Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 157
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अभिधानसंग्रह : - ९ निघण्टुशेषः । - Acharya Shri Kailassagarsuri Gyanmandir १० २९१ २९२ २९३ २९४ एकाष्ठीला रसाम्बष्ठाम्बष्ठकी वृकदन्तिका । शतावर्थी बहुसुता पीवरीन्दीवरी वरी ॥ शतमूला शतपदी शतवीर्या मधुस्रवा । नारायणी द्वीपिशत्रुद्वीपिकाभीरुपत्रिका ॥ महापुरुषदत्तोर्ध्वकण्टका वरकण्टका । सहस्रवीर्या सुन्यभीरुः सवरणीत्यपि ॥ कटुकायां मत्स्य पित्ता रोहिणी कटुरोहिणी । अशोकरोहिणी कृष्णभेदा तिलकरोहिणी ॥ कटम्भरा काण्डरुहा रास्ना तिक्तकरोहिणी । तिक्तारिष्टा कटुर्मत्स्या चक्राङ्गी शकुलादनी ॥ २९५ कपिकच्छा मह्यगुप्ता कण्डुरा दुरभिग्रहा । अजहा मर्कटी व्यण्डा कच्छुरा कपिकच्छुरा ॥ २९६ ऋष्यप्रोक्ता शूकशिम्बी लाङ्गली प्रावृषायणी | आर्यभी वह्निपर्याया कपिरोमा दुरालभा ॥ २९७ मञ्जिष्ठायां रक्तयष्टिः समङ्गा विकसारुणा । भण्डीरी मञ्जुका भण्डी जिङ्गी योजनवल्यपि ॥ २९८ कालमेषी कालगोष्टी मण्डूकपर्णिकापि च । मरिचे मलिनं कृष्णं वेल्लजं धर्मपत्तनम् ॥ २९९ पवनेष्टं शिरोवृन्तं मूषणं कोलकं च तत् । पिप्पल्यां च पला कृष्णा वैदेही मागधी कणा || ३०० शौण्डी श्यामोषणा कोलोपकुल्या कृष्णतन्दुला । तन्मूलं ग्रन्थिकं सर्वग्रन्थिकं चटकाशिरः || ३०१ समूलकं कोलमूलं कटुग्रन्थिकमूषणम् । चविकायां तथा चव्यं चवनं कालवयपि ॥ ३०२ तत्फले वसिरो हस्तिपिप्पली श्रेयसीत्यपि । गिरिपर्ण्यमरस्फोता विष्णुक्रान्ता पराजिता ।। 1 ३०३ सा तु श्वेता''''नामा कटभी श्वेतपुष्पिका । श्वेतस्यन्दा वखुरश्च कृष्णा त्वव्यक्तगन्धिका ।। ३०४ नीलस्यन्दा नीलपुष्पी महाश्वेताङ्गवन्दना । स्यादिन्द्रवारुणी त्वैन्द्री विषादनी गवादनी ॥ इन्द्रैर्वारुः क्षुद्रफला गोगुबावगवाक्ष्यपि । द्वितीयेन्द्रवारुण्यां तु चित्रफला महाफला || आत्मरक्षा विशाला चत्रपुसी तुम्बसीत्यपि । वचायामुग्रगन्धोप्रा जटिला शतपर्विका ॥ इक्षुकर्णिका गोलोमी लोमशा सूतनाशिनी । अन्या श्वेतवचा मेध्या षड्मन्था हैमवत्यपि ॥ ३०८ शारिवायां गोपकन्या गोपवल्ली प्रतानिका । गोप्यास्फोता लता श्वेता शरटा काष्टशारिवा ॥ ३०९ नागजिह्वाथ सा कृष्णभद्रा चन्दनशारिवा | भद्रवल्ली कृष्णवल्ली चन्दनोत्पलशारिवा || ३०५ ३०६ ३०७ ३१० ३११ ॥ ३१२ ३१४ ३१५ ३१६ मूर्वायां मोरटा देवी मधुश्रेणी मधूलिका । देवश्रेणी मधुरसा गोकर्णी तेजनी नवा ॥ धनुःश्रेणी वापगुणी पीलुर्ना तिक्तवल्कली । पीलुपर्णा स्निग्धपर्णी लाङ्गल्यां हलिनी नन्दा विशल्या गर्भपातिनी । अनन्ताग्निशिखा शक्रपुष्पिका कलिहारिका || ३१३ गुडूच्याममृता सोमवल्ली वत्सादनी धरा । छिन्नोद्भवा छिन्नरुहा विषघ्नी देवनिर्मिता ॥ विशल्या कुण्डली छिन्ना तन्त्रिका चक्रलक्षणा । देव्यनन्ता मधुपर्णी जीवन्त्यमृतवत्यपि ॥ देवताडे देवदाली वृत्तकोशा गरागरी । जीमूतकस्तालकश्च वेण्या सुविषघातिनी ॥ कोशातक्यां कृतच्छत्रा जाली घोषा सुतिक्तका । मृदङ्गफलिक्षटा घण्टाली रक्तवेधना ॥ ३१७ धामार्ग पीतपुष्प महाजला महाफला । कर्कोटकी कोशफला राजकोशातकीति च ॥ ३१८ हस्तिकोशातकी या विशाला कर्कशच्छदा । क्षीरिण्यां स्यात्कदुपर्णी धर्षणी पीतदुग्धिका ॥ ३१९ फेनक्षीरा मक्षीरा पीतक्षीरा करीषणी । हेमाह्वया हेमशिखी हेमवती हिमावती ॥ ३२० शङ्खिन्यां स्याद्वनहरी तस्करी चोरपुष्पिका । किशिनी ग्रन्थिका चण्डा श्वेतबुना निशाचरी ।। ३२१ आखुप पुत्रश्रेणी न्यग्रोधा शम्बरी वृषा । चित्रोपचित्रा रण्डाख्युः प्रत्यक्श्रेणी द्रवत्यपि ॥ ३२२ पद्मिन्यां तु महावल्ली बिसिनी बिसनाभयः । पलासिनी नालकिनी नलिनी पुटकिन्यपि ॥ ३२३ कमले नलिनं पद्ममरविन्दं कुशेशयम् । परं शतसहस्वाभ्यां पत्रं राजीवपुष्करे ॥ ३२४ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180