________________
२४६
श्रावकधर्मप्रदीप लोकनिंद्य हैं उनका तो यावज्जीवन 'यमरूप' त्याग होता है। शेष पदार्थों में भी हेयबुद्धि होने से यम अथवा नियमरूप से उनके त्याग का कार्य तबतक चलता रहता है जबतक सम्पूर्ण परपदार्थों का परित्याग न हो जाय। बिना परपदार्थों के त्याग के निजात्मद्रव्य में प्रवेश नहीं होता। अतः यह व्रती निज पद में निवास के हेतु इस व्रत को स्वीकार करता है।१९८।
भोगोपभोगप्रमाणव्रतके अतिचार
(अनुष्टुप्) सचित्ताद्यतिचाराश्च केवलं दुःखदायकाः । दोषा न धार्मिकैः सेव्याः स्वस्थः स्वात्मा भवेद्यतः ।।१९९।।
सचित्तेत्यादि:- सचित्ताहारः सचित्तसंबंधाहारः सचित्तसंमिश्राहारः अभिषवाहारः दुःपक्वाहारथेति पञ्चातिचाराः भोगोपभोगव्रतस्येति। आहारशब्दस्य ग्रहणमित्यर्थो ग्राह्यो न तु भोजनमात्रम् । भोगेष्वुपभोगेषु च यत्सचित्तं जीवसहितं अस्ति तत् भोजनं वस्त्रादिकं वा न ग्राह्यम्। तद्ग्रहणे जीवबाधायाः संभावना वर्तते। सचित्तत्यागप्रतिमायामपि एतव्रतमस्ति तदुपरि च। तथैव द्वितीयादिषु प्रतिमासु च। यत्र किल सचित्तवनस्पत्यादीनां आहारे त्यागस्तत्र प्रमादतः यदि तत्स्यात्तदातिचारः स्यात् । केचित्कथयन्ति यत् द्वितीयादिप्रतिमासु न सचित्तभोजनस्य त्यागः क्रियते तथापि सुनिश्चितमर्यादातः उपरि चूर्णादीनां जलादीनां औषधादीनांञ्च कदाचिदुपयोगः प्रमादतः स्यात्तदपि सचित्तभोजननामाऽतिचारः स्यात् अथवा सचित्तजलादीनां स्नानादिकर्मणि सचित्तानां त्वग्वस्त्रादीनामुपयोगः सचित्तपुष्पादीनां वा भोगः सचित्तत्यागप्रतिमासु सचित्ताहारः स्यात् । ततः पूर्वासु प्रतिमासु द्वितीयादिषु प्रतिमारूपेण सचित्तत्यागाभावेऽपि समुचितेष्वपि भोगेष्वुपभोगेषु यदि सचित्तत्यागः नियमरूपेण नियतसमयपर्यन्तमस्ति तदा मर्यादाकाले प्रमादतः तदुक्तप्रकारेण सचित्तसेवने स्यादतिचारः। तथैव सचित्तभूमिषु गमनागमने अनवीक्षितमार्गपरिग्रहः अशोधितार्थानां सहसा ग्रहणम् एतादृगन्यदपि स्यादतिचारः। तात्पर्यमेतत् यदत्र व्रतातिचारनिरूपणे सचित्तमिदमुपलक्षणम् । यदि व्रतेऽस्मिन् भोगोपभोगयोः स्वेच्छया सचित्तत्यागः कृतस्तदा प्रमादतस्तदुपयोगे स्यादतिचारः। तद्वत् यदि केनापि वतिना घृतादीनां रसानां त्यागः क्रियते नृत्यगीतागंधादीनां वा भोगोपभोगादीनां नियतकालमनियतकालं वा त्यागः क्रियते तथा यदि प्रमादतस्तदुपयोगः स्यात् तदा सोऽपि स्यादतिचारः। यथैव सचिताहारस्तथैव सचित्तसंबंधाहारसचित्तसंमिश्राहारयोरपि व्याख्या कार्या तथैव तावप्यतिचारौ स्याताम् । कामोद्दीपकानां पदार्थानामुपयोगे स्यादभिषवो नाम अतिचारः। यदि स स्याद् भोगेषु तदा भोगातिचारः स्यादुपभोगेषु तदोपभोगातिचारः स्यात् । दुःपक्वानामर्धपक्वानां पदार्थानां फलादीनां अन्नादीनामुपयोगे च दुःपक्वातिचारः स्यात् । एवं व्रतदूषणोत्पादकाः पापोन्मुखाः दोषाधायकाः किलातिचाराः व्रतिभिर्न सेवनीयाः। निरतिचारव्रतपालने हि स्वात्मा स्वस्थः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org