Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 5 * न्यायकुसुमाञ्जलिः स्तबकः 1 नापि परेण पुरुषविशेषेणास्मदादिविसदृशावलोक्यमान... दिप्रेरणरूपानुष्ठानसंभवादस्मदादिभिः सिद्धसाधनत्वेनाश्रयासिद्धम् / परलोकसाधनस्याप्यदृष्टस्यानुष्ठानं तत्तत्कार्यनिर्वर्तनम्, तदन्यथापि परमेश्वराधिष्ठानमन्तरेणास्मदादिपूर्वपूर्वकादृष्टपरिपाकवशेनापि संभवात् तदेवं सिद्धसाधनम्, तथा चाश्रय(या)सिद्धिरित्यर्थः / नन्वयुक्तमेतद्धर्ममात्रस्य वक्ष्यमाणन्यायेनानित्यत्वाच्छ्रुत(ते)स्तत्समूहपदवाक्यस्य तद्विशेषवेदस्य च नित्यत्वम्, तथा च पौरुषेयत्वे तदप्रामाण्यशङ्कापनोदकमाप्तोक्तत्वमनुसरणीयम्, अन्यथा परलोकसाधनानुष्ठाने प्रचुरतरवित्तव्ययायाससाध्ये प्रेक्षावतां प्रवृत्तिर्न स्यात् [त]था च नासिद्धमाप्तोक्तत्वम् / सकर्तृकत्वस्योपादानगोचरापरोक्षविज्ञप्तिचिकीर्षाकृतिसाक्षाज्जन्यत्वरूपस्य विवक्षितत्वादस्मदादीनां च तद्गोचरतथाविधविज्ञानासंभवाद् नास्मदादिभिः सिद्धसाधनमिति / कार्यत्वमपि नोक्तदोषकलुषितमित्युक्तदूषि]णं परिहृतं समवलोक्य दूषणान्तरमाह - तदिति / तस्य महेश्वरस्याभावावेदकानपल[6B]... बाधितविषयत्वं दर्शितम / उक्तं च - प्रत्यक्षाद्यविसंवादीत्यादि / नानपलब्ध्यनमानोपमानागमार्थापत्तयो बाधकमयोग्यानाश्रयनियतविषयान्यार्थान्यथोपपन्नत्वादिति परिहतं बाधकमवलोक्य तर्कापरिशुद्धिं दूषणान्तरमाह - सत्त्वेऽपीति / सत्त्वं तावन्नाभ्युपगच्छामः किन्तु बाधकप्रमाणविरहात् संभावयामः / भावकरणकर्तृव्युत्पत्त्या प्रमाणपदं प्रमितितत्साधनतदाश्रयेषु वर्तते / निःसंदिग्धा अबाधिता अनधिगतार्थाधिगतिश्च.... तत्साधनेन्द्रियकरणवान् तत्समवायिकारणं तु स्यादिति तर्काः / न चायं तथेति विपर्ययः / किन्तु पारमेश्वरं ज्ञानमस्मदादिविभ्रमान् आलम्बते न वा ? न वेति पक्षे सर्वविषयत्वानुपपत्तिः, तस्यैव तदविषयत्वात् / आलम्बत इति पक्षे तूपदशितविषयैतद्विभ्रमविषयत्वादस्मदादिज्ञानमिव विपरीतावगाहनादप्रमा / न विद्यते प्रमाणं प्रमा तत्साधनं तत्करणं यस्य सो(तद्) अप्रमाणम्, तस्य भावस्तत्त्वम्, तस्मात् / नन्वयुक्तमेतदुपदर्शिततर्काणामीश्वरमधिकृत्याश्रयासिद्धविपर्ययापर्यवसानेच्छापादकत्वेन तर्काभासतया अदूषणत्वात् / क्षित्यादिकर्म [अ]धिकृत्यानिष्टभ्रमेणेष्टापादनत्वेनाभासतया दूषक[7A]त्वविरहात् / यत्त्विष्टार्थानुभवसम्बन्धितदयोगव्यवच्छिन्नतदाश्रयतया परमेश्वरस्य प्रमात्वप्रमाणत्वप्रमातृत्वोपपत्तेविज्ञानस्य च यथावस्थितवस्त्ववगाहित्वेन मिथ्यात्वानुपपत्तेः सर्वं समञ्जसमिति तर्कापरिशुद्धिमपि निराकृतामवगम्य विपक्षे बाधकाभावादुपाधिसद्भावाद् व्याप्तिप्रसाधकप्रमाणाभावादिति संदिग्धव्यतिरेक्यप्रयोजकमप्रतीतव्याप्तिकं कार्यत्वमाप्तोक्तत्वं च स्वरूपासिद्धमित्येवंरूपदूषणान्तरेण बौद्धमीमांसकचार्वाकाः प्रत्यवतिष्ठन्ते - तदिति / वादिविप्रतिपत्तीरुक्त्वाऽप्याद्यचार्वाकविप्रतिपत्तिं वारयति - तत्र नेति / कार्यकारणभावानभ्युपगमे परबोधकवचनोच्चारणानुपपत्तेः / उपपत्तौ वा तत्स्वीकारापत्तेः / तस्माद् यथा यथा तन्निराकरणोपपन्नः तथा तथा तस्यैवापत्तिरिति दुरुत्तरं व्यसनम् / तस्मात् समस्तलोकयात्रातिरस्कारप्रवृत्तचा कवराकविजृम्भितं न प्रमाणपद्धतिमध्यास्त इत्याह - कल्प इति / कल्पनं कल्पः, नेति प्रमाणशून्यकल्पनस्य स्वपरपक्षसाधकबाधकत्वानुपपत्तेरित्यर्थः / न च वयं स्वपरपक्षयोः साधनदूषणे ब्रु(ब्रू)मः / किन्तु भवन्तः समस्तविप्रतिपन्नपुरुषप्रतिबोधनाय मननसाधकपदयुगप्रतिपादकन्यायनिरूपणप्रवृत्ताः / प्रामाणिकं कार्यकारणभावं बोधयत्वित्यभिप्रायवति प्रत्यवस्थिते सुहृदभावेन प्रामाणिकं तत्त्वं दर्शयितुं प्रमाणमाह - सापेक्षत्वादिति / 6. सापेक्षत्वादनादित्वाद् वैचित्र्याद् विश्ववृत्तितः / प्रत्यात्मनियमाद् भुक्तेरस्ति हेतुरलौकिकः // 4 // न ह्ययं संसारोऽनेकविधदुःखमयो निरपेक्षो भवितुमर्हति, तदा हि स्यादेव न स्यादेव वा, न तु कदाचित् स्यात् // 4 //
Loading... Page Navigation 1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 210