Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१० लिङ्गानुशासनम् । स्त्रीलीबयोर्नखं शुक्तौ विश्वं मधुकमौषधे । माने लक्षं मधौ कल्पं क्रोडाङ्के तिन्दुकं फले ॥ १२२ तरलं यवाग्वां पुष्पे पाटलं पटलं चये । वसन्ततिलकं वृत्ते कपालं भिक्षुभाजने ॥ १२३ अर्धपूर्वपदो नावष्टथक-नटौ कचित् । चौराद्यमनोज्ञाद्यकथानककशेरुके । १२४
वंशिकवक्रोष्टिककन्यकुलपीठानि नक्तमवहित्थम् । रेशनं रसनाच्छोटॅनशुम्बं तुम्बं महोदयं कांस्यम् ॥
१२५ मृगव्यचव्ये च वणिज्यवीर्यनासीरमात्रापरमन्दिराणि ।
तमिस्रशस्त्रे नगरं मसूरवक्क्षीरकादम्बरकाहलानि ॥ स्थालीकदल्यौ स्थलजालपित्तलागोलायुगल्यो 'बैंडिशं च 'छेदि च । अलाबुजम्बूडूरुषःसरःसदोरोदोर्चिषी दाम गुणे त्वयट्तयट् ।
१२७ इति स्त्रीनपुंसकलिङ्गाः । स्वतखिलिङ्गः सरकोऽनुतर्षे शललः शले । करकोऽब्दोपले कोशः शिम्बाखड्गपिधानयोः ॥ १२८ जीवः प्राणेषु, केदारे वलजः, पवने खलः । बहुलं वृत्तनक्षत्रपुराद्याभरणाभिधा ॥ भल्लातक आमलको हरीतकविभीतकौ । तारकाडकपिटकस्फुलिङ्गा विडङ्गतैटौ ॥ पटः पुटो वटो वाटः कपाटशकटौ कटः । पेटो मैठः कुण्डनीडवाणास्तूणऋतौ ॥ १३१
मुस्तः कुंथेङ्गुददृम्भदाडिमाः पिठरैप्रतिसरपात्रकंदराः । नखरो वलूरो दरः पुरश्छन्नः कुवलमृणालमण्डलाः ॥
१३२ नालप्रणालपटलार्गलशृङ्खलकन्दलाः । पूलावहेलौ कैलशर्केटाहौ ष्टि रेण्विषु ॥
इति खतस्त्रिलिङ्गाः ।
परलिङ्गो द्वन्द्वोऽशी, डों वाच्यवर्दैपैत्यमिति नियताः। अँख्यारोपाभावे गुणवृत्तेराश्रयाद्वचनलिङ्गाः॥
१३४ १. अर्धनावी अर्धनावम्. २. 'वैदग्ध्यं वैदग्धी, राजधानी राजधानम्, आस्थानी आस्थानम्' इत्यादयः. ३. मनोज्ञाद्यन्तर्गणवर्जितेभ्यश्चौरादिभ्यो योऽकञ्प्रत्ययस्तदन्तम् । चौरिका चौरकमित्यादि । मानोज्ञकमित्येव, ४. अथ कान्ताः. ५. जान्तः. ६. ठान्तः. ७. तान्तः. ८. थान्ता:. ९. नान्ताः. १०. बान्तौ. ११. यान्ताः. १२. रान्ताः. १३. लान्ताः. १४. शान्तः. १५. अथेकारान्तः. १६.अथोकारान्तः. १७. अथ व्यञ्जनान्ताः. १८. द्वयी द्वयम्, चतुष्टयी चतुष्टयम् . १९. बहुलं लक्ष्यानुसारेण. २०.अथ कान्ताः. २१. गान्तौ. २२. टान्ताः. २३. ठान्तः. २४. डान्तौ. २५. णान्तौ. २६. तान्तौ. २७. थान्तः. २८. दान्तः. २९. भान्तः. ३०. मान्तः. ३१. रान्ताः. ३२. लान्ताः. ३३. शान्त:. ३४. हान्तः. ३५. इकारान्तः. ३६. उकारान्तौ. ३७. अंशी तत्पुरुषो यथा-राजपुत्री, अर्धपिप्पली, द्वितीयभिक्षा, इत्येवमादयः. ३८. डेर्थश्चतुर्थ्यर्थकोऽर्थशब्दोऽन्ते यस्य स वाच्य लिङ्गो यथा-द्विजार्थः सूपः, द्विजार्थी यवागूः, द्विजार्थं पयः । डे(३)ग्रहणात् धान्येनार्थो धान्यार्थ इत्येव । अर्थग्रहणात् कुण्डलहिरण्यमित्येव. ३९. अपत्यादयो नियतलिङ्गा यथा-अपत्यं दुहिता पुत्रश्च । रक्षः पुमान् स्त्री च । वेदाः प्रमाणम् , स्मृतयः प्रमाणम् । विद्या गुणः शौर्य गुणः. ४०. गुणो विशेषणं प्रवृत्तिनिमित्तं तदाश्रया वृत्तिर्यस्य तस्य विशेष्यवशाद्वचनं लिङ्गं च भवतः । प्रवृत्तिनिमित्तस्य गुणद्रव्यक्रियाभेदात्रैविध्यम् । गुणवाची शुक्लः शुक्ला शुक्ल, विद्वान् विदुषी विद्वत् ।
For Private and Personal Use Only

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180