________________
नैष्ठिकाचार
का विनाश नहीं कर सकता। आत्मा स्वयं रक्षित है उसे रक्षक की आवश्यकता नहीं है, ऐसी बोधदायिनी जिसकी बुद्धि है उस सम्यक्त्वी के कभी भी अगुप्ति भय नहीं हो सकता।६३।६४।
प्रश्न:-अकस्माद् भयचिह्नं किं विद्यते मे गुरो वद। हे गुरो ! अकस्माद् भयचिह्नं किं तत्स्वरूपमपि मे कथय। हे गुरुदेव! अकस्माद् भय का स्वरूप क्या है? वह भी कृपाकर बताइए
(अनुष्टप) मत्पुण्यविशेषश्चेन्न पतेत्किञ्चिन्ममोपरि । वा स्वचतुष्टये केऽपि न प्रविशन्ति वस्तुतः ॥६५।। परचतुष्टये नापि प्रविशामि परात्मके । यस्येति बोधको भावस्तस्याकस्माद्भयं कुतः ।।६६।।युग्मम्।।
मत्पुण्यमित्यादि:- किमायाति काचिद्विपत्तिर्ममोपरि? आकाशात् वज्रपातो भविष्यति चेत् किंकुर्मोवयम्? अकस्मात् रोगादि-के समायाते किं स्यात् ? निरपराधोऽप्यहंकेनचिद्राजकीयेनापराधेन न लिप्ये? इत्येवं प्रकारेण अकस्मादापत्तेराशङ्कया भीतित्वम् ‘अकस्माद् भयम्' कथ्यते। समुत्पद्यते च मोहिनां तत् ।
सम्यग्दृष्टिस्तु विचारयति यदि मत्पुण्यविशेषश्चेत् मम पुण्योदयो वर्तते तर्हि न ममोपरि अकस्मात् किञ्चित् वज्रादिकं रोगादिकम् विपत्त्यादिकं वा पतेत् । यदि पुण्योदयो न स्यात् तर्हि किं भीत्या तदा स्यात् ? कर्मफलं स्वार्जितन्तु भोक्तव्यमेव। वा अथवा स्वचतुष्टये स्वात्मद्रव्ये स्वात्मप्रदेशरूपे स्वक्षेत्रे स्वात्मपर्यायरूपे स्वकाले स्वचैतन्यस्वरूपके स्वभावे वस्तुतः न केऽपि परपदार्थाः प्रविशन्ति, अतत्स्वभावत्त्वात्तेषाम् । अहमपि परात्मके परचतुष्टये मूर्तामूर्तस्वरूपेषु पुद्गलजीवधर्माधर्मकालाकाशादिरूपेषु तेषां स्वप्रदेशस्वरूपेषु क्षेत्रेषु तत्परिवर्तनपरिणामरूपेषु कालेषु स्वभिन्नभिन्नलक्षणाक्रान्तत्वात् भिन्नरूपेषु स्वभावेषु एतत्परचतुष्टयरूपेषु चेतनाचेतनात्मकेषु न कदापि प्रविशामि। यस्य विवेकिनः इति एवंविधो बोधकः भावः विद्यते तस्य अकस्माद्भयं कुतः स्यात् । ६५।६६।
___ यदि मेरे पुण्य का प्रबल उदय है तो कोई विपदा मेरे ऊपर नहीं आ सकती। न तो अन्य मेरे द्रव्यादि चतुष्टय में प्रवेश कर सकते हैं और न मैं अन्य किसी के द्रव्यादि चतुष्टय में प्रवेश कर सकता हूँ। ऐसे विचारपूर्ण जिसके परिणाम होते हैं, उसे अकस्माद् भय कैसे हो सकता है?
विशेषार्थ- मिथ्यात्व से जिनकी बुद्धि मोहित है उनके विचार सदा मिथ्या विचारों में घूमते रहते हैं। वे बिना कारण भी सोचा करते हैं कि मेरे ऊपर कोई विपत्ति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org