Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठः काण्डः ।
जलव्यालेsatisfy शेषः स्यादेककुण्डलः । आशीराशी च दंष्ट्रायां निर्मोके निलयन्यपि ॥ ११६ पतत्री पतत्रिरपि पिच्छं पिञ्छमपि स्मृतम् । परपुष्टान्यभृतौ च पिके बर्हिणि बर्हिणः ॥ ११७ वायसे बलिपुष्टोऽपि द्रोणोऽपि द्रोणकाकवत् । सारसा लक्ष्मणी कौवा कुवा चाषे दिविः किकीः ११८ किकिदीविरपि प्रोटिट्टिभेटीटिभोऽपि च । कलविङ्के कुलिङ्गोऽपि दात्यूहे कालकण्टकः ॥ ११९ दात्यूहोऽपि बलाका च बकेरुर्बिसकण्ठिका । मेधाव्यपि शुके तैलपायिकायां निशाटनी ॥ १२० पोते वावतोsपि मत्स्ये मच्छोऽथ तन्तुणे । स्मृतो वरुणपाशोऽपि न शङ्कमुखोऽपि च ॥ १२१ उहारः कूर्म इत्येष तिर्यकाण्डः शिलोञ्छितः ॥ १२२
For Private and Personal Use Only
и
नारकास्तु नैरयिकाः पाताले तु तलं रसा । इति पश्चमकाण्डस्य शिलोच्छोऽयं समार्थतः ॥ १२३
१२८
१२९
१३०
१३१
जीवोsपि चेतने जन्तौ प्राणी जन्मोऽपि जन्मनि । जीवातुर्जीविते ऽथायुः पुंस्युदन्तोऽपि चायुषि ।। १२४ संकल्पे स्याद्विकल्पोऽपि मनो नेन्द्रियमप्यथ । शर्म सौख्यं पीडा बाधा चर्चा चर्चेऽपि कथ्यते ॥ १२५ विप्रतीशारोऽनुशयेऽथार्था अपीन्द्रियार्थवत् । सुसीमस्तु सुषीमोऽपि कक्खटे खक्खटोऽपि च ।। १२६ जरठे जरदोऽस्लेऽम्ब्लो रावो रव इव स्मृतः । निषादो निषधो गर्जो गर्जा मद्रोऽपि मन्द्रवत् १२७ आकरो निकरे युग्मे जकुटोऽथ कनीयसि । कनिष्ठं विग्रहः शब्दप्रपञ्चे निखिले पुनः ॥ स्यान्निःशेषमनूनं च खण्डलं चापि खण्डवत् । मलीमसे कल्मषं च निकृष्टे याव्यरेपसी ।। लडहं रमणीयं च रम्ये नित्ये सदातनम् । शाश्वतिकं च नेदीय इत्यन्तिकतमे स्मृतम् ॥ एकाकिन्यवगणोऽपि प्रागप्यादौ प्रकीर्तितम् । मध्यमे मध्यंदिनं च निरर्गलमनर्गले ॥ बहुरूपपृथग्रूपनानाविधाः पृथग्विधे । झम्पा झम्पो व्यवच्छिन्ने छादितं पिहितेऽपि च ।। प्रकाशिते प्रादुष्कृतमवज्ञायामसूक्षणम् | बुधैरवमनानावगणने अपि कीर्तिते ॥ अन्दोलनमपि प्रेङ्खाथोदस्तमप्युदञ्चितम् । भिदा भिच्चोदितमपीरितेऽथाङ्गीकृते पुनः ॥ कक्षीकृतं स्वीकृतं च च्छिन्ने छातमपि स्मृतम् । प्राप्ते विन्नं विस्मृते च भवेत्प्रस्मृतमित्यपि ॥ १३५ अटाटाच्या पर्यटनमा नुपूर्व्यमनुक्रमे । परीरम्भोऽपि संश्लेषे स्यादुद्वातोऽप्युपक्रमे ॥ १३६ जाता जातमपि स्पर्धा संघर्षोऽप्यथ विक्रिया । विकारो विकृतिश्चापि विलम्भस्तु समर्पणम् ॥ १३७ दिष्ट्या समुपजोषं सर्वदा सदा सनत् सनात् । निर्भरे च स्वती हेतौ येन तेन च कीर्तितौ ॥ १३८ अहो संबोधनेऽपीति षष्ठ काण्डः शिलोञ्छितः ॥
१३२
१३३
१३४
१३९
वैक्रमेऽदे त्रिवस्विन्दुमिते ( 3 ) राधाद्यपक्षतौ । प्रन्थोऽयं दद्दभे श्रीमज्जिनदेवमुनीश्वरः ॥
इति है नाममालायाः शिलोच्छः समर्थितः ।
१४०

Page Navigation
1 ... 174 175 176 177 178 179 180