Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्रीः॥
अभिधानसंग्रहः।
(११) श्रीमजिनदेवमुनीश्वरविरचितः अभिधानचिन्तामणिशिलोञ्छः ।
a como
XG cao
अहं बीजं नमस्कृत्य गुरूणामुपदेशतः । श्रीहेमनाममालायाः शिलोञ्छः क्रियते मया ॥ सर्वीय इत्यपि जिने संभवः शंभवेऽपि च । श्रीसुव्रते मुनिरपि नेमौ नेमीत्यपीक्ष्यते ।। षष्ठे गणेशे मण्डितपुत्रोऽपि कथितो बुधैः । मरुदेव्यपि विज्ञेया युगादिजिनमातरि ॥
चक्रेश्वर्यामप्रतिचक्राप्यजितापिः कविभिरजितबला।
श्यामा त्वच्युतदेव्यपि सुतारिकोक्ता सुतारापि ॥ भद्रकृद्भद्रकरोऽपि श्रमणः श्रवणोऽपि च । भद्रं भन्द्रमपि प्राहुः प्रशस्तमपि कोविदाः ॥ ५ प्रव्रज्यापि परिव्रज्या शिष्योऽन्तेषदपि स्मृतः । इति प्रथमकाण्डस्य शिलोञ्छोऽयं समर्थितः ॥ ६ व्योमयानमपि प्रोक्तं विमानं बुधपुंगवैः । स्यात्समुद्रनवनीतं पेयूषमपि चामृतम् ॥ कथ्यन्ते व्यन्तरा वानमन्तरा अपि सूरिभिः । द्योतस्तथा पृष्णिमुष्णी प्रोक्ता रश्यभिधायकाः॥ ८ समुद्रनवनीतं च विदुश्चन्द्रमसं बुधाः । चन्द्रिका चन्द्रिमापि, स्यादिल्बला इन्वका अपि ॥ ९ अनुराधाप्यनूराधा गुरुः सप्तर्षिजोऽपि च । सौरिः सौरोऽपि राहुस्तु ग्रहकल्लोल इत्यपि ॥ १० अभ्रपिशाचोऽपि तथा नाडिका नालिकापि च । रात्रौ यामवतीतुङ्गयौ निःसंपातो निशीथवत् ॥११ तमः स्यादन्धतमसं वर्षाः स्युर्वरिषा अपि । खेऽन्तरीक्षं सांसृष्टकमपि तत्कालजे फले॥ १२ मेघमाला कालिकापि वार्दलं चापि दुर्दिने। सूत्रामापीन्द्रे शतारः शतधारोऽपि चाशनौ ॥ १३ आश्विनेयौ स्वर्गवैद्यौः हर्यक्षोऽपि धनाधिपः। अजगवमजगावमपि शंकरधन्वनि ॥ १४ गौर्या दाक्षायणीश्वर्यो नारायणे जलेशयः । कौमोदकी कौपोदकी आर्द्रशब्दौ श्रियां मतौ॥ १५ कन्तुः कंदर्प सिद्धार्थः सुगते परिकीर्तितः । अङ्गे व्याख्याविवाहा(दा)भ्यां प्रज्ञप्तिरपि पञ्चमे।।। १६ दृष्टिपातो द्वादशाङ्गयां कल्याणेऽवन्ध्यमप्यथ । निन्दा गर्दा जुगुप्साप्याक्षारणा रतिगालिषु ॥ १७ समाख्यापि समाज्ञावद्रुशतीवदुशत्यपि । काल्यापि कल्या संधायां समाधिरपि कथ्यते ॥ १८ ब्रीडः सूकामन्दाक्षं च ह्रियामूहापि चोहवत् । तन्द्रिस्तन्द्री च निद्रायामहंप्रथमिकापि च ॥ १९ अहं पूर्विकायां केलीकिलोऽपि स्याद्विदूषके । मार्षवन्मारिषोऽपीति शिलोञ्छो देवकाण्डगः ॥ २०
१. 'भद्रोऽपि' इत्यभिधानचिन्तामणिः. २. धुरिणरित्यन्ये' इत्यभिधानचिन्तामणिः. ३. 'बाहुलकाद्दीर्घत्वे -अ न्धातमसमित्यपि इत्यभिधानचिन्तामणिः. ४. 'अहमग्रिका च' इत्यभिधानचिन्तामणिः.
For Private and Personal Use Only

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180