Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 159
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभिधानसंग्रहः-९ निघण्टुशेषः । तुम्ब्यां पिण्डफलेक्ष्वाकुस्तिक्तबीजा महाफला । अलाबूः क्षत्रियवरा कटुका लाबुनी च सा ॥३५८ चिर्भिट्यां प्रपुसी वालुक्येर्वारुळडिपत्रिका । ऊर्वारुः कर्करुः कर्कटीस्तत्रा""फलावरः ॥ ३५९ छर्दनीव विषाडुश्च तस्याः पक्कफलस्फुटी। कूर्चके शृङ्गकः सों दीर्घायुः कूर्चशीर्षकः ॥ ३६० मङ्गल्यनामधेये प्रजीवकः प्रियजीवकः । ह्रस्वाङ्गको मधुरकः प्राणकश्चिरजीव्यपि ॥ ३६१ पुष्करमूले स्यान्मूलं वीरपुष्करनामकम् । पौष्करं पुष्करजटा कश्मीरं पद्मवर्णकम् ॥ ३६२ मस्तुगन्धायां तु गन्धा खरपुष्पा शकम्भरा । कर्वरी बर्बरी चुङ्गो पूतिमयूर इत्यपि ॥ ३६३ बिम्ब्यां रक्तफला गोल्हा प्रवालफलघोषिका । ओष्ठोपमफला तुण्डी तुण्डिका पीलुपर्ण्यपि ॥ ३६४ इत्याचार्यश्रीहेमचन्द्रविरचिते निघण्टुशेषे चतुर्थः शाककाण्डः । रोहिषं कामकं पौरं भूतिकं भूतिकतृणम् । स्तोगन्धिकं धिकं देवजग्धं शकलिपुद्गले ॥ ३६५ भूस्तृणं रोहितं छत्रातिच्छत्रककटुम्बके । भूतिकं भूतिकतृणं माला तृणसुगन्धके॥ ३६६ दर्भे दभ्रः खरो बहिर्वा रास्तवीकुधः कुशः । सारीवानी रजो गुन्द्रा पवित्रा कुतसावपि ॥ ३६७ काशे स्यादिक्षुगन्धेक्षुकाण्डश्चामरपुष्पकः । वायसेक्षुः पोटगल: कासेक्षुः कोकिनां क्षकः ॥ ३६८ उलपवल्वजो बालकेशी दृढलतापि च । इक्षू रसालो गण्डीरी गण्डकी क्षुद्रपत्रकः ॥ ३६९ तस्यैकादश भेदाः स्युः पुण्डूकान्तारकादयः । नले नडः शून्यमध्यो गमनो नर्तको नटः॥ ३७० अरण्यनलको रन्ध्री पोटगलो विभीषणः । नलिनु मनलिका नाकुली लेखकाञ्चिता)॥ ३७१ शरे तु मुओ बाणाख्यः स्थूलदर्भः पितामहः । गुञ्जस्तजनको भद्रमुञ्जो याजनकक्षुरः ॥ ३७२ मुञ्जस्तु यजिको मध्ये दृढत्वग्ब्रह्ममेखलः।। अथ बालतृणे शष्पं शुकं शालिकमङ्गुलम् ॥ ३७३ तृणं स्यादर्जुनं घासे यवसं चारि इत्यपि। दुर्वायां तु शतपर्वा भार्गवी विजया जया ॥ ३७४ मङ्गल्या स्यादलानन्ता मरी प्रतानिका रुहा । सहस्रवीर्या श्यामाङ्गी हरिता हरिताल्यपि ॥ ३७५ श्वेतदूर्वा तु गोलोमी शतवीर्या शता लता । गण्डदूर्वायां गण्डाली वारुणी शकुलाक्षकः ॥ ३७६ मुस्तायां भद्रको भद्रमुस्ताराजकशेरुकः । गुन्द्री वरोहो गाङ्गेयः कुरुविन्दोऽम्बुदाह्वयः ॥ ३७७ कटं नटे तु कैवर्तीमुस्तकं जीवनाह्वयम् । आकाण्डीरकं जीबुघ्नं गोन गोपुरप्लवम् ॥ ३७८ शतपुष्पं दारपुरं वानेयं परिपेलवम् । जलमुक्ता मुस्तकाभं शैवालदलसंभवम् ॥ वीरणे तु वीरतरं वीरभद्रं सुमूलकम् । मूलेऽस्योशीरमभयं समगन्धि रणप्रियम् ॥ ३८० लामज्जके तु नलदममृणालं लवं लघु । इष्टकापथकं शीघ्रं दीर्घमूलं जलाशयम् ॥ ३८१ इत्याचार्यश्रीहेमचन्द्रविरचिते निघण्टुशेषे पश्चमस्तणकाण्डः । अथ धान्ये सस्यं सीयं ब्रीहिः स्तम्बकरि अपि।आशौ स्यात्पाटलो ब्रीहिर्गर्भपाकिणि षष्टिकः ॥३८२ शालौ तु कलमाद्याः स्युः कलमे तु कलायकः । लोहिते रक्तशालिः स्यान्महाशालौ सुगन्धिकः,३८३ यवे हयप्रियस्तार्थ्यशूकस्तोक्यस्तुसो हरित् । मङ्गल्यके स्यान्मसूरः कलाये तु सतीनकः॥ ३८४ हरेणुः खण्डिकश्चाथा चणके हरिमन्थकः।। माषे तु मदनो नन्दी सरी बीजवरो बली ॥ ३८५ मुद्रे तु प्रघनो लोभ्यो वलाटो हरितो हरिः । पीतेऽस्मिन्वसुखण्डीरः प्रवेलजयशारदाः ॥ ३८६ कृष्णे प्रवरवासन्तहरिमन्थजशिम्बिकाः । वनमुद्रे तु वरका निगूढककुलीमकाः ॥ ३८७ खण्डिको राजमुद्रे तु मकुष्टकमयुष्टकौ।। गोधूमे सुमनो वल्ले निष्पावः शितिबिम्बिकः॥ ३८८ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180