SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ 4 * वामध्वजकृता सङ्केत्तटीका प्रमाणसिद्धे न संदेहस्तथा तस्मिन् परमात्मनि श्रुत्यादिसिद्धे यद्यपि न संदेहः / 4. तथापि - न्यायचर्चेयमीशस्य मननव्यपदेशभाक् / उपासनैव क्रियते श्रवणानन्तरागता // 3 // श्रुतो हि भगवान् बहुशः श्रुतिस्मृतीतिहासपुराणेष्विदानी मन्तव्यो भवति, "श्रोतव्यो मन्तव्यः" इति श्रुतेः, आगमेनानुमानेन ध्यानाभ्यासरसेन च / त्रिधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तमम् // इति स्मृतेः // 3 // 4. मा प्रामाण्यात् तस्य... दौ सकर्तृ[क]त्वासकर्तृकत्वविवादेन कर्तृकत्वाकर्तृकत्वरूपपरमात्मसंदेह इति न्यायेन निदिध्या.... अनुमितिस्तत्साधकलिङ्गप्रतिपत्तिर्वा / मननव्यपदेशभागिति / मनिर्मननमनुमितिर्मन्यात् ... पाया उपासनाया मोक्षं प्रति हेतुत्वावगमात् / एवकारस्तु निष्प्रयोजनत्वमपाकरोति / श्रवणानन्तरा... सूचितमिति दर्शितमिपि तात्पर्यम् / अत एव समस्तागमपूर्वकप्रतिपत्त्यनन्तरभावित्वं मननप्रतिपत्तेर्द.... / ननु मननं प्रमाणयुगलायत्तं तच्च तत्तद्वादिविप्रतिपत्तिदूषितं न मननसाधकमित्याह - तदिति / ___5. तदिह संक्षेपतः पञ्चतयी विप्रतिपत्तिः / अलौकिकस्य परलोकसाधनस्याभावात् / अन्यथापि परलोकसाधनानुष्ठानसंभवात् / तदभावावेदकप्रमाणसद्भावात् / सत्त्वेऽपि तस्याप्रमाणत्वात् / तत्साधकप्रमाणाभावाच्चेति / तत्र न प्रथमः कल्पः यतः - 5. प...युगलगोचरदूषणरूपेति / तत्र प्रथमं परमनास्तिकचार्वाकविप्रतिपत्तिमाह - अलौकिकस्ये[5B]ति / कार्यकारणभावावधारणोपायान्वयव्यतिरेकयोः सर्वदा सर्वत्राशक्यनिरूपणतया कादाचित्कत्वाकादाचित्कत्वयोश्च तयोर्व्यभिचारेण तथात्वानवधारकतया अन्यस्य चोपायस्याभावात् परैरनभ्युपगमाच्चेति कार्यकारणभाववैरिणश्चार्वाकस्याप्तोक्तत्वकार्यत्वासम्भवे आप्तोक्तत्वकार्यत्वयोः श्रवणमननसाधकयोरसिद्धिरित्याह - साधनाभावादिति / साधनस्य कार्यत्वादेरसिद्धिरिति / स्वरूपासिद्धं दर्शयति / कार्यकारण.... करणाय वचनोच्चारणप्रश्नादिकमपि न घटते इति सांव्यवहारिकमपि हेतुत्वमभ्युपगन्तव्यमिति यद्यपि तथापि समानमेव कारणं कार्यजात... परिज्ञानं तच्च सिद्धसाधनमित्यत आह - परलोकेति / परस्यान्यस्य लोच्यमानसाधनस्याभावादिति अर्थः / कार्यवैचित्र्याद् विभिन्नविजातीयकारणस्वीकारेऽपि नादृष्टं सिध्यति / यदर्थमुपदेशो यत्परिज्ञानाय चातिरिक्तस्य कर्तुरभ्युपगम इत्याह - अलौकिकस्येति / अत्राप्यदृष्टाभावेन दृष्टकारण(णे)न अस्यास्मदादिभिरेव शक्यज्ञानत्वेन सिद्धसाधनमेवाभिमतमिति सूचितम् / अदृष्टानभ्युपगमे दृष्टनिरपेक्षाणां हिताहितप्राप्तिपरिहारसाधनगोचरप्रवृत्तिनिवृत्त्यनुपपत्तिप्रसङ्ग[:] / विनिवारितविपरीतशङ्काहङ्कारायाः प्रेक्षावतामुक्तप्रवृत्तेरेवादृष्टमास्थेयमिति / न तदभावेनोपदेष्ट्रकनभ्युपगम: किन्तु प्रकारान्तरेणेति मीमांसकः / प्रकारान्त[6A]रमाह - अन्यथेति / अन्यथाप्याप्तोक्तत्वावधारणव्यतिरेकेण संदेहेनापि पुरुषप्रवृत्तिनिवृत्तिरूपसाधनानुष्ठानस्य दृष्टे विषये संभवात् / परलोकसाधनस्य यागाद्यनुष्ठानस्यापि नित्यनिर्दोषवेदद्वारा संभवादित्यसिद्धमाप्तोक्तत्वम् / कार्यत्वमपि परमेश्वरमन्तरेण कादाचित्कादृष्टपरिपाकवाश(वशे)
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy