________________
नैष्ठिकाचार
सुखदुःखसमे गुरौ तथा शुभेऽशुभे बन्धे मोक्षे अर्हत्प्रतिपादिते सद्धर्मे च यस्य शर्मदा श्रद्धाऽस्ति तस्य आस्तिक्यनामा गुणोऽस्ति ।
'आस्तिको लभते मोक्षं नास्तिको नरकं ध्रुवम्' इत्यादि लौकिकोक्त्या आस्तिकानामेव कल्याणं स्यान्न नास्तिकानामिति श्रद्धा धार्मिकाणामस्ति । किन्तु कोऽसौ आस्तिकः कश्च नास्तिकः इत्यस्मिन् विषयेऽस्ति महान् विवाद इति । वेदानुयायिनस्तु वदन्ति यत् “नास्तिको वेदनिन्दकः” वेदाः प्रमाणमिति यस्य श्रद्धा स आस्तिकः तदन्यो नास्तिकः ।
९९
शब्दशास्त्रेण तु 'अस्ति' इति मतिर्यस्यासौ आस्तिक इति सिद्ध्यति । किमस्ति इति प्रश्ने सति सत्यमुत्तरमेतत् यत् सर्वप्रथमं तावत् स्वात्मनोऽस्तित्वमेव ग्राह्यम् । स्वास्तित्वाभावे अन्यस्य कस्याप्यस्तित्वं को विजानीयात् । ज्ञाता द्रष्टा अनुभाविता खलु अहमेवास्मि तथाहमेव शुद्धो निर्विकल्पो निरञ्जनः इत्येवंप्रकारेण आत्मनस्स्वरूपास्तित्वे मतिरस्ति यस्य स एव 'आस्तिक' इति आत्मनोऽस्तित्वे सिद्धे स खलु नित्योऽनित्यो वा शरीराद्व्यतिरिक्तोऽव्यतिरिक्तो वा बद्धोऽबद्धो वा इत्यादयः प्रश्नाः तस्य मनसि सञ्जायन्ते । तदा तस्य अधिगतात्मतत्त्वेन केवलज्ञानविभूषितेन च परमर्षिणा यदात्मनः बंधावस्थामुक्तावस्थयोः तत्कारणानां च आश्रवसंवरनिर्जरादीनां स्वरूपं प्रतिपादितं तेषामस्तित्वे श्रद्धा भवति । इत्येवंप्रकारेण सुनिश्चितमेतत् यत् आत्मनो वा तत्पर्यायाणां परलोकादीनां वा तत्कारणभूते शुभेऽशुभे वा कर्मणि तद्वियोगरूपे मोक्षस्यास्तित्वे यस्य 'अस्ति' इति मतिरस्ति स एव आस्तिकः । सम्यग्दृष्टिस्तु परमास्तिकोऽस्ति । तस्यैव परमश्रावकस्य परमगुणः आस्तिक्यमिति कथ्यते । ७४ ।
आस्तिकपने के भाव को आस्तिक्य गुण कहते हैं। प्राणिमात्र के हितकारक, राग द्वेष काम क्रोधादि विकारों से रहित व ज्ञानधनस्वरूप अर्हन्तपरमेष्ठी में, उनके द्वारा उपदिष्ट पारस्परिक विरोधभाव रहित दयामय सद्धर्म प्रकाशक शास्त्र में, शास्त्र प्रतिपादित सन्मार्ग का अवलम्बन करनेवाले तथा सुख - दुःख में मित्र - शत्रु में, संयोग और वियोग में और भवन- श्मशान में, हर्ष-विषाद से रहित समताभाव के समुपासक गुरु में और सर्वज्ञ प्रतिपादित सद्धर्म में तथा शुभाशुभरूप बन्ध-मोक्ष में जिसकी सुखदायिनी परम श्रद्धा है वही आस्तिक है। उसका यह सर्वोत्कृष्ट गुण ही 'आस्तिक्य' नामा गुण है।
" आस्तिक नियम से मोक्ष का तथा नास्तिक नरक का अधिकारी है" ऐसी लोकोक्ति को सुनकर अनेक धर्मात्माओं का यह विश्वास है कि आस्तिकों का कल्याण होगा, नास्तिकों का नहीं। पर कौन आस्तिक है और कौन नास्तिक है, यह तो सबसे बड़ा विवादास्पद प्रश्न है। वेदानुयायी लोग "वेदनिन्दक नास्तिक है” ऐसा कहते हैं। इसका सीधा अर्थ यह हुआ कि जिस व्यक्ति की श्रद्धा में वेदों की प्रामाणिकता है वही आस्तिक है और अन्य सब नास्तिक हैं।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org