Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ शाककाण्डः ।
बिसप्रसूनं नालीकं तामरसं महोत्पलम् । तज्जलात्सरसः पकानपरै रुहजन्मजैः || पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहम् । रक्तोत्पलं कोकनदं कैरवेण्यां कुमुद्वती ॥ I उत्पले स्यात्कुवलयं कुवेलं कवलं वलम् । श्वेते तु कुमुदं चैव कैरवं गर्दभाह्वयम् ॥ नीले तु स्यादिन्दीवरं हल्लकं रक्तसंधिकम् । सौगन्धिके तु कल्हारबीजकोशे वराटकः || पद्मनाले तु मृणालं... तन्तुलं बिसम् । किञ्जल्के केसरं नव्यदले संवर्तिका भवेत् ॥ पश्द्मकन्दे करहाटशिफे शालूकमौत्पले । पद्मवीजे तु पद्माक्षं पद्मकर्कटिकेत्यपि ॥ वारिपर्ण्यं तु पानीयपृष्ठगा कुम्भिका हटः । जलशुके जलनीली तथा शैवालशैवले ॥ `इत्याचार्यश्रीहेमचन्द्रविरचिते निघण्टुशेषे तृतीयो लताकाण्डः ।
For Private and Personal Use Only
११
३२५
३२६
३२७
३२८
३२९
३३०
३३१
शतपुष्पायां तु घोषा शताह्वा माधवी मिषिः । अतिछत्रा छत्रपुष्पा वाक्पुष्पा कारवी सहा ||३३२ जीरके तु कणाजाजी जरण: कणजीरकः । कृष्णेऽस्मिन्कारवी पृथ्वी सुगन्धा तुषवी पृथुः ॥ ३३३ उपकुवी कुश्चिका च कालोपकुञ्चिकापि च । रसोने लशुनो म्लेच्छकन्दोरिष्टो महौषधम् ॥ ३३४
३३५
2
महाकन्दो पदोऽप्येष गृञ्जनो दीर्घपत्रकः । पलाण्डौ यवनेष्टः स्यात्सुकन्दो वक्रभूषणः || फरणः स तु हरितो लतार्को दुद्रुमोऽपि च । सप्तलायां बहुफेना सातला बिन्दुलामली ॥ सारी मरालिका दीप्ता फेना च मकिसा यवा । प्रसारण्यां चारुपर्णी भद्रपर्णी प्रतानिका ॥ भद्रबला भद्रलता भद्रकाली महाबला । सारणी सुप्रसारा च राजबला च सापि च ॥ ब्राह्मी वयःस्था मत्स्याक्षी ब्राह्मणी सोमवल्लरी | सरस्वती सत्यवती सुख ब्रह्मचारिणी ॥ सूरणे कण्डुरः कन्दोऽर्शोघाती चित्रदण्डकः । वृद्धदारुके वाघेगी जीर्णवालुकजुङ्गकौ ॥ अजाण्टी ऋक्षगन्धा स्यादन्तकोटकपुष्यपि । सुवर्चलायां मण्डूकी बदरादित्यवल्लभा ॥ मण्डूकपर्ण्यर्कभक्तादित्यवल्ली सुखोद्भिदा । भृङ्गराजे भृङ्गरजो भृङ्गारः केशरञ्जनः ॥ अमारको भेकरजो भृङ्गो मार्कव इत्यपि । । कासमर्दे त्वरिमर्दः कालं कतक कर्कशः ॥ वास्तुके तु शाकश्रेष्ठः प्रवालः क्षारपत्रक: । शाकवीरो वीरशाकस्ताम्रपुष्पः प्रसादकः ॥ पालङ्कथायां तु पालङ्कया छुरिका मधुसूदनी । जीवन्त्यां स्याज्जीवनीयजीवनी जीववर्द्धिनी ॥ माङ्गल्यनामधेया च शाकश्रेष्ठा यशस्करीः । स्यादम्ललोणिकायां तु चाङ्गेरी चुक्रिका रसा ॥ अम्बष्ठाम्लोलिका दन्तशठाटोलाम्लटोलकः । नरेन्द्रमाता क्षुद्राम्ली चतुष्पर्णी च लोणिका ।। ३४७ तन्दुलीये मेघनादस्तन्दुली तन्दुलेरकः । गण्डीरको रक्तकाण्डो विषहार्यल्पमारिषः, ॥. समण्ठो तु तोयवृत्तिर्गण्डीरस्तोयमञ्जरी । समष्टीला शोषहरी जलापामार्ग तुल्यकः ॥ अन्यः सुस्थलगण्डीरः कर्बरष्टकदेशजः । काकमाच्यां काकमाची काकसाह्वा वृषायणी ॥ ३५० श्रीहस्तियां तु भूरुण्डी कुरुण्डी काश्मरीरिपुः सुनिषण्णे सुचिपत्रः स्वस्तिकः शिरिवारकः || ३५१ श्रीवारकः शितिवरो वितुन्नः कुकुटः शितिः । मूलके तु महाकन्दो रुविष्यो हस्तिदन्तकः || ३५२ 'वुस्तिका नीलकण्ठश्च सेकिमो हरिपर्णकः । चाणाक्यमूलके शालमर्कटो मरुसंभवः ॥ ३५३ विष्णुगुप्त''''तोमिश्रः स्थालयो मर्कटोऽपि च । हिलमोच्यां शङ्खधरा जलब्राह्मी च मोचिका ॥ ३५४ कलम्ब्यां तु शतपर्वा केलम्बूर्यायसी च सा । कारवेल्लयां तु सुषवी कटिल्ला मृदुपर्णका ॥ पटोले तु पाण्डुफलः कुलकः कर्कशच्छदः । राजीफलः कफहरो राजिमानमृताफलः || कङ्गोटे तु किलासन्नस्तिक्तपर्व: सुगन्धकः । कूष्माण्डके तु कर्कारुः कलिङ्गयां बहुपुत्रिका ।। ३५७
३४६
३४८
३४९
३५५
३५६
३३६
३३७
३३८
३३९०
३४०
३४१
३४२
३४३
३४४
३४५

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180