________________ 2. वामध्वजकृता सङ्केत्तटीका 1. निर्विघ्नेन प्रारिप्सितपरिसमाप्तिकामोऽविगीतशिष्टाचारपरिप्राप्ततया प्रारम्भणि(णी)यग्रन्थप्रतिपाद्यतत्प्रयोजनपुरस्सरं व्यक्ताव्यक्तमहेशपदगोचरकर्मज्ञानयोगरूपन[2A]मस्कारप्रतिपादनार्थमाह - सत्पक्षेति / कर्मयोगपक्षे तावदित्थं व्याख्या - न्यायोपार्जितप्रसनाञ्जलिरेव निष्पापईशस्य सदाशिवादिमूर्तेः पदयुगे चरणयुगे निवेशितो यतोऽतस्तस्यैव चरणयुगे सम चेतो मनो भ्रमर इव भ्रमदनवस्थितं रमयतु निश्चलमविघ्नं करोतु / अनघरूपता प्रसूनाञ्जलेर्दर्शयितुं कलिकात्वं स--नां च निवारयति / सत्पक्षेति / सन्मनोहरः पक्षप्रसरः पत्रविकाशो यत्र स तथा / सतामविकलचक्षुषामित्यर्थः / प्रोद्बुद्धगन्धविशेषसम्बन्धितामाह - परिमलेति / सतामित्यत्रापि सम्बन्धनीयम् / सतां श्लेष्माद्यनुपप्लुतघ्राणानामित्यर्थः / परिमलो गन्धविशेषः, तस्य प्रोद्बोधो ज्ञानम्, तेन बद्ध उत्सवो रतिरानन्दो यत्रेति / अपर्युषितत्वं दर्शयति - न विम्लान इति / सतां विमर्दने करतलद्वयसम्पर्के न विम्लानो न विवर्णतां गतः / भ्रमरस्येव मनसो रमणनिमित्ततामाह - अमृतेति / अमृतसमो रसः अमृतरसः / प्रस्यन्द इति / प्रस्यन्द: प्रवाह: अविच्छेदेनानुवर्तमानः, स एव माध्वीकं म(म)धु, तस्य भूराश्रयः / “तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय / द्वे ब्रह्मणि वेदितव्ये घरं चापरमेव च" इत्यादि श्रुतेः परमात्मज्ञानस्य निःश्रेयसहेतुतावगतौ बौद्धाधि[2B] ....... कुतर्काभ्यासप्रगल्भनास्तिकप्रपञ्चितयुक्तिप्रकरापादिताप्रामाण्यापसारणाभिप्रायेण निःश्रेयसकारणभूतपरमेश्वरपदगोचरमननसाधकप्रमाणविशेषविप्रतिपन्नपुरुषबोधकन्यायप्रतिपादनाय वाऽयमेव श्लोको। ___ ज्ञानयोगपक्षेऽपि व्याख्यायते / सत्पक्षेति / अस्मिन् पक्षे निर्दोषन्यायाः पञ्चावयवप्रयोगा एव प्रसूनानि, तेषामञ्जलि: / अञ्जलित्वं पुनायरूपप्रशस्तानां निषेध्यविधेयरूपलिङ्ग.... पदयुगे प्रमाणयुगे, पद्यते गम्यते अनेनार्थ इति व्युत्पत्त्या / अत्र चागमस्य प्रामाण्या..... व्यतिरेकानुमाने च / अस्मदाद्यात्मव्यतिरिक्तपरमेश्वरविषये पदयुगतया द्रष्टव्ये / निवेशितो यतोऽतस्तस्यैव प्रमाणयुगे मननसाधके उक्तरूपं रेतो रमयतु / ततो म[न]नानन्तरचोदितनिदिध्यासनादिसिद्धौ मोक्षः सिध्यतु / अनघन्यायप्रसूनाञ्जलित्वमुक्तं तत् कथमित्यत आह - सत्पक्षेति / सन्न वाधितो अप्रतिबुद्धः सिद्धसाधनादिरहितस्वपक्षः सत्पक्षः / तत्र प्रसरतीति तत्र वा प्रसरो [3A] यस्येति भागासिद्धिस्वरूपासिद्धिरहितः / एवं च बाधप्रतिबोधात् भागस्वरूपासिद्धिनिरासः / सतामदुष्टान्त:करणानामिति सर्वत्र सम्बन्धः / दुष्टमनसां पुनः परेषां स्वान्त(न्तः)पाषाणपाटनपटीयान(नां) विपरीमेवाचरति / परिमल: परिशीलनं समन्तत आकलनं सामान्यव्याप्ततया, तस्य प्रोद्बोधो विशेषविषयतया पर्यवसानम्, तेन बद्धो निश्चलीकृत इत्यतः परमपुरुषार्थोपयोगीच्छाऽविच्छेदो यत्रेति / व्याप्यत्वासिद्धविरुद्धनिरासः / विमर्दनं तत्र द्विपक्षकोट्यदृष्टोद्भूत्यादिसंस्पर्शनम्, [न] तत्र विम्लानः / संभावितस्य....ष्टोद्भूतिवत्सविवृद्ध्यर्थं क्षीरप्रसवादेः पक्षकोटावन्तर्भावादित्यनैकान्तिकापाकरणम् / नन्वीश्वरपदयुगे मनो निवेशनमपि निष्फलं स्वातन्त्र्येण, प्रयोजनाश्रुतेः / फलवत्सन्निधानाप्रतिपादनाच्चेत्यत आह - अमृतेति / न विद्यते मृतमस्य यत्र तदमृतं निर्वाणम्, तस्य रसः तद्गोचरेच्छा / तस्य प्रस्यन्द उत्तरोत्तरप्रवाहाविच्छेद(दे)नानुवर्तनम् / स एव माध्वीकं मधु / तस्य भूराकरः / सञ्जातापि मुमुक्षा कुतार्किकैस्तत्तत्संदेहापादनेनापसार्यते / अतस्तदापादितसंदेहापनोदकप्रमाणविशेषविषयन्यायनिवेशनेन विवर्ध्यत इत्यर्थः / नन्वस्मदाद्यात्म[3B]ज्ञानमस्मदाद्यात्मसाक्षात्कारपर्यन्त.... तस्योक्तरूपं ज्ञानं संसारकारण दाराऽपवर्गकारणमस्मदात्मा च / तथा तत्कि परमात्मगोचरप्रमाणविशेषविषयन्यायनिरूपणेनेत्यत आह - स्वर्गेति / मिथ्य