Book Title: Shravak Dharm Pradip
Author(s): Jaganmohanlal Shastri
Publisher: Ganeshprasad Varni Digambar Jain Sansthan

View full book text
Previous | Next

Page 298
________________ २६७ नैष्ठिकाचार तृतीयसामायिकप्रतिमाका स्वरूप (वसन्ततिलका) त्यक्त्वा कषायनिचयं समतां विधाय शुद्धात्मधर्मविषये सुखदे स्वभावे। चिद्रूपचैत्यनिलये निवसेत्सदा यः सामायिकप्रतिमया स विभूषितः स्यात् ।।२०२।। त्यक्त्वेत्यादिः- श्रावकस्य अष्टौ मूलगुणाःद्वादशोत्तरगुणाश्च सन्ति। सर्वेषामप्येतेषां स्वरूपं निरूपितं प्राक्। अत्र प्रश्नः-यद्यपि व्रतप्रतिमायां द्वादश उत्तरगुणा सन्ति तथापि तृतीयादिप्रतिमासु कानि तानि व्रतानि सन्ति यतः प्रतिमाभेदः स्यात् ? द्वितीयाप्रतिमायामपि सामायिकशिक्षाव्रतमस्ति तदेव सामायिकं तृतीयप्रतिमायामस्ति न किंचिदन्तरमनयोः। कस्मात् तर्हि प्रतिमाभेदः क्रियते? इत्यत्रोत्तरयतिद्वितीयप्रतिमायां ये द्वादशोत्तरगुणाः कथिताः तेषु पञ्चाणुव्रतानि तु व्रतरूपाणि निरतिचाराणि सन्ति शेषाणि सप्त शीलरूपाणि सन्ति न व्रतरूपाणि, तेषां व्रतरूपत्वं तु तृतीयादिप्रतिमास्वेव। इदमेव तयोरन्तरम् । सामायिकस्य स्वरूपं सामायिकशिक्षाव्रतस्वरूपणे प्रतिपादितम् । तदेव सामायिकं अभ्यासरूपेण प्रातः सायं वा उभयोरपि कालयोर्वा कालत्रयेषु प्रातःमध्याह्नसायन्तनेषु वा द्वितीयप्रतिमायां क्रियते। सामायिकस्य कालः जघन्यो घटिकाद्वयं मध्यमो घटिकाचतुष्टयं उत्तमस्तु घटिकाषट्कमस्ति। इत्यस्यायमपि अर्थः यत् एकवारमेव क्रियते तदा तत्स्यात् घटिकाद्वयपर्यन्तम् । प्रातः संध्यायाञ्च द्विवारं यदि सामायिकं क्रियते तदा तत्स्याद् घटिकाचतुष्टयपर्यन्तम् । सन्ध्यात्रयेऽपि यदि सामायिकं कुर्यात् तदा तत्स्याद् घटिकाषट्कपर्यन्तम् । अथवा प्रातः घटिकाद्वयं चतुष्टयं षट्कं वा तथैव मध्याह्ने संध्याकाले च क्रियमाणे जघन्यमध्यमोत्तमरूपं सामायिकं स्यात् । सामायिकप्रतिमायां न्यूनतः घटिकाद्वयपर्यन्तं उत्कृष्टतस्तु घटिकाषट्कपर्यन्तं सन्ध्यात्रयेऽपि करणीयम् । तत्रैव सामायिक निरतिचारं व्रतरूपम्भवति। तस्मात् कषायविषयेभ्यः स्वात्मानं नियम्य इष्टानिष्टबुद्धिं परित्यज्य समभावमङ्गीकृत्य योग्यकाले योग्यक्षेत्रे योग्यासने सविनयेन शुद्धेन मनसा कायेन वचसा च सुखदे स्वभावे शुद्धात्मधर्मविषये चिद्रूपचैत्यनिलये सदा यो निवसेत् सः सामायिकप्रतिमया विभूषितः स्यात्।२०२। श्रावक के १२ व्रतों में सामायिकशिक्षाव्रत है, यह व्रत द्वितीय प्रतिमा में श्रावक द्वारा धारण किया गया था तथापि वहाँ यह शीलरूप था। व्रतप्रतिमावाला सामायिक करने की आदत डालता है, अभ्यास करता है और उसके अतिचारों को भी बचाने का प्रयत्न करता है तथापि यह कठिन व्रत है अतः अतिचार लग ही जाते हैं। इस प्रतिमा में यह व्रत सातिचार ही हो सकता है निरतिचार नहीं। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352