Book Title: Tattvarthshlokavartikalankar Part 2
Author(s): Vidyanandacharya, Vardhaman Parshwanath Shastri
Publisher: Vardhaman Parshwanath Shastri
View full book text
________________
तत्वार्थचिन्तामणिः
नास्तिको अवश्य चाहेगा। यदि न चाहेगा तो वह कहीं भी व्यवस्थित नहीं रह सकता है । जिससे कि वह अपने इष्ट, अनिष्ट, तत्त्वकी व्यवस्था कर सके। जिसके यहां इष्ट, अनिष्ट, तत्त्वकी व्यवस्था है, वह तो अस्ति नास्तिको अवश्य मानेगा। इस प्रकार दो भंग भले प्रकार सिद्ध हुए । स्वरूप और पररूप । यहां रूपका अर्थ भाव है । आदि पद करके द्रव्य, क्षेत्र, काल, इन तीनका ग्रहण है ।
कथमवक्तव्यो जीवादिः १ द्वाभ्यां यथोदितप्रकाराभ्यां प्रतियोगिभ्यां धर्माभ्यामवधारणात्मकाभ्यां युगपत्प्रधाननयार्पिताभ्यामेकस्य वस्तुनो बुभुत्सायां तादृशस्य शब्दस्य प्रकरणादेश्वासम्भवादिति चेत् । तत्र कोऽयं गुणानां युगपद्भावो नामेति चिन्त्यम् । कालाद्यभेदवृत्तिरिति चेत् न, परस्परविरुद्धानां गुणानामेकत्र वस्तुन्येकस्मिन् काले वृत्तेरदर्शनात् सुखदुःखादिवत् । नाप्यात्मरूपेणाभेदवृत्तिस्तेषां युगपद्भावस्तदात्मरूपस्य परस्परविभक्तत्वातद्वत् । न चैकद्रव्याधारतया वृत्तिर्युगपद्भावस्तेषां भिन्नाधारतया प्रतीतेः शीतोष्णस्पर्शवत् । संबंधाभेदो युगपद्भाव इत्यप्ययुक्तं, तेषां संबंन्धस्य भिन्नत्वाद्देवदत्तस्य छत्रदण्डादिसम्बन्धवत् समवायस्याप्येकत्वाघटनाद्भिन्नाभिधानप्रत्यय हेतुत्वात् संयोगवत् । न चोपकाराभेदस्तेषां युगपद्भावः प्रतिगुणमुपकारस्य भिन्नत्वान्नीलपीताद्यनुरञ्जनवत् पटादौ । न चैकदेशो गुणिनः सम्भवति निरंशत्वोपगमात् । यतो गुणिदेशाभेदो युगपद्भावो गुणानामुपपद्येत । न तेषामन्योन्यं संसर्गे युगपद्भावस्तस्यासम्भवाद संसृष्टरूपत्वाद्गुणानां शुक्लकृष्णादिवत् तत्संसर्गे गुणभेदविरोधात् । न च शद्वाभेदो युगपद्भावो गुणानां भिन्नशद्वाभिधेयत्वान्नीलादिवत् । ततो युगपद्भावात् सदसच्त्वादिगुणानां न तद्विवक्षा युक्ता यस्यामवक्तव्यं वस्तु स्यात् इत्येकान्तवादिनामुपद्रवः, स्याद्वादिनां कालादिभिरभेदवृत्तेः परस्परविरुद्धेष्वपि गुणेषु सत्त्वादिष्वेकत्र वस्तुनि प्रसिद्धेः प्रमाणे तथैव प्रतिभासनात् स्वरूपादिचतुष्टयापेक्षया विरोधाभावात् । केवलं युगपद्वाचकाभावात्सदसत्त्वयोरेकत्रावाच्यता सत्तामात्रनिबन्धनत्वाभावाद्वाच्यतायाः । विद्यमानमपि हि सदसत्वगुणद्वयं युगपदेकत्र सदित्यभिधानेन वक्तुमशक्यं तस्यासत्वप्रतिपादनासमर्थत्वात्, तथैवासदित्यभिधानेन तद्वक्तुमशक्यं तस्य प्रत्यायने सामर्थ्याभावात् ।
अब तीसरे भंगके लिये लम्बा चौडा प्रश्न है कि जीव आदिक पदार्थ अवक्तव्य अर्थात् शद्वसे नहीं कहने योग्य कैसे हैं ? बताओ ! इसपर यदि स्याद्वादी यों कहें कि यथायोग्य प्रकारसे पहिले कहे गये और अवधारणस्वरूप तथा परस्परमें एक दूसरे के प्रतियोगी एवं एक ही समय में प्रधान की विवक्षा कहनेके लिये अर्पित किये गये ऐसे अस्ति, नास्ति, दोनों धर्मों करके एक वस्तु समझने की इच्छा होनेपर तैसे वाचक शद्वका और प्रकरण, संकेत, आदिका असंभव होनेसे जीव आदिक अवक्तव्य हैं। ऐसा कहनेपर तो हम एकान्तवादी पूंछते हैं कि गुणोंका यह एक
४७७