________________
नैष्ठिकाचार
उपसंहारः
(अनुष्टुप्) इति सप्तभयादीनां स्वरूपं कथितं मया।
सर्वेषां धीमता शान्त्यै कुन्थुसागरसूरिणा।।६७।। इतीत्यादिः- इत्येवं उक्तप्रकारेण धीमता बुद्धिमता श्रीकुन्थुसागरसूरिणा आचार्यवर्येण कुन्थुसागरेण सप्तभयादीनां स्वरूपं तत्परिहारोपायश्च निरूपितः। यतस्स्यात् सर्वेषामपि जीवानां शान्तिलाभः। सम्यक्त्वप्राप्तिश्च स्यात् ।६७।
ऊपर लिखे प्रकार से बुद्धि वैभवशाली श्री १०८ आचार्यवर्य कुन्थुसागर महाराज ने जीवों के शान्ति लाभ के लिए तथा सम्यक्त्व की प्राप्ति के लिए अथवा सम्यक्त्व के निर्मल बनाने के लिए सप्त भय आदि का स्वरूप तथा उनसे दूर रहने के सदुपायों का वर्णन किया।६७।
इति भयसप्तकनिरूपणम्। संवेगादि-अष्टगुणनिरूपणम्
(अनुष्टुप्) संवेगाद्यष्टधर्माश्च श्राद्धानां सन्ति कीदृशाः।
वद तेषां स्वरूपं मे तेषु वृत्तिर्भवेद्यथा।। प्रश्नः-हे गुरो! संवेगादीनां अष्टानां धर्माणां स्वरूपं कथय यतस्तेषु मम वृत्तिर्भवेत् ।
हे गुरुदेव! सम्यक्त्वी के संवेग और निर्वेद आदिक अष्ट गुण होते हैं उनका क्या स्वरूप है कृपाकर कहिए ताकि उनके पालने में मेरी प्रवृत्ति हो
संवेगका स्वरूप
(अनुष्टुप्) स्वधर्मे सुखदे प्रीतिरधर्मे दुःखदेऽरुचिः। भावो यस्येति स्यात्तस्य संवेगः सुखदो गुणः।।६८।।
स्वधर्म इत्यादि:- सुखदे स्वधर्मे स्वानन्दसुखस्वरूपे आत्मधर्मे क्षमादौ यदा प्रीतिरुत्पद्यते। तथा दुःखदे दुःखदायिनि अधर्मे तद्विपरीते अनात्मधर्मेऽरुचिः संजायते। यस्य जीवस्य इति भावः स्यात्तस्य सुखदः संवेगो नाम प्रथमो गुणः स्यात् ।।६८।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org