SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ 3 * न्यायकुसुमाञ्जलिः स्तबकः 1 2. स्वर्गापवर्गयोर्मार्गमामनन्ति मनीषिणः / यदुपास्तिमसावत्र परमात्मा निरूप्यते // 2 // 2. परमात्मनोऽपि साक्षात्कारज्ञानस्य निःश्रेयसकारणत्वेन श्रवणात् तदुपायनिदिध्यासनमननश्रवणानामस्योपयोगः / तथा च परमेश्वरदर्शनसञ्जाता दृष्टविशेषवति संसारिणि पुरुषे संसारकारणमिथ्याज्ञान.... साक्षात्कारविज्ञप्तिसन्ततिरतिशयवती भवति / तन्नास्तिताभावनं संसारनिदानमेव / स्वर्गेति रागिपुरुष....स्वर्गादिदुःखदवदहनदह्यमाना विचारतो मुमुक्षव एवेत्यर्थः / ननु निरूपणं तत्तद्वादिविप्रतिपत्तिसंपादितसंदेहविधूननेन निश्चयो.... सर्ववाद्यविवादसिद्धे सिद्धम् / कर्तृत्वाकर्तृत्वादित असिद्धं इति चेन्न विज्ञानस्य निःश्रेयसानु..... / उपयोगित्वे वा "द्यावाभूमी.....'' इत्यादिश्रुतेरेव सिद्धेः मनननिरूपणमिति चेत्, न, तस्याप्यनुमानविशेषसाध्यत्वेन / [न] / [4A] निःसंदिग्धे अनुपपत्तेरित्यत आह - इहेति / / __3. इह यद्यपि यं कमपि पुरुषार्थमर्थयमानाः, शुद्धबुद्धस्वभाव इत्यौपनिषदाः, आदिविद्वान् सिद्ध इति कापिलाः, क्लेशकर्मविपाकाशयैरपरामृष्टो निर्माणकायमधिष्ठाय सम्प्रदायप्रद्योतकोऽनुग्राहकश्चेति पातञ्जलाः, लोकवेदविरुधैरपि निर्लेपः स्वतन्त्रश्चेति महापाशुपताः, शिव इति शैवाः, पुरुषोत्तम इति वैष्णवाः, पितामह इति पौराणिकाः, यज्ञपुरुष इति याज्ञिकाः, सर्वज्ञ इति सौगताः, निरावरण इति दिगम्बराः, उपास्यत्वेन देशित इति मीमांसकाः, लोकव्यवहारसिद्ध इति चार्वाकाः, यावदुक्तोपपन्न इति नैयायिकाः, किं बहुना, कारवोऽपि यं विश्वकर्मेत्युपासते, तस्मिन्नेवं जातिगोत्रप्रवरचरणकुलधर्मादिवदासंसारं प्रसिद्धानुभावे भगवति भवे संदेह एव कुतः / किं निरूपणीयम् / ___3. इह निरूपणप्राप्तौ निरूपणे कर्तव्ये संदेह एव कुत: ? समानधर्मादीनां तद्धेतुत्वानुपपत्तेरित्यभिप्रायः / विशेषदर्शनार्थमागमिकतार्किकाशेषमतानि दर्शयितुं वेदादीनां मतं तावदाह - शुद्धेति / शुद्धः केवल: एको द्वितीयविरहात् / बुद्ध: स्वप्रकाशः, द्वितीयाभावेन परप्रकाश्यत्वानुपपत्तेः / साङ्ख्यमतमाह - आदीति / प्रथमतः स्वभावतः विद्वान् चिद्रूपो न तु प्रकृतिवत्, प्रकृतेस्तु चिद्रूपाभिमान इत्यर्थः / सिद्धः कूटस्थनित्यो न तु परिणामिनित्यः प्रकृतिविदिति प्रमाणादवधारितः / पतञ्जलिमतमाह - क्लेशेति / कर्म धर्माधर्महेतुर्भावनासाध्यं यागहिंसादि / विपाको जात्यायुर्भोगाः / आसते फलोपभोगपर्यन्तमात्मनीति धर्माधर्मरूपम् / तैरपरामृष्टोऽसम्बद्धः / ननु कर्माद्यभावे देहेन्द्रिय.... शरूपवेदकत्रध्यापयितृव्याख्यातृत्वानुपपत्तेः / तथा च कथं हिताहितविषयप्रवृत्तिनिवृत्तिज....दिनिर्माणप्रदर्शनेन चानुग्राहको....ति / शरीरान्वयव्यतिरेकानुविधायिनि कार्ये भोक्तृकर्माभावेऽप्यनुग्राह्यक्षेत्रज्ञगतकर्मभावजजगन्निर्माणार्थप्रकाश..... कर्मविरहेनोपपद्यत इत्यर्थः / संप्रदीयते गुरुणा शिष्यायेति संप्रदायो वेदो घटा[4B]....। अत एव श्रूयते 'नम: कुलालेभ्यः' इत्यादि / सोमं राजानमसृजत्, ततस्त्रयो वेदा अन्वसृ.... शरीरं दर्शयति च विभूतीरिति / अनुग्राहकः स्वर्गापवर्गदाता इत्यर्थः / महाव्रतिमतमाह - लोके... निर्लेपोऽधर्मरहितः / क्लेशसलिलावसिक्तायामात्मभूमौ कर्मबीजं [धर्मा]धर्म(ङ्)िकुरं करोति न तु नित्यसर्वज्ञ... | पुरुषेषूत्तमो नित्यसर्वज्ञो जगत्कर्ता चेत्यर्थः / पितामहो जगज्जनकत्वात् / यज्ञे प्रधानाधिष्ठातृत्वं कर्मोपार्जितं यस्य स तथा / सर्वज्ञ इति / क्षणिकसर्वज्ञ इत्यर्थः / उपास्यत्वेनाराध्यत्वेन... त्यर्थः / यावदुक्तेनोपपन्नो न तु व्याख्यातेन / अथवा यावदुक्तोपपन्नो नोपपन्नो या.... / बुद्ध्यत इति कर्मकर्तृभ्यां प्रमाणगम्यो बोधाधारो वा। आदिविद्वान् नित्यचेतनाजन[5A]...नित्यचैतन्ययोग.... शेषं सुबोधम् / यथा जातिगोत्रादौ संसारमभिव्याप्य
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy