Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१० लिङ्गानुशासनम् ।
सैन्धवो लवणे, भूतः प्रेते, तमो विधुंतुदे । स्वदायौ केस्वरे, कृच्छ्रं व्रते, शुक्रोऽग्निमासयोः ॥ कर्पूरस्वर्णयोश्चन्द्र उडावृक्ष छदे दलः । धर्मः स्वभावे रुचको भूषाभिन्मातुलुङ्गयोः ॥ पाताले वाडवो वर्द्धः सीसे आमलकः फले । पिटैजङ्गलसत्त्वानि पिटकामांसजन्तुषु ॥ मैधुपिण्डौ सुरातन्वोर्नाम शेवालमध्ययोः । एकाद्रात्रः समाहारे तथा सूतककूलकौ ॥ वैनीतकभ्रमरको मरको वलीकवल्मीकवल्कपुलकाः फरकव्यलीकौ । किंजल्ककल्कमणिकस्तबकावतङ्कवर्चस्क चूचुकत डाकतटाकतङ्काः ॥
बालकः फलकमालकालका मूलकस्तिलकपङ्कपातकाः । कोरकः करककन्दुकान्दुकाः नीकनिष्कचषका विशेषकः ॥ शाटककण्टकटङ्गविटङ्का मञ्चकमेचकनाकपिनाकाः ।
पुस्तकमस्तकमुस्तकशाका वर्णकमोदकमूषिकमुष्काः ||
चण्डातकश्चरकरोचककञ्जकानि मस्तिष्कयावककरण्डकतण्डकानि । आतङ्कशूकसरकाः कटकः सशुल्कः पिण्याकझर्झरकहंसक शङ्खपुङ्खाः ॥ नखमुखमँधिकाङ्गः संयुगः पद्मरागो भगयुगमथ टङ्गोद्योगशृङ्गा निदाघः । क्रैंकचकवचकूर्चार्धर्चपुच्छोच्छकच्छाः व्रजमुटजनिकुञ्ज कुञ्जमूर्जाम्बुजाच || ध्वजमलयजकूटाः कालकूटारकूटौ कवटकपटखेटाः कर्पटः पिष्टलोष्टौ । नटनिकटकिरीटाः कर्वटः कुक्कुटाट्टी कुटयकुटविटानि त्र्यङ्कटः कोट्टकुष्ठाः ॥ मठो वरुण्डखण्डषण्डा निगडाक्रीडनडप्रकाण्डकाण्डाः । कोदण्डतरण्डमण्डमुण्डा दण्डाण्डौ हेहेवरबाणवाणाः ॥ कार्षापणश्रवणपत्र णकंकणानि द्रोणापराह्नचरणानि तृणं सुवर्णम् | स्वर्णव्रणौ वृषणभूषण दूषणानि भाणस्तथा किणरणप्रवणानि चूर्णः ॥ तोरण पूर्त निकेतनिवाताः पारतमन्तयुतप्रयुतानि । क्ष्वेडितमक्षतदैवत वृत्तैरावतलोहितहस्तशतानि || व्रतोपवीतौ पलितो वसन्तध्वान्तायुतद्यूतघृतानि पुस्तः । शुद्धान्तस्तौ रजतो मुहूर्तद्वियूथयूथानि वरूथगूथौ | प्रस्थं तीर्थं प्रोर्थमैलिन्दः ककुदः कुकुदाष्टापद कुन्दाः | गुददोहद कुमुदच्छदकन्दार्बुद सौर्धेमधोत्सेधकबन्धौ ॥
श्राद्धायुधान्धौषधगन्धमादनप्रस्फोटना लग्नपिधानचन्दनाः । वितानराजादन शिश्रयौवनापीनोदपानासन के तनाशनाः ॥ नलिनपुलिनमौना वर्धमानः समानौदनदिनशतमाना हायनस्थानमानाः | धननिधन विमानास्ताडनस्तेनवस्ता भवनभुवनयानोद्यानवातायनानि ||
For Private and Personal Use Only
७
९०
९१
९२
९३
९४
९५
९६
९७
९८
९९
१००
१०१
१०२
१०३
१०४
१०५
१०६
१. धने, २. नक्षत्रे ऋक्षम् ३ यथासंख्येन. ४. यथासंख्येन. ५. अथ कान्ताः ६. खान्ताः. ७. गान्ताः, ८. घान्तः ९. चान्ताः १०. छान्ताः ११ जान्ताः. १२. टान्ताः १३ ठान्तौ १४. डान्ताः १५. दान्त:. १६. णान्ता:, १७ तान्ता: १८. थान्ता: १९. दान्ता: २० धान्ता: २१. नान्ता:.

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180