SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ 5 * न्यायकुसुमाञ्जलिः स्तबकः 1 नापि परेण पुरुषविशेषेणास्मदादिविसदृशावलोक्यमान... दिप्रेरणरूपानुष्ठानसंभवादस्मदादिभिः सिद्धसाधनत्वेनाश्रयासिद्धम् / परलोकसाधनस्याप्यदृष्टस्यानुष्ठानं तत्तत्कार्यनिर्वर्तनम्, तदन्यथापि परमेश्वराधिष्ठानमन्तरेणास्मदादिपूर्वपूर्वकादृष्टपरिपाकवशेनापि संभवात् तदेवं सिद्धसाधनम्, तथा चाश्रय(या)सिद्धिरित्यर्थः / नन्वयुक्तमेतद्धर्ममात्रस्य वक्ष्यमाणन्यायेनानित्यत्वाच्छ्रुत(ते)स्तत्समूहपदवाक्यस्य तद्विशेषवेदस्य च नित्यत्वम्, तथा च पौरुषेयत्वे तदप्रामाण्यशङ्कापनोदकमाप्तोक्तत्वमनुसरणीयम्, अन्यथा परलोकसाधनानुष्ठाने प्रचुरतरवित्तव्ययायाससाध्ये प्रेक्षावतां प्रवृत्तिर्न स्यात् [त]था च नासिद्धमाप्तोक्तत्वम् / सकर्तृकत्वस्योपादानगोचरापरोक्षविज्ञप्तिचिकीर्षाकृतिसाक्षाज्जन्यत्वरूपस्य विवक्षितत्वादस्मदादीनां च तद्गोचरतथाविधविज्ञानासंभवाद् नास्मदादिभिः सिद्धसाधनमिति / कार्यत्वमपि नोक्तदोषकलुषितमित्युक्तदूषि]णं परिहृतं समवलोक्य दूषणान्तरमाह - तदिति / तस्य महेश्वरस्याभावावेदकानपल[6B]... बाधितविषयत्वं दर्शितम / उक्तं च - प्रत्यक्षाद्यविसंवादीत्यादि / नानपलब्ध्यनमानोपमानागमार्थापत्तयो बाधकमयोग्यानाश्रयनियतविषयान्यार्थान्यथोपपन्नत्वादिति परिहतं बाधकमवलोक्य तर्कापरिशुद्धिं दूषणान्तरमाह - सत्त्वेऽपीति / सत्त्वं तावन्नाभ्युपगच्छामः किन्तु बाधकप्रमाणविरहात् संभावयामः / भावकरणकर्तृव्युत्पत्त्या प्रमाणपदं प्रमितितत्साधनतदाश्रयेषु वर्तते / निःसंदिग्धा अबाधिता अनधिगतार्थाधिगतिश्च.... तत्साधनेन्द्रियकरणवान् तत्समवायिकारणं तु स्यादिति तर्काः / न चायं तथेति विपर्ययः / किन्तु पारमेश्वरं ज्ञानमस्मदादिविभ्रमान् आलम्बते न वा ? न वेति पक्षे सर्वविषयत्वानुपपत्तिः, तस्यैव तदविषयत्वात् / आलम्बत इति पक्षे तूपदशितविषयैतद्विभ्रमविषयत्वादस्मदादिज्ञानमिव विपरीतावगाहनादप्रमा / न विद्यते प्रमाणं प्रमा तत्साधनं तत्करणं यस्य सो(तद्) अप्रमाणम्, तस्य भावस्तत्त्वम्, तस्मात् / नन्वयुक्तमेतदुपदर्शिततर्काणामीश्वरमधिकृत्याश्रयासिद्धविपर्ययापर्यवसानेच्छापादकत्वेन तर्काभासतया अदूषणत्वात् / क्षित्यादिकर्म [अ]धिकृत्यानिष्टभ्रमेणेष्टापादनत्वेनाभासतया दूषक[7A]त्वविरहात् / यत्त्विष्टार्थानुभवसम्बन्धितदयोगव्यवच्छिन्नतदाश्रयतया परमेश्वरस्य प्रमात्वप्रमाणत्वप्रमातृत्वोपपत्तेविज्ञानस्य च यथावस्थितवस्त्ववगाहित्वेन मिथ्यात्वानुपपत्तेः सर्वं समञ्जसमिति तर्कापरिशुद्धिमपि निराकृतामवगम्य विपक्षे बाधकाभावादुपाधिसद्भावाद् व्याप्तिप्रसाधकप्रमाणाभावादिति संदिग्धव्यतिरेक्यप्रयोजकमप्रतीतव्याप्तिकं कार्यत्वमाप्तोक्तत्वं च स्वरूपासिद्धमित्येवंरूपदूषणान्तरेण बौद्धमीमांसकचार्वाकाः प्रत्यवतिष्ठन्ते - तदिति / वादिविप्रतिपत्तीरुक्त्वाऽप्याद्यचार्वाकविप्रतिपत्तिं वारयति - तत्र नेति / कार्यकारणभावानभ्युपगमे परबोधकवचनोच्चारणानुपपत्तेः / उपपत्तौ वा तत्स्वीकारापत्तेः / तस्माद् यथा यथा तन्निराकरणोपपन्नः तथा तथा तस्यैवापत्तिरिति दुरुत्तरं व्यसनम् / तस्मात् समस्तलोकयात्रातिरस्कारप्रवृत्तचा कवराकविजृम्भितं न प्रमाणपद्धतिमध्यास्त इत्याह - कल्प इति / कल्पनं कल्पः, नेति प्रमाणशून्यकल्पनस्य स्वपरपक्षसाधकबाधकत्वानुपपत्तेरित्यर्थः / न च वयं स्वपरपक्षयोः साधनदूषणे ब्रु(ब्रू)मः / किन्तु भवन्तः समस्तविप्रतिपन्नपुरुषप्रतिबोधनाय मननसाधकपदयुगप्रतिपादकन्यायनिरूपणप्रवृत्ताः / प्रामाणिकं कार्यकारणभावं बोधयत्वित्यभिप्रायवति प्रत्यवस्थिते सुहृदभावेन प्रामाणिकं तत्त्वं दर्शयितुं प्रमाणमाह - सापेक्षत्वादिति / 6. सापेक्षत्वादनादित्वाद् वैचित्र्याद् विश्ववृत्तितः / प्रत्यात्मनियमाद् भुक्तेरस्ति हेतुरलौकिकः // 4 // न ह्ययं संसारोऽनेकविधदुःखमयो निरपेक्षो भवितुमर्हति, तदा हि स्यादेव न स्यादेव वा, न तु कदाचित् स्यात् // 4 //
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy