Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 23
________________ 8 * वामध्वजकृता सङ्केत्तटीका कालसंसर्गित्वमनियतकालसंसर्गित्वं च घटाद्याकाशादीनां च..... / अथवा पटस्य तन्तुदेशनियमे न तावत् तन्तूनां जनकत्वं प्रयोजकत्वम् / सत्यपि जनकत्वे वेमादीनां पटदेशत्वाभावाद... स्तथा कालनियमोऽप्यहेतुकः स्यादिति पूर्वोक्तार्थप्रदर्शनव्याजेन निराकरोति - नेति / अत्रापि कादाचित्कत्वानुपपत्तिप्रसङ्गविघटितप्रतिपक्षशङ्का / प्रत्यक्षधियमा... कालसम्बन्धित्व(त्वं) कादाचित्कत्वम् / तत्त्व[नु]त्पन्नत्व(त्वे) निरवधित्वेऽपि गगनादिवद् भविष्यतीत्यत आह - न हीति / लोकव्यवहारसिद्धमिति शेषः / न हि गगनसमानतया घटादिकमवलो[कनीयं] किन्तु तद्वैलक्षण्येनेत्युभयसम्मतमित्यर्थः / ननु सावधित्वेन(ना)पि न हेतुमत्त्वस्वीकारोऽपर्यायत्वादनयोरित्यत आह - सावधित्वे त्विति / सावधित्वे पुनरभ्युपगम्यमाने हेतुमत्त्वमेव स्वीकृतं भवति / तस्यैव हेतुपदवाच्यतेन(त्वेन) लोकप्रसिद्धत्वादित्याह - स एव प्राच्यो हेतुरित्युच्यते लोकेनेति [10A] शेषः / न तूक्तनिर्वचनवशेन भावावधित्वमवगम्यते, किन्तु प्रागभावावधित्वमन्यथा साध्यसाधनत्वक्षतिप्रसङ्ग इति मन्यमानः शङ्कते - अस्त्विति / एवकारेण भावस्यावधित्वमपाकरोति / अभावसमानयोगक्षेमत्वाद् भावस्यापि तथात्वमवसेयमित्यभिप्र(प्रा) यवान् परिहरति - नेति / अन्येषामपीति अन्वयव्यतिरेकवतामभाववदित्यर्थः / एतदेव निरूपणमुखेन स्पष्टयति - अन्यथेति / अनिरूपितस्य च प्रतिपादयितुमशक्यत्वादिति भावः / भवत्वेवं ततः किमित्यत आह - तथा चेति / अविशेषा[द]भावस्यापि हेतृत्वम् / न वा अभावस्य नियामकाभावादित्यर्थः। ननूभयसाम्येऽप्यन्यवदस्य कारण.... यो ना(नो) भयकारणत्वव्यवस्था स्यादिति मन्यमानमनिष्टप्रसङ्गोपदर्शनेन बोधयति इतरेति / अन्यथेदानीमपि न स्यादविशेषाद् विशेषे वा न भवदभिमतसिद्धिरिति तात्पर्यम् / नन्वस्तु भावः सत्तामात्रेण न तु कार्येणापेक्ष्यते, तथा च न हेतुव्यवहार इत्याह - सन्त्विति / सर्वलोकसाक्षिकमपि कारणत्वम[प]हनुवानं चार्वाक(क) विकल्पद्वयं कृत्वा यथासङ्ख्यमनिष्टप्रसङ्गेष्टलाभप्रदर्शनेन बोधयति नेति / नियतनिषेधमात्रमनियतावधित्वं वा अनियतत्वम्, उभयत्रानिष्टप्रसङ्गमाह - प्रथमेति / यदि वह्निविधिरितरकारणसाकल्य(ल्यं) धूममुपजनयति तदेदमनिष्टमित्यर्थः / वह्निनिषेधमात्रे तु तदा(द) भावेऽपि स्यादिति बोद्धव्यम् / न च वाच्यं यो हि दहनस्य धूम(म) प्रति पूर्वकालतयाऽवधिनियम(म:) प्रतिपद्यते स रासभ[10B]स्याऽवन्धि(धि)त्वमनियमेनाङ्गीकुरुत एव.. तुल्यानुपपत्तिप्रतिहतत्वात् / तथाहि किं धूमस्य दहनादहनाद् वा नियमेन परकालवर्तित्वं स्वभावोऽनियमेन वा ? नाद्यः, सदातनत्वापत्तेः / द्वितीयस्तु लोकमन... / न हि दहनमात्रादेव धूमः किन्तु दहनसामग्रीत इति लौकिकोऽनुभवः / 9. द्वितीये तु किमुपकारान्तरेण ? नियमस्यैवापेक्षार्थत्वात्, तस्यैव च कारणात्मत्वात्, ईदृशस्य च स्वभाववादस्येष्टत्वात् / नित्यस्वभावनियमवदेतत्, न ह्याकाशस्य तत्त्वमाकस्मिकमिति सर्वस्य किं न स्यादिति वक्तुमुचितमिति चेत् न / सर्वस्य भवतः स्वभावत्वानुपपत्तेः / न ह्येकमनेकस्वभावं नाम, व्याघातात् / नन्वेवमिहापि सर्वदा भवतः कादाचित्कत्वस्वभावव्याघात इति तुल्यः परिहारः ? न तुल्यः, निरवधित्वेऽनियतावधित्वे वा कादाचित्कत्वव्याघातात् / नियतावधित्वे हेतुवादाभ्युपगमात् // 5 // 9. द्वितीये त्विति / न ह्युपकारकव्याप्ता कारणता येन तदभावे न स्यात् किन्तु स्वरूपविशेषव्याप्ता, तन्निवृत्तावेव निवर्तते इत्यर्थः / ततो दहननिवृत्तावि(वे)व [निवर्तते] धूमस्वरूपमित्यर्थः / नियमस्यैवेति / अन्वयव्यतिरेकवज्जातीयस्यैवापेक्षापदवाच्यत्वेन लोकप्रसिद्धत्वादित्यर्थः / नन्वपेक्षणीय... इति न(म)न्यमानं

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210