Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 30
________________ 15 * न्यायकुसुमाञ्जलि: स्तबकः 1 16. श्लोकपदं व्याचष्टे - न तावदिति / अक्रमात् क्रमिकं सहकारिविधुरादित्यर्थः / अक्रममपि कारणं क्रमिककार्यार्जनशीलत्वात् क्रमिकं कार्यं करोत्येव ज्वालां नैकस्वभावोऽपि प्रदीप इव कार्ययोगपद्यं विपक्षे बाधकाभावादित्याशयेन शङ्कते - क्रमवत् तावदिति / तस्य कारणस्य तदिति कार्यम् तथेति क्रमवदित्यर्थः / तदेतेन प्रकारेण न सहकारिनिराकरणं कृतं किन्तु तदभ्युपगमतयेति [17A] चार्वाकवराक(क) प्रतिपादयन्नाह - अयमपीति / अयमर्थः / यदा बौद्धेनोक्तं भवति समर्थस्य विलम्बानुपपत्तेरुत्पत्त्यनन्तरकाले कारणान्तर[मनपेक्ष]णीयं तदोच्यते समर्थोऽपि न तवै(दै)व सर्वाणि कार्याणि कुरुते, क्रमवत् तावत् कार्यकरणशीलत्वादिति क्षणभङ्गे सङ्गच्छते परिहारः / क्रमवत् तावत् कार्यमपि न सहकारिणमनासाद्य किन्तु तदङ्गीकृत्येत्याशयवानाह - न त्विति / एतदेव स्पष्टयति - पूर्वपूर्वेति / एककारणानन्तरमपरापरकार्योत्पादन(नं) हि क्रमः / पदार्थान्तरसहितस्य कार्यजनकत्वं चापेक्षा / लोकप्रसिद्धा चैषा / तत्र यदि क्रमस्तदाऽऽद्यकार्यसहितस्य द्वितीयकार्यजनकत्वात् तदपेक्षत्वमेवेति / अथाद्यकार्यसहितस्य कार्यजनकत्वं तदा युगपदेव कार्यद्वयमिति क्रमव्याकोप इत्यर्थः / ___ 17. नाप्यनेकमविचित्रम् / यदि ह्यन्यूनमनतिरिक्तं वा दहनकारणमदहनस्यापि हेतुर्नासावदहनो दहनो वा स्यादुभयात्मको वा स्यात् / न चैवम् / शक्तिभेदादयमदोष इति चेत् न / धर्मिभेदाभेदाभ्यां तस्यानुपपत्तेः / असङ्कीर्णोभयजननस्वभावत्वादयमदोष इति चेत् / न / न हि स्वाधीनमस्यादहनत्वम्, अपि तु तज्जनकस्वभावाधीनम् / तथा च तदायत्तत्वाद् दहनस्यापि तत्त्वं केन वारणीयम् / न हि तस्मिन् जनयितव्ये नासौ तत्स्वभावः / तस्माद् विचित्रत्वात् कार्यस्य कारणेनापि विचित्रेण भवितव्यम् / न च तत् स्वभावतस्तथा / ततः सहकारिवैचित्र्यानुप्रवेशः / न तु क्षणोऽपि तदनपेक्षस्तथा भवितुमर्हतीति // 7 // 17. द्वितीयं पदं व्याख्यातुमुपक्रमते - नापीति / तथाहि - तदेकजातीयं कारणं दहनैकस्वभावमदहनजनकम् अदहनैकस्वभावं वा दहनजनकं सङ्कीर्णमुभयजनकस्वभावं वा तथाभूतोभयजनकम् / प्रथमे दोषमाह - नासाविति / असावदहनो न स्यात् कारणाभावादित्यर्थः / भवन् वा दहनो भवेदित्याह - दहनो वा स्यादिति / इतरदहनवत् तत्कारणप्रसूतत्वादित्याशयः / दहनैकजनकशीलस्यादहनजनकत्वे व्याघातोऽप्युन्नेतव्य इति तात्पर्यम् / द्वितीयोऽपि यथाव्याख्यातवैपरीत्यफक्किकायोजनया निरसनीयः / नासौ दहनोऽदहनो वा स्यादिति कृत्वा अदहनमात्रजननशीलस्य दहनजनकत्वे व्याघातोऽपि पूर्ववद् द्रष्टव्यः / तृतीयेऽनिष्टमाह - उभ[17B] यात्मक इति / तृतीयपादव्याचिख्यासुः शङ्कते - शक्तीति / ... दहनजनकस्यैव धर्मभेदमुपादायादहनजनकत्वे पूर्वोक्तसमस्तानिष्टपरिहार इत्यर्थः / निराकरोति - शक्तिभावा(भेदा)दिति / शक्तिभेदो न संभवति धर्मिणोऽभिन्नत्वात् / अभिन्नायाः शक्तेर्भेदो(दा)नुपपत्तेः / तद्भेदस्तु प्रतिज्ञातैकजातीयकारणत्वव्याघातापत्तेरेवानुपपन्नः / भेदाभेदवादस्तु प्रमाणाभावव्याघाताभ्यामसम्भवी / तेनैव भेदो अभेदो वा भेदाभेदौ वेत्यर्थः / ...दहनादहनजनकस्य दहनादहनजनकत्वम् / नापि सङ्कीर्णो भयजनकत्वमभिप्रेतम् किन्तु विलक्षणानेकत्रयनकस्य(नेकजनकस्य) तथात्वमित्याशयवान् शङ्कते - असङ्कीर्णेति / अयमदोषः [न दहनादहन]जनकत्वोभयात्मकत्वप्रसङ्ग इत्यर्थः / एतदपि सहकार्यसम्भवे न सम्भवतीत्याशयवान् परिहरति - नेति / एतदेवोपपादयति - नहीति / अस्यादहनत्वेनाभिमतस्यादहनत्वं न स्वाधीनम् / क...नजनकस्वभावाधीननत्वंन्यच्चेति(स्वभावाधीनत्वं जन्यस्येति) लोकसिद्धम् / एवं च तदेवेतरनिरपेक्षं यदि दहनकारणं स्यात् तदा

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210