________________
श्रावकधर्मप्रदीप
अस्तीत्यादिः - तात्पर्यमेतत् - धर्मपालनं अर्थोपार्जनं कामभोगः मोक्षोपायश्चेति चतुर्विधः पुरुषार्थः। पुरुषार्थसाधकः खलु वीरः साहसिको भवति । ये पुरुषार्थं न साधयन्ति त एव प्रमादिनः संसारसागरे निमज्जन्ति। संसारेऽपि तेषां ऐन्द्रियमपि सुखं न सञ्जायते । दुःखमेवानुभवन्ति सविभवा अपि । आद्यपुरुषार्थत्रयसाधकाः खलु श्रावकाः, मोक्षोपायं कुर्वन्तः खलु साधवश्च भवन्ति । इति नियमानुसारेण श्रावकैः पुरुषार्थत्रयं साध्यम् । सर्वेषामाद्यः पुरुषार्थः खलु धर्मपुरुषार्थोऽस्ति । धर्मेण विना न कश्चित्पुरुषार्थः साध्यः । धर्मस्य फलं मोक्ष एव प्रधानतया भवति । यावन्न स्यान्मोक्षः तावत् सांसारिक सुखावाप्तिः खलु धर्मस्य फलमुच्यते । जैनमार्गे सांसारिकसुखस्य महत्त्वं नास्ति यतस्तत् कर्मफलमस्ति। यत्किल स्वात्मसुखं न तत् कर्मनिमित्तम् । किन्तु कर्माभावे एव यस्योत्पत्तिरस्ति तदेव यथार्थसुखं नित्यं शाश्वतं अविचलितं निरतिशयं परिपूर्णं स्वभावरूपं स्वानुकूलमस्ति । मोक्षेस एव लभ्यते अतो मोक्ष एव सर्वोपरि पुरुषार्थः । धर्ममार्गविरहितमर्थोपार्जनं खलु चौर्यमेव। धर्मेणार्थोपार्जनन्तु गृहिणो धर्मः । अधर्मेणोपार्जितं वित्तं पापकरणाय प्रेरयति नाना पापान्युत्पादयति येभ्यः खलु जीवाः नरकादिषु नानादुःखान्यनुभवन्ति । तस्मात् दुःखभीतैः कदापि अनैतिकसरण्या नोपार्जनीयं वित्तम् । उद्योगं विना चौर्यादिना विश्वासघातेन परवञ्चनेन परापहरणेन सञ्चितं धनं तृतीयपुरुषार्थमपि विनाशयति। चतुर्थपुरुषार्थस्य कथा तु दूर एव । तृतीयपुरुषार्थः खलु कामभोगः । कामेन स्वेच्छया स्वसंतोषार्थं स्वेच्छारूपव्याकुलतानाशार्थं यत् भुज्यते स कामभोगः । एषोऽपि धर्मार्थपुरुषार्थयोरविरोधेनैव सेव्यः नान्यथा। यः खलु एतत्सर्वमविचार्य भुक्ते तस्य भोगाधारभूतयोधर्मर्मार्थतोरभावे भोगोऽपि नश्यति । अतिमात्रया भोगोपभोगसेवनादर्थो नश्यति धर्मविरहितः सन्नधर्ममपि भजते । अधर्मात् पापसञ्चयो भवति पापोदयाद्दुःखमनुभवति । भोगातिसेवया शरीरमपि जर्जरीभवति रोगाक्रान्तञ्च । सरुक्शरीरेण भोगोपभोगासमर्थेन न किमपि साध्यते लौकिकं पारलौकिकं वा । तस्मादन्यपुरुषार्थाविरोधेनैव स सेवनीयः इत्येवं प्रकारेण पुरुषार्थत्रयमैन्द्रियसुखसाधनं भवति । परस्परानुकूल्येनाविरोधेन तत् सेव्यम् । पुरुषार्थी एवं वित्तवान् प्रहृष्टशरीरः धर्मात्मा न्यायप्रियः देशोद्धारकः विश्वकल्याणकारकः परमसुखी भवति । संसारपरिभ्रमणकारणभूतानां कर्मणां विनाशाय यन्मोक्षार्थिभिः व्रतसमितिगुप्तिधर्मादिकमङ्गीक्रियते तन्मोक्षपुरुषार्थः, यत्र स्वोत्थं निरतिशयं सुखमनुभवति जीवः इन्द्रियसंबंधरहितोऽपि । इति पुरुषार्थचतुष्टयमपि लोके सर्वोत्तमं कार्यमिष्टसिद्धिकारकमस्ति तस्मात् स्वहितैषिभिर्न कदाचिदपि पुरुषार्थहीनं जीवनं यापनीयमिति । १ २७।१२८ ।
१६८
धर्म का पालन, अर्थ का उपार्जन करना, प्राप्त भोगोपभोगों का सेवन और मोक्षप्राप्ति का प्रयत्न ये पुरुषार्थ हैं। इसका दूसरा नाम है उद्यम, उद्योग और उन्नति । जो इसे साधते हैं वे वीर और साहसी होते हैं तथा लौकिक और पारलौकिक सुख को भोगते हैं। और जो लोग पुरुषार्थ को अङ्गीकार नहीं करते वे प्रमादी होकर पारलौकिक सुख की बात तो दूर रही इस लोक में भी दुखी रहते हैं और पशुतुल्य जीवन व्यतीत करते हैं। उक्त चारों पुरुषार्थों में से आदि के तीन पुरुषार्थों को साधनेवाले श्रावक या गृहस्थ होते है और आत्मीय मोक्ष पुरुषार्थ को साधने वाले साधु कहलाते हैं।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org