Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 82
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ द्विस्वरकाण्डः। घृष्टिः स्पर्धाघर्षणयोर्विष्णुक्रान्तावराहयोः।। घोण्टा पूगवदरयोश्चटुश्चाटुपिचण्डयोः ॥ १०३ व्रत्यासने जटा केशविकारे मांसिमूलयोः।। झाटो व्रणादिसंमाष्टै कुञ्जकान्तारयोरपि ॥ १०४ त्वष्टार्के विश्वकृत्तक्ष्णोस्खटिः संशयलेशयोः । सूक्ष्मैलायां कालमाने।त्रोटिश्चयां खगान्तरे।।१०५ मीनकटफलयोर्दिष्टं दैवे दिष्टस्त्वनेहसि । दिष्टिरानन्दे माने च, दृष्टिानेऽक्ष्णि दर्शने ॥ १०६ पट्टश्चतुष्पथे पीठे राजादेः शासनान्तरे । व्रणादिवन्धने पेषाश्मनि। पट्टी ललाटिका ॥ १०७ रोधोऽथ पटु लवणे पटुस्तीक्ष्णपटोलयोः । स्फुटे रोगविहीने च छत्रायां चतुरेऽपि च ॥ १०८ पुष्टिः स्यात्पोषणे वृद्धौ फटा तु कैतवे फणे।। भटो वीरे म्लेच्छभेदेऽपि च भृष्टिस्तु भर्जने १०९ शून्यवाट्यामथाम्लिष्टं म्लानमस्पष्टभाषितम् । यष्टिर्भार्या मधुयष्टयां ध्वजदण्डेऽस्त्रहारयो।॥११० रिष्टं क्षेमेऽशुभे रिष्टोऽसौ लाटो वरदेशयोः। वटो गोले गुणे भक्ष्ये वृक्षे साम्यवराटयोः।। १११ वाटः पथि वृतौ वाट वरण्डेऽङ्गान्नभेदयोः । वाटी वास्तौ गृहोद्यानेकेट्योविटस्तु मूषके ।। ११२ खदिरे लवणे षिङ्गेऽद्रौ च व्युष्टं फले दिने । पर्युषिते प्रभाते च व्युष्टिः स्तुतिफलर्द्धिषु ॥ ११३ विष्टिः कर्मकरे मूल्ये भद्राजूप्रेषणेषु च।। सटा जटाकेसरयोः स्फुटो व्यक्तप्रफुल्लयोः ॥ ११४ सिते व्याप्तेः स्फुटिस्त्वझिस्फोटे निभिन्नचिर्भिटे। सृष्टिः स्वभावे निर्माणे सृष्टं निश्चितयुक्तयोः ११५ प्रचुरे निर्मिते चाथ हृष्टः स्याकेशरोमसु । जातहर्षे प्रतिहते विस्मिते हृषितो यथा ॥ ११६ कठो मुनौ स्वर ऋचां भेदे तत्पाठवेदिनोः । कण्ठो ध्वनौ संनिधाने ग्रीवायां मदनद्रुमे।।। ११७ काष्ठं दारुणि काष्ठा तु प्रकर्षे स्थानमात्रके । दिशि दारुहरिद्रायां कालमानप्रभिद्यपि ॥ ११८ कुण्ठोऽकर्मण्ये मुर्खे च। कुष्ठं भेषजरोगयोः । कोष्ठो निजे कुसूले च कुंक्षेरन्तर्गृहस्य च ॥ ११९ गोष्ठं गोस्थानको गोष्ठी संलापे परिषद्यपि।। ज्येष्ठः स्यादग्रजे श्रेष्टे मासभेदातिवृद्धयोः॥ १२० ज्येष्ठा भे गृहगोधायां निष्ठोत्कर्षव्यवस्थयोः । क्लेशे निष्पत्तौ नाशेऽन्ते निर्वाहे याचने व्रते॥१२१ पृष्ठं पश्चिममात्रे स्याच्छरीरावयवान्तरे । वण्ठः कुण्ठायुधे खर्वे भृत्याकृतविवाहयोः ।। १२२ शठो मध्यस्थपुरुषे धूर्ते धत्तूरकेऽपि च । श्रेष्ठोऽत्र्ये धनदे षष्ठी गौरी षण्णां च पूरणी॥ १२३ हठोऽम्बुपा प्रसभेऽण्डं पेशीकोशमुष्कयोः । इडेलावत्स्वर्गनाडीभूवाग्गोषु बुधस्त्रियाम् ॥ १२४ काण्डो नालेऽधमे वर्गे द्रुस्कन्धेऽवसरे शरे । संहः श्लाघाम्बुषु स्तम्बे क्रीडा केल्यामनादरे ॥१२५ कुण्डी कमण्डलौ कुण्डो जाराज्जीवत्पतेः सुते । देवतोयाशये स्थाल्या क्ष्वेडः कर्णामये ध्वनौ१२६ विषे वक्रेक्ष्वेडा सिंहनादवंशशलाकयोः ।। श्वेडं लोहितार्कफले घोषपुष्पे दुरासदे ॥ १२७ क्रोडः 'कोले शनौ कोडमङ्के खण्डोऽर्ध ऐक्षवे । मणिदोषे च गण्डस्तु वीरे पिटकचिह्नयोः ॥१२८ कपोले गण्डके योगे वाजिभूषणबुद्धदे । गडुः पृष्टगुडे कुब्जे गडो मीनान्तराययोः ॥ १२९ गुडः कुअरसंनाहे गोलकेक्षुविकारयोः । गुडा तु 'गुलिकास्नुह्योर्गोण्डः स्यादृद्धनाभिके ॥ १३० पामरजातौ चण्डस्तु यमदासेऽतिकोपने । तीब्रे दैत्यविशेषे च चण्डी तु शिवयोषिति ॥ १३१ चण्डा धनहरीशङ्खपुष्प्योश्चूडा शिखाग्रयोः । बाहुभूषावलभ्योश्च चोडः कक्षुकदेशयोः ॥ १३२ १. 'गृहोद्यानकट्योः' ख; 'गृहोद्याने कट्यां' ग-घ, २ 'इत्कटी औषधिविशेषः' इत्यनेकार्थकैरवाकरकौमुदी. ३. 'प्रेरणेषु' ख. ४. 'निश्रुत' ग-घ. ५ 'हृष्टो रोमाञ्चसंयुते' ख-ग-घ. ६. 'केशरोमस्विति वैषयिकेऽधिकरणे सप्तमी । तेन केशरोमविषये नानयोः पर्यायशब्दता' इत्यनेकार्थकैरवाकरकौमुदी. ७. 'प्रहसिते' ख. ८. 'कुहरेऽन्त' ख; 'कुक्षावन्त' ग-घ. ९. 'रहः' ख-ग-घ. 'सहो बलम्' इति टीका. १०. 'केले' ग-घ. ११. 'कपट' ख, १२. 'कोणे' ख. १३. 'गुडिका' ख-ग-घ. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180