोऽपि कार्यैकसमधिगम्यो नानुपलम्भेन शक्योऽपाकर्तुमित्यर्थः / परं च भोगप्रतिसन्धाननियम उपपद्यत इत्यत आह - तथा चेति / कार्यातिरिक्तोपकारमकुर्वाणस्य सहकुर्वत: सहकारिणोऽपेक्षोभयसिद्धेति / तथाभूतसहकारिसं[नि] ध्यसन्निधिभ्यांमप(भ्याम)क्षणिकस्यैव क्रमयोगपद्याभ्यां सर्वक्रियाकरणाकरणयोरुपपत्तेापकानुपलब्धेरसिद्धर्व्यतिरेकव्याप्त्यसिद्धौ प्रसङ्गतद्विपर्य[य]योश्च सहकार्यपेक्षासमर्थनेन संदिग्धव्यतिरेकित्वादन्वयमनोरथस्याप्यसिद्धेः सत्त्वमप्रतीतव्याप्तिकतया न क्षणिकत्वधियमाधातुमुत्सहत इत्याद्यन्यत्र विस्तरेणोक्तमित्यभिप्राये(य)वान् ज्ञना(ज्ञान)कामा[ना] स्वा(श्वा)स्योत्तरयति - क्षणिकत्वेति / 34. अपि च - न वैजात्यं विना तत् स्यान्न तस्मिन्ननुमा भवेत् / विना तेन न तत्सिद्धिर्नाध्यक्षं निश्चयं विना // 16 //
Loading... Page Navigation 1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210