________________
श्रावकधर्मप्रदीप
जायगा। हाँ, बिना प्रयोजन तो यह हरी घास आदि पर पैर भी नहीं रखता। यदि कार्यवश रखना ही पड़े तो उसे बहुत दुःख होता है।
२८०
अतः यह निर्णय होता है कि प्रतिमारोहण त्याग का क्रम है। यद्यपि आरम्भ का त्याग भी इष्ट है तथापि वह यहाँ नहीं है । पहिले सचित्त भोजन का त्याग कराया गया है। पीछे आठवीं प्रतिमा में उसके आरम्भ का भी त्याग कराया गया है। ऐसा विवेचन आगमानुसार सुसंगत होगा । २०५ ।
इस प्रकार पंचम प्रतिमा का स्वरूप हुआ। अब छठी प्रतिमा का स्वरूप कहते हैं(वसन्ततिलका)
वाक्कायिकस्वकृतकारितसम्मतैश्च
यो
रात्रिभोजनमथो
सम्यग्विहाय सुखदे स्वपदे च यः स्यात्
दिनमैथुनञ्च ।
त्यागोऽस्ति तस्य सुखदो निशि भोजनादेः । । २०६ ।।
वागित्यादिः - दिवामैथुनत्यागः रात्रिभुक्तिश्चेति नामद्वयं षष्ठप्रतिमायाः । वचसा कायेन च कृतकारितानुमतैश्च यः किल कामभोगान् दिवसे परित्यजति । रात्रावेव कदाचित् कामसेवनं करोति । दिवसे तु परिपूर्ण ब्रह्मचर्यं सेवते तत्स्यात् रात्रिभुक्तिव्रतम् । रात्रावेव कामभोगान् सेवयामः न दिवसे, एवं व्रतं येषामस्ति ते रात्रिभुक्तिव्रतिनः । अथवा दिवासमये पूर्णरूपेण कामभोगान् परित्यजामः न कदाचिदपि मनसा वचसा कायेन वा वाञ्छामः नान्यान् प्रेरयामः न तत्कारकाननुमोदयामः इत्येव व्रतधारकाणामेव स्यादेतत् व्रतम् । एवं अस्य व्रतस्योभयं नाम एकार्थप्रतिपादकं न त्वत्र भिन्नार्थकत्वमित्येका व्याख्या । द्वितीया तु व्याख्या, यः दिवस एव भोजनङ्करोति कारयति च । रात्रिभोजनं न करोति न चानुमोदते तस्य स्यात् षष्ठी प्रतिमा । स किल दिवसमये मैथुनमपि परित्यजति वचसा कायेनापि च न तत् कारयति न चानुमोदते इति । यद्यपि द्वाविंशत्यभक्ष्यपरित्यागसमय एव रात्रिभोजनस्य त्यागो जातः । तथापि कारितानुमोदनसंबंधिदोषाणां सम्भावना पञ्चमप्रतिमापर्यन्तं वर्तते षष्ठ्यां तस्या अपि परित्यागः । इत्येवंप्रकारेण वचसा कायेन कृतकारितानुमोदैश्च यः रात्रौ भोजनं दिवसे मैथुनञ्च परिहरति स षष्ठप्रतिमाधरी । स स्वजन्मार्ध ब्रह्मचर्येणोपवासेन च नयन् ज्ञानात्मके परमानन्दात्मके विलीनः प्रशस्यते । २०६ ।
इस प्रतिमा के नाम में द्वैविध्य है। इसके दो नाम हैं। १ - दिवामैथुनत्याग और २ - रात्रिभुक्तिव्रत । अर्थात् जो दिन में परिपूर्ण ब्रह्मचर्य व्रत का पालन करता है। मन वचन कायादि व्यापार से स्वयं मैथुन सेवन नहीं करता, दूसरों को ऐसा करने की प्रेरणा नहीं करता, करनेवाले की प्रशंसा नहीं करता, वही दिवामैथुनत्यागी है। वही रात्रिभुक्तिव्रती
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org