Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 35 * न्यायकुसुमाञ्जलिः स्तबकः 1 तथा च प्रतीति: 'शरीरं चेतनावत्, गौरोऽहं जानामि, कृशोऽहं दुःखी, स्थूलोऽहं सुखी' इत्यादि शरीरसामानाधिकरण्यप्रतीतिरेव शरीराधारां चेतनामुपदर्शयतीत्यर्थः / ननु यद्यनुभवितृ कर्तृ च शरीरं तर्हि तस्मिन् नष्टे कथमन्यस्यानुसंधातृत्व(त्वे) भोक्तृत्वे चातिप्रसङ्गो दुर्वार इत्यत आह - कर्मज्ञानेति / कर्मज्ञानाभ्यामुपजनिते वासनेऽदृष्टसंस्कारौ / तस्मान्नातिप्रसङ्ग इत्यर्थः / भोगप्रतिनियमो यत्कायसन्ताने [कर्म तत्कायसन्ताने] भोगः सुखदुःखसाक्षात्कारो नान्यत्रेत्येवमाकारः / प्रतिसन्धानप्रतिनियमोऽपि यत्कायसन्ताने संस्कारस्तत्कायसन्ताने स्मृतिर्नान्यत्रेत्येवमाकारः / यत् शरीरान्वयव्यतिरेकानुविधायि तत् शरीरकारणकमिति नियमो न तु शरीराश्रितमेव शरीरहेतुकं घटपटादिभिर्व्यभिचारात् / शरीरस्थूलगौरादिसामानाधिकरण्यं तु बाधकवशेन भ्रान्तमित्याशयवान् समाधत्ते - उच्यत इति / नान्येत्यादि सुदृढप्रमाणावधृतमुभयसिद्धं चेत्यभिप्रायः / न चैकं भूतमपक्रमाद् विनश्वरत्वात् / न च वासनासङ्क्रमो अन्यवासना[ना]मन्यत्रासङ्क्रमनियमात्, सङ्क्रमे वाऽतिप्रसङ्गादित्यर्थः / न चोपादानधर्म उपादेये सङ्क्रामति / पूर्वशरीरस्योत्तरशरीरं प्रति अनुपादानत्वात् तथा च न भोगादिनियम इति रहस्यम् / 33. न हि भूतानां समुदायपर्यवसितं चैतन्यम् / प्रतिदिनं तस्यान्यत्वे पूर्वपूर्वदिवसानुभूतस्यास्मरणप्रसङ्गात् / नापि प्रत्येकपर्यवसितं करचरणाद्यवयवापाये तदनुभूतस्य स्मरणायोगात् / नापि मृगमदवासनेव वस्त्रादिषु संसर्गादन्यवासनाऽन्यत्र संक्रामति, मात्रानुभूतस्य गर्भस्थेन भ्रूणेन स्मरणप्रसङ्गात् / न चोपादानोपादेयभावनियमो गतिः / स्थिरपक्षे परमाणूनां तदभावात् / खण्डावयविनं प्रति च विच्छिन्नानामनुपादानत्वात् / पूर्वसिद्धस्य चावयविनो विनाशात् // 15 // अस्तु तर्हि क्षणभङ्गः / न चातिशयोऽप्यतिरिच्यते किन्तु सादृश्यतिरस्कृतत्वाद् द्रागेव न विकल्प्यते, कार्यदर्शनादध्यवसीयते अन्त्यातिशयवत् / तथा च भूतान्येव तथा तथोत्पद्यन्ते यथा यथा प्रतिसन्धाननियमादयोऽप्युपपद्यन्ते / क्षणिकत्वसिद्धावेवमेतत्, तदेव त्वन्यत्र विस्तरेण प्रतिषिद्धम् / 33. एतदेव विवृणोति - न हीति / एतद्बाधकवशेन शरीर(रे) चैतन्यासंभवेऽचेतनत्वभूतत्वमूर्तत्वभूतस्वरूपादिमत्त्वे यो मृतदेहघटादिदृष्टान्तो पेवेभ्युसिद्धं (नैवोभयसिद्धः) वेदितव्यम्(व्यः) / ननु यदि स्थिरपक्षे न संभवत्युपादानोपादेयभावः] पूर्वोत्तरयोः शरीरयोस्तर्हि [33B] क्षणिकपक्षे संभविष्यत्यन्यथा स्थिर इत्यसङ्गतमित्यभिप्रायवानाह - अस्तु तीति / ननु क्षणिकत्वे न तावदध्यक्षं प्रमाणं येन क्षणिकत्वात् का[रणं कार्यं] कूरात(कुर्यात्) / नीलमेतदितिवत् क्षणिकमेतदिति निश्चयविरहात् / नीलादिनिश्चयस्य च क्षणिकसाधारणत्वादन्यथा विर[हा]ऽविनिवृत्तिः, ज्ञानचा(धा)तुमारा(भावा)त् क्षणिकत्वसिद्धिः / तस्य प्रत्यक्षेण क्वचिदसिद्धौ व्याप्त्यसिद्धेः, असिद्धव्याप्तिकस्य लिङ्गत्वानुपपत्तेः / न च मानान्तरमभ्युपगम्यते परैर्यतः क्षणिकत्वं निश्चीयेत / न च प्रामाणिकं शंधा(शङ्का)मुपगन्तुम् / न च तेन प्रमाणव्यवहारः शक्योपादानस्तत्कथमुक्तम् 'अस्तु तर्हि क्षणभङ्गः' इति / उच्यते - विपक्षे क्रमयोगपद्यव्यावृत्तिरूपेण व्यापकानुपलम्भेनाधिगन्तव्य[:] व्यतिरेकव्याप्तिकस्य प्रसङ्गतद्विपर्ययाभ्यां गृहीतान्वयव्याप्तेः सत्त्वस्य सत्त्वात् / प्रयोगस्तु - यत् सत् तत् क्षणिकम्, यथा घटः, संश्चामी [भावाः] / सत्त्वशब्देनार्थक्रियाकारित्वमभिमतं बौद्धस्य / तथोभयवादिसिद्धप्रमाणप्रमितेषु सिद्धम्। प्रसङ्गस्तु यद्ययं वर्तमानकालभाविकार्यकरणकालेऽतीतानागतकालभाविनीमप्यर्थक्रियां प्रति शक्तः स एवानुवर्तमानोऽनुवर्तिष्यमाणश्च ततः सदैव कुर्यात् सामग्रीवदिति / अथ तस्मिन् काले अजनकत्वम्, तस्य प्रत्यक्ष
Loading... Page Navigation 1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210