Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८
अभिधान संग्रह: - ६ अभिधानचिन्तामणिः ।
ब्रध्नो हंसश्चित्रभानुर्विवस्वान्सूरस्त्वष्टा द्वादशात्मा च हेलिः । मित्रो ध्वान्तरातिरब्जांशुहस्तचक्र जाहबन्धवः सप्तसप्तिः || दिवादिनाहर्दिवसप्रभाविभाभासः करः स्यान्मिहिरो विरोचनः । ग्रहाब्जिनीगोद्युतिर्विकर्तनो हरिः शुचीनौ गंगनाजाध्वगौ || हरिदश्वो जगत्कर्मसाक्षी भावान्विभावसुः । त्रयीतनुर्जगञ्चक्षुस्तपनोऽरुणसारथिः ॥ रोचिरुस्ररुचिशोचिरंशुगो ज्योतिरचैिरुपधृत्य भीशेवः । प्रग्रहः शुचिमरीचिदीप्तयो धामकेतुघृणिरश्मिपृश्नयः ॥ पाददीधितिकरद्युतिद्युतो रुग्विरोक किरणत्विषित्विषः । भाः प्रभावसुगभस्तिभानवो भा मयूख महसी छविर्विभा ॥
f
१००
१०२ १०३
प्रकाशस्तेज उद्दयोत आलोको वर्च आतपः । मरीचिका मृगतृष्णा मण्डलं तूपसूर्यकम् ॥ १०१ परिधिः परिवेषश्च सूरसूतस्तु काश्यपिः । अनूरुर्विनतासूनुररुणो गरुडाग्रजः ॥ रेवन्तस्त्वर्करेतोजः प्लवगो हयवाहनः । अष्टादश माठराद्याः सवितुः परिपार्श्वकाः ।। चन्द्रमाः कुमुदबान्धवो दशश्वेतैवाज्यमृत सूस्तिथिप्रणीः । कौमुदीकुमुदिनीभदक्षजारोहिणीद्विजनिशौषधीपतिः ॥ जैवानृकोऽजैश्च कलाशरौणच्छायादिन्दुर्विधुरत्रिजः । राजा निशो रत्नकरौ च चन्द्रः सोमोऽमृतश्वेतहिमद्युतिग्लः ॥
Acharya Shri Kailassagarsuri Gyanmandir
९६
For Private and Personal Use Only
९७
९८
९९
१०४
१०५
१०८
षोडशोऽशः कला चिह्नं लक्षणं लक्ष्म लाञ्छनम् । अङ्कः कलङ्कोऽभिज्ञानं चन्द्रिका चन्द्रगोलिका १०६ चन्द्रातप: कौमुदी च ज्योत्स्ना बिम्बं तु मण्डलम् । नक्षत्रं तारका ताराज्योतिषी भमुटु ग्रह || १०७ धिष्ण्यमृक्षमथाश्विन्यश्वकिनी दस्रदेवता । अश्वयुग्वालिनी चाथ भरणी यमदेवता || कृत्तिका बहुलाश्चाग्निदेवा ब्राह्मी तु रोहिणी । मृगशीर्ष मृगशिरो मार्गश्चान्द्रमसं मृगः ॥ १०९ इल्वलांस्तु मृगशिरः शिरस्थाः पञ्च तारकाः । आर्द्रा तु कालिनी रौद्री पुनर्वसू तु यामकौ ॥ ११० आदित्यौ च पुष्पस्तिष्यः सिध्यश्च गुरुदैवतः । सार्पोऽश्लेषा मघा पित्र्या फाल्गुनी योनिदेवता ॥ १११ सा तूत्तरार्यमदेवा हस्तः सवितृदैवतः । त्वाष्ट्री चित्रानिली स्वातिर्विशाखेन्द्राग्निदेवताः ॥ ११२
१. तालव्यादिरित्यन्ये. २. यौगिकत्वात् 'तिमिरारिः' इत्यादयः ३ 'हस्त' शब्द: प्रत्येकमन्जादिनान्वेति यौगि कत्वात् पद्मपाणिः, गभस्तिपाणि:' इत्यादयोऽपि ४. 'बान्धव' शब्द: प्रत्येकं चक्रादिभिरन्वेति; यौगिकत्वात् 'चक्रवाकबन्धुः, 'पद्मबन्धुः, दिनबन्धुः' इत्यादयः ५. 'कर' शब्द: प्रत्येकं दिवादिभिरन्वेति; यौगिकत्वात् 'वासरकृत्, दिनप्रणीः, दिनकृत्' इत्यादयः. ६. पतिशब्दः प्रत्येकं ग्रहादिभिरन्वेति; यौगिकत्वात् - प्रदेशः, पद्मिनीशः, त्विषामीशः, इत्यादयोऽपि. ७. 'गगन' शब्द: प्रत्येकं ध्वजादिनान्वेति यौगिकत्वात् 'नभः केतनम्, नभः पान्थः ' इत्यादयः. ८. ‘साक्षिन्’शब्दः प्रत्येकमन्वेति ९. अभीषुरिति गौड : १०. पृष्णिरित्येके; वृष्णिरित्यन्ये. ११. यौगि - कत्वात् 'कैरवबन्धुः, कुमुदसुहृत्' इत्यादयोऽपि १२. ' वाजिन् शब्दः प्रत्येकमन्वेति ; यौगिकत्वात् 'श्वेताश्वः, दशाश्वः' इत्यादयः. १३. 'पति' शब्द : कौमुद्यादिभिरन्वेति ; यौगिकत्वात् 'ज्योत्स्नेशः, कुमुद्वतीशः, दाक्षायणीश: ' इत्यादयः. १४. समुद्रनवनीतमपि १५. 'भृत् शब्दः प्रत्येकं कलादिरन्वयः ; यौगिकत्वात् 'छायाङ्कः' इत्यादयः. १६. अत्रिनेत्रप्रसूतः इत्यादयः १७. 'निशा 'शब्दः प्रत्येकं संबध्यते; यौगिकत्वात् 'निशामणिः, रजनीकर; ' इत्यादयः. १८. 'श्रुति शब्दः प्रत्येकममृतादिभिः संबध्यते; यौगिकत्वात् 'सुधांशुः सितांशुः शीतांशुः इत्यादयः. १९. 'इन्वा 'इत्यपि.
"

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180